Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 232
________________ ८६ फक्किकारत्नमञ्जूषा | चित्तन्न तथा सति करिष्यामीत्यत्रोदात्तस्य स्यशद्वस्याऽऽन्तरतम्यात्प्राप्तस्याऽप्युदात्तत्वस्य बाधापत्तेरित्यलम् ॥ परोक्षे लिट् । परोक्षत्वञ्च साक्षात्कृत मित्येतादृशविषयताशा लिज्ञानाविषयत्वम् । यद्विषयताशालिज्ञानानन्तरं साक्षात्कृतमित्याकारिका ज्ञाननिष्ठविषयताशालिनी विलक्षणा प्रतीतिर्भवति तादृशविषयतानिरूपकं यद् ज्ञानं तदविषयत्वमित्यर्थः । तच्च ज्ञानमिन्द्रि यत्वावच्छिन्नकरणताकं ज्ञानम् । तच्च सन्निकृष्टविषयकमेवेति सन्निकर्षाप्रयोज्यत्वं लब्धमिति परोक्षत्वं स्फुटमेवेति । ननु (क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूता न शक्या पिण्डीभूता निदर्शयितुमि ) ति भाष्यात्क्रियाया अतीन्द्रियत्वेन न परोक्षे इति व्यावर्तकमिति चेन्न । पिण्डीभूता (समुदायभूता) यास्तस्या निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्कृतमितिप्रतीतिविषयत्वसम्भवात् । अन्यथा पश्य मृगो धावतीत्यत्र धावनक्रियाया दर्शनकर्मता न स्यादिति । व्यापारा ऽऽविष्टानामपि साधनानामेवेह परोक्षत्वस्य विवक्षणान्नोक्तदोषः । अयं पपाचेत्यानुरोधेन व्यापारानाविष्टानामित्यपि वदन्ति केचित् । स्वक्रियायाः स्वप्रत्यक्षत्वात् (१) व्यातेने किरणावलीमुदयनः । (२) चक्रे सुबन्धुः इत्यादयः प्रयोगा असंगता एव । व्यासङ्गादिना स्वक्रियायाः प्रत्यक्षत्वोपपादनेऽप्यनद्यतनातीतत्वयोरभावेन तदर्थस्य लिटोsप्यसम्भवादिति दिक् ॥ नित्यत्वादुवुक गुणवृद्धी बाधत इति । गुणे वृद्धौ वा ( अचः परस्मिन्नि) ति स्थानिवद्भावाद्भूशब्दत्वेन बुकः प्रवृत्या कृताकृतप्रसंगित्वेन नित्यत्वमिति भावः । ननु [शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः ] इति परिभाषया वुग्विधायकस्यानित्यत्वसुचनान्नित्यत्वाद्वुगितिकथनं न सङ्गतिमाप्नोतीति चेन्न । लक्ष्यानुरोधेनाऽत्रोक्तपरिभाषाया अप्रवृत्तेः । नच गुणवृद्धयोः कृतयोरपि [द्विर्वचनेऽचि ] इत्यनेन स्थानिरूपातिदेशादूवुकः प्रवृत्तौ - बाधकाऽभावान्मूलोक्तमसमञ्जसमिति वाच्यम् । प्रक्षालनाद्धि पङ्कस्येति न्यायेन | स्थानिरूपातिदेशपक्षानभ्युपगमेन द्वितीयार्थे बुकः प्राग्गुणवृद्धयोरप्राप्त्या मूलोक्तस्य सामञ्जस्यात् ॥ भवतेरः । प्रयोगे दृष्टानाम्भुवामनुकरणाद्भूशब्दात् [ इश्तिपौ धातुनिर्देशे] इति शितपि रूपसिद्धिः । ननु शपः कर्त्र विधानेन श्तिपोऽकर्थत्पात्तदप्राप्त्या रूपन्नोपपद्येतेति चेन्न । (उपसर्गात्स्रुनोती) त्यादिनिद्देशात् (लोपः पिबतेरिच्चे ) ति निर्देशाच्च स्तिप्प्रत्ययस्य कर्त्रर्थत्वाऽभावेऽपि विकरण प्रवृत्तेः सुलभत्वात् । श्तिपः कर्तृवाचकत्वाऽभावेऽपि भावक ( १ ) वैशेषिकदर्शनस्य किरणावलीव्याख्यायामुदयनाचार्यस्यायं श्लोक :अर्थानां प्रविवेचनाय जगतामन्तस्तमः शान्तये सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः । तत्तत्तामसभूतभीतय इमां विद्यावतां प्रतिये व्यातेने किरणावलीमुदयनः सतर्कतेजोमयीम् ॥ ( २ ) सुबन्धुकविकृतवासवदत्तानामगद्यकाव्ये कवेरिदं पद्यम्सरस्वतीदत्तवरप्रसादश्चके सुबन्धुः सुजनैकबन्धुः । प्रत्यक्षर श्लेषमयप्रबन्धविन्यास वैदग्ध्यनिधिर्निबन्धम् ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280