________________
भ्वादिप्रकरणम् ।
भाव इति विकल्परूपसिद्धौ विभाषाग्रहणं व्यर्थमिति चेन्न । असमस्तेष्वप्युपसर्गेषु संहि. ताया नित्यत्वज्ञापनेन चरितार्थत्वादित्याह-इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्येति ॥ तदुक्तम्
संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ननु (इजादेश्च गुरुमतोऽनृच्छः) इत्येतत्सूत्रविहिताऽऽम्घटकमकारस्य हल्त्वेनेत्संज्ञा स्यादत आह-श्रामो मकारस्य नेत्वमिति-- यद्यत्र मकारस्येत्संज्ञा स्यात्तदा आस्धातोः कास्धातोश्चाऽऽम् विधानं व्यथं स्यात्तत्रापीत्संज्ञा दुर्वारत्वादिति तत्सामर्थ्यादित्संज्ञा ऽभावकल्पनेन न प्रकृतेऽपि काप्यापत्तिः । नव मित्त्वादन्त्यादचः परत्वसामादसंजातविरोधिन्यायेन सवर्णदीर्घस्यैव बाधोऽस्त्विति वाच्यम् , सवर्णदीर्घबाधापेक्षया इत्संज्ञाबाध. स्यैव समुचितत्वात् ॥ __ ननु (कृञ्चानुप्रयुज्यत) इत्यतः लोऽनुवृत्यैव मिद्धे (आम्प्रत्ययवत्कृजोऽनुप्रयोगस्ये) त्यत्रत्यकृग्रहणं फलाभावाद्वयर्थ सज्ज्ञापयति भवत्यन्यस्याऽप्यनुप्रयोगः तेन (कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः) इत्यत्र कृशब्दमादाय कृञ्प्रत्याहाराश्रयणेन कृभ्वस्तीनामनुप्रयोगलाभः । तेषां कृभ्वस्तीनां क्रियासामान्यवाचकत्वेनाऽऽम्प्रकृतीनां क्रियाविशेषवा. चित्वेन तदर्थयोरभेदान्वयः । सामान्यविशेषयोर्घटो नीलघट इत्यादौ विधेयांशेऽधिकावगाहिशाब्दबोधस्य नवीनैरभ्युपगमात् । नचोक्तरीत्या कृभ्वस्तिलाभे सम्पदोपि प्रत्याहारान्तर्गतत्वेन लाभात्कुतो न प्रयोग इति वाच्यम् । तस्य तथात्वेऽप्यनन्वितार्थत्वेनाऽग्र. योगात् । तथाच, एधांचक्रे इत्यादित एककर्तृकभूतानद्यतनपरोक्षकालिकवृद्धयभिन्नक्रियेति शाब्दबोधः ॥ ननु अंगेन प्रत्ययाक्षेपः किमर्थ इत्यभिप्रेत्याशंकते-प्रत्यये किमिति-उत्तरयति-वनश्चेति-अयम्भावः। प्रत्ययग्रहणाऽभावे (उरदि)त्यस्य परनिमित्तकत्वाऽभावात्स्थानिवत्याऽभावेन(न सम्प्रसारणे सम्प्रसारणमि)तिनिषेधाऽप्रवृत्त्या सम्प्रसारणोपत्तिः, सति प्रत्ययग्रहणे तु नेति । उरदत्वस्य परनिमित्तत्वसिद्धयर्थत्वादेव भगवता भाष्यकृताऽऽसप्तमसमाप्तरङ्गाधिकार उक्तः । आसप्तमसमातेरङ्गाधिकारे भाष्यप्रामाण्यादङ्गसंज्ञायाः प्रत्ययनिमित्तत्वेन तदद्वारा (उरदि) त्यस्य परनिमित्तत्वमिति भावः । नचाङ्गसंज्ञाद्वारा निमित्तत्वमित्यस्याङ्ग. संज्ञाम्प्रति प्रत्ययस्य निमित्तत्वेनोरदत्वम्प्रति निमित्तत्वमित्यर्थो वाच्यः, सच न युक्तः, प्र. त्ययस्य साक्षान्निमित्तत्वानुपपादनादिति वाच्यम् । प्रत्यय इत्यस्थावृन्योक्तार्थस्य युक्त. त्वादिति । ___ एकाच उपदेशेऽनुदात्तात्-ननु एकाजनुदात्तयोस्सत्त्वादुपदेशपदं क्वाऽन्येतीत्या. शंकायामाह-उपदेश इत्युभयान्वयीति-मध्ये पाठात् (देहलीदीप) न्यायेन [काका. क्षिगोलक] न्यायेन वोभाभ्यां सम्बध्यत इत्यर्थः । नचानुदात्तपद एव सम्बन्धोऽस्तु एकाचि मास्त्वसाविति वाच्यम् । तथा सति पिपक्षति बिभत्सतीत्यादाविणनिषेधाऽनापत्तेः। नचेकाचि पद एव सम्बन्धोस्तु मास्त्वनुदात्तपदे तत्सम्बन्ध इति वाच्यम् । सत्येवं कतुं हर्तु
Aho! Shrutgyanam