Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
८८
फक्किकारत्नमञ्जूषा। सुटो ङित्त्वविधानं व्यर्धमित्याशंक्य समाधत्ते-ङित्वोक्तायते क्वचिदनुबन्धकार्येपीत्यादि-अयम्भावः, ङित्वविधानसामर्थ्यात् न ल्यपीतिज्ञापकज्ञापितस्य क्वचिदनुबन्धकार्यऽनल्विधाविति निषेधाप्रवृत्तिरूपस्य क्वाचिकत्वबोधनेन टित्वोगित्वयोरनतिदेशेन वक्ष्यमाणेत्यत्र (टिढ्ढाणजि)ति लीसिद्धिः । ननु (ङिच्च पिने)ति भाष्यादुक्तज्ञापनासम्भवात्तत्रत्यदोषस्तदवस्थ ऐवेत्यरुचेराह-श्नः शानचः शित्वमपीति-वक्ष्यमाणेत्यत्रस्फुटतयोपपादनादलमिहोपपादनेन ॥
ननु सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्यभियुक्तोक्त्या सुटो विशेषविहतत्वेन (१) येन नाप्राप्ति न्यायेन सुटरा यासुट्बाधः स्यादित्यत आह-सुटा यासुड्न बाध्यत इति । विषयभेदादिति-विषयभेदेन बाध्यबाधकभावाऽभावादत एव (असम्भव एवापवादत्वमिति वार्तिककृदुक्तिः सङ्गच्छते) । सत्यपि सम्भवे बाधनम्भवति यथादधिदानात्प्राक् तदुत्तरम्वा तक्रदानेन दधिदानबाधः, अत एव तिसृणामित्यत्राचिरादेशेन नुटो बाधः कुतो नेत्याशंक्य नतिसूचतस्रिति ज्ञापन न नुडिति समाहितम् , तथाच प्रकृते पूर्वप्रदर्शितदोषस्तदवस्थ एवेतिवाच्यम् । यासुट् परस्मैपदेष्वित्यत्र विषयसप्तम्या अङ्गीकारात्परस्मैपदविषयतायामेव लिङो यासुविधानेन तदानीं सुटोऽप्राप्त्या बाध्यबाधकभावाऽभावात् अत एव लिडोयासुट तकारथकारयोः सुडित्युक्तं दीक्षितेन । विषयभेदादित्यस्य प्राप्तिविषयभेदात्प्राप्तिक्षणभेदादित्यर्थः । वस्तुतस्तु (यासुविषये सीयुटः प्रतिषेधो वक्तव्य) इति वात्तिकेन प्रकृते बाध्यबाधकभावाऽभावकल्पनम् । योगपद्यासम्भवरूपविप्रतिषेधाऽभावान्न परत्वेन सुटा यासुट्बाध इत्याहुः केचित् ॥ __ननु (लिङः सलोपोऽनन्त्यस्ये) त्यनेन सार्वधातुकलिङ्सम्बन्धिनोऽन्त्यभिन्नसकारस्य लोपविधानात्सुटो लिङस्थानिकादेशावयवत्वेन विधीयमानत्वेन तल्लोपेऽपि यासुटः सकारस्याऽतथात्वाल्लोपो न स्यादिति चेन्न । अवयवाऽवयवस्यापि समुदायम्प्रत्यवयवत्वमित्याश्रयणात्सुटोऽपि लिङ्भक्तत्वेन तदीयसकारलोपोपपत्तेः । नच (लक्ष्ये लक्षणं सकृदेव प्रवर्तते) इति न्यायस्य जागरूकत्वाद्यासुट्सकारलोपो न स्यादिति वाच्यम् । लक्ष्यभेदेन तदुपपत्तेरित्याशयेनाह-सकारद्वयस्यापि निवृत्तिरिति ॥ ___ ननु 'अतो येय' इत्यत्रानुवृत्तसार्वधातुकग्रहणाभावे चिकीर्ष्यादित्यत्रार्द्धधातुकेऽपीया. पत्तिः । नच (अतो लोप) इत्यनेनाकारलोपेऽतःपरत्वाऽभावादेवेय् न स्यादिति वाच्यम् । (२)मध्येऽपवादन्यायन पूर्व विधेरतो लोप इत्यस्य बाधात्तत्रोक्तापत्तेर्दुर्वारत्वादित्याह-सार्वधातुके किम, चिकीर्ष्यादिति-अयम्भावः, चिकीर्ष्यादित्यत्रेयविधानेन चरितार्थस्यातो येय इत्यस्य (अतो दीर्घा यजि) इत्यनेन बाधाद्दीर्घस्यैव दुर्वारतया भवेदित्यत्रेय न स्यादित्यतिव्याप्तिदोषपरिहाराय सार्वधातुकग्रहणमावश्यकमिति भावः ॥
ननु णत्वविधायकशास्त्र संहिताधिकारात्संहिताविवक्षणे णत्वं तदविवक्षणे णत्वाऽ.
(१) येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति । इति न्यायस्वरूपम् । यत्कर्तृकावश्यप्राप्ती यस्य विधेरारम्भः स विधिस्तस्य ( अवश्यप्राप्तस्य ) बाधको भवतीत्यर्थः।
(२) मध्येऽपवादाः पुर्वान्विधीन्बाधन्ते नोत्तरानितिन्यायस्वरूपम् ।
Aho! Shrutgyanam

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280