________________
फक्किकारत्नमञ्जूषा। मिति तुमन्नन्ते इनिषेधाऽनापत्तेः । इत्युभयत्रोपदेशपदसम्बन्ध आवश्यक इति भावः ॥ एकाचः किमिति-ननु एकाग्रहणाऽभावे जंघनितेत्यादौ यङलुगन्ते निषेधस्य दुर्वारत्वेन व्यर्थमेव तदिति वाच्यम् । [स्थालीपुलाक] न्यायेन वक्ष्यमाणपरिभाषाज्ञापनेन तस्य सार्थक्यात । तदाह-(१)श्तिपाशपानुबन्धेनेत्यादि-नच [श्युकः किती] त्यत्रैकाज्ग्रहणस्यानुवृत्यर्थत्वेन कथमुक्तार्थे ज्ञापकत्वमिति वाच्यम् । तथा सति लक्ष्यानुसारेणैवोक्तनिषेधज्ञापनादित्यारर्वाचीनाः । नव्यास्तु, एकाग्रहणमुत्तरार्थमित्युक्तवता भाष्यकृता [एकाच उपदेश] इत्यत्रैकाग्रहणस्यानावश्यकत्वं बोधितम् । नचेह किञ्चित् पो इतीति भाष्येणोत्तरार्थस्याप्यैकान्ग्रहणस्येह करणं युक्तमिति वाच्यम् । भाष्यकृतैवाऽत्रैकान्ग्रहणस्य वैयोपपादितत्वात् । नच हन्तिरूपोपदेशे वधादेशस्यैकाच्त्वानिषेधः स्यादेवेति वाच्यम् । साक्षादुपदेशसम्भवे परम्परोपदेशग्रहणे मानाभावेनादोषात् । नच स्तिपा शपेत्याधुक्तज्ञापने ज्ञापकभूतैकाग्रहणस्योत्तरार्थतया ज्ञापकत्वाऽभावाज्ज्ञापनासम्भवेन कथं यङ्लुकि तत्का
प्रवृत्तिरिति वाच्यम् । यङ्लुकश्छान्दसत्वेन छन्दसि दृष्टस्यैवाऽनुविधानेन सर्वेष्टसिद्धरिति दिक् ॥
ननु अनयोः पूलयोः कटं कुर्वित्यादौ यथा उभयपूलनिर्मितकटपदोत्तराविभक्तिगतैकत्वविवक्षणं तथैवाऽच इत्यत्रङस्विभक्तिगतैकत्वस्य विवक्षणादेकत्वस्य संख्यात्वेन विशेपणतया लक्ष्यानुरोधेन मत्वर्थलक्षणया एकावतो ग्रहणेन च सिद्ध व्यर्थमेकग्रहणमिति चेन्न । तस्योपदेशत्वावच्छेदेनैकाचो ग्रहणमिति बोधनेन सार्थक्यात् । तेन नावधीदित्यादौ निषेधः स्थान्युपदेशे एकाचत्वेऽप्यादेशोपदेशेऽऽनेकाच्त्वात् । नच [अर्द्ध नपुंसकम् ] [आकडारादेका संज्ञा] इतिसूत्रद्वयस्थनपुंसकग्रहणकाजग्रहणाभ्यां ज्ञापितस्य [सूत्रेलिङ्गवचनमतन्त्रमि] त्यस्य सत्वात्कथमुक्तप्रकारोपपत्तिरिति वाच्यम् । साक्षादुपदेशग्रहणेन चरितार्थत्वसम्भवे परम्परोपदेशाङ्गीकारे बीजाऽभावात् ॥ __श्रादेशश्चेह वैरूप्यसम्पादक एव गृह्यते । शसिदयोः प्रतिषेधवचनाजज्ञापकादिति-अयम्भावः [अतएकहल्मध्येऽनादेशादेलिटि] इत्यत्राऽनादेशघटकाऽऽदे. शपदेन विरूपत्वसम्पादकस्य ग्रहणम् । प्रमाणञ्चात्र शसिदद्योः प्रतिषेधवचनमेव, तथाहि, तत्रोदेशपदेनोक्तरूपाग्रहणे सरूपस्याऽऽप्यादेशस्य ग्रहणापत्त्या यस्याऽङ्गस्य लिनिमित्त आदेशो न भवतीत्युक्तसूत्रस्यार्थे शस्धातोर्ददधातोश्चापि लिनिमित्तस्याऽऽदेशस्य सत्त्वादेवाऽप्राप्त्या निषेधो व्यर्थः सन्नुक्तार्थ ज्ञापयतीति ॥ ननु उखधातोलिटि द्वित्वे हलादिः शेषे उत्तरखण्डाद्यवयवोकारस्य लघूपधगुणे उवङि (अतो गुणे) इतिपररूपे उरोखेतिरूपसिद्धिः, अत्र पररूपात्प्राक् (इजादेश्चे) त्याम् कुतो नेत्याशङ्कां समाधत्ते-सनिपातपरिभाषया इजादेरि त्याम्नेति-द्वयोः सम्बन्धस्सन्निपातस्तल्लक्षणजायमानो विधिः स्वातिरिक्तसम्बन्धविघातकशास्त्रे निमित्तं न भवतीत्यर्थः । तथाच प्रकृतिप्रत्यययोर्यः पूर्वापरीभावः सम्बन्धस्तल्लक्षणजायमानो लघूपधगुणविधिः स्वातिरिक्तलिट्परत्वसम्बन्धविघातके आमि न निमित्तम् , आनि सति लिट्परत्वव्याघातः स्प(१) शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।
यत्रैकाग्रहणं चैव पञ्चतीनि न यङ्लुकि ॥
Aho! Shrutgyanam