Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 230
________________ ८४ फक्किकारत्नमञ्जूषा। लः कर्मणि च भावे--ननु लाघवात् लकाराणां कृतावेव (१)शक्तिरभ्युपेया न तु कर्तरि तत्र तदभ्युपगमे गौरवस्य प्रतिभासमानत्वात् प्रथमान्तपदेनैव कर्तुर्लाभाच्च । प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्यादाख्यातार्थे धात्वर्थस्य विशेषणत्वम् । आख्यातार्थे च प्रथमान्तार्थस्य विशेषणत्वम् । अनुकूलत्वमाश्रयत्वच्च सम्बन्धः । तथा च चैत्रः पचतीत्यादौ विक्लित्यनुकूलव्यापाराऽनुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छती. त्यादौ रथस्याचेतनत्वेन यत्नशून्यत्वादाख्यातस्य व्यापारे आश्रये वा (२)लक्षणेत्याहुस्तार्किकाः । तत्तुच्छम् । युष्मदस्मदोलकारेण सति सामानाधिकरण्ये एव पुरुषव्यवस्थोपपत्त्या लकाराणां कृतौ शक्त्यभ्युपगमे कृत्याश्रयस्य कर्तृत्वेन लकारेण युष्मदस्मदोरसामानाधिक रण्येन तदनुपपत्तेः । लस्थानिकादेशभूततिबादिभ्यः कृतिमात्रबोधवत्तत्स्थानिकादेशभूततृशानजादीनामपि लादेशाऽविशेषेण तेभ्यः कृतिमात्रबोधापत्तेश्च । नचाऽऽश्रयाश्रयिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयात्तेभ्यः कृतिमानबोध इष्ट एवेति वाच्यम् । (३)(नामार्थयोरभेदातिरिक्तः सम्बन्धोऽव्युत्पन्न:)इति व्युत्पत्तेर्जागरूकत्वेनाऽऽश्रयाऽऽश्रयिभावेनान्वयाऽनुपपत्तेः । नच (फलमुखगौरवं न दोषोत्पादकमि)ति न्यायसद्भावाच्छत्रादीनां कर्तरि शक्तिस्तिबादीनां कृतावेव सेति वाच्यम् । लाघवात्स्थानिन एव वाचकत्वं नत्वादेशानां तेषां बहत्वेन गौरवमिति तव पक्षः । तथा च तिबादीनां शत्रादीनां च स्थानिस्मारकत्वेन लिपिस्थानीयत्वं बोधकत्वं तु लकारस्यैव तस्य च लकारस्य शत्राद्यन्ते कर्तरि शक्तत्वेन ति. बादीनां कृतिमात्रबोकत्वाऽनुपपत्तेः । नच लकाराणामनेकार्थत्वेन न काचिदनुपपत्तिरिति वाच्यम् । (अन्यायश्चानेकार्थत्वमि)ति न्यायस्य जागरूकत्वात् ।। न च (लः कर्मणि)इति सूने कर्तृकर्मपदयोर्भावप्रधानत्वेन कर्तृत्वं कृतिः कर्मत्वं फलं तयोः शक्तौ सूत्रस्वारस्यम् । कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेनेत्यादौ देवदत्तनिष्ठकृतिजन्य. व्यापारजन्यविक्लित्तिमानोदन इति बोधः । 'कर्तरि कृदि' तिसूत्रे कर्तरीतिपदस्य धर्मिप्रधानतया शत्रादीनां कृत्याश्रये शक्तिरिति वाच्यम् । कर्तरि कृदिति सूत्रस्थकर्तृग्रहणस्यैव लः कर्मणीत्यत्र चकारेणाऽनुवृत्तत्वाद् भावप्रधानेऽस्वारस्यात् । (स्थान्यर्थाभिधानसमर्थस्यैबादेशत्वमिति न्यायेन शत्रादीनां स्थान्यर्थेन निराकांक्षत्वेनाऽऽकांक्षितविधानस्यैव ज्या ( १ ) शक्तिरिति । ननु कस्तावच्छक्तिपदाथ इति जिज्ञासायामुच्यते--वैयाकरणनये वाच्यवाचकभावात्मकसम्बन्ध एव शक्तिपदार्थः । उक्तं च नागेशेन मञ्जूषायाम्-तस्मात्प. दपदार्थयोः सम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावाऽपरपर्यायेति । सम्बन्धान्तरमित्यस्य वाच्यवाचकभावरूपसम्बन्ध इत्यर्थः । गदाधरमते तु अर्थनिरूपितपदनिष्ठसंकेतलक्षणोभया. मकवृत्तिरेव शक्तिपदार्थः। (२) लक्षणेति । तार्किकमते-स्वशक्यसम्बन्धरूपो लक्षणापदार्थः । वैयाकरणनये अप्रसिद्धायाः शक्तेरेवाभ्युपगमात् लक्षणा नास्त्येव तदुक्त नागेशेन मञ्जूषायाम्-शक्तिर्द्विवि घा प्रसिद्धाऽप्रसिद्धा चेति । (३) नामार्थद्वयस्याऽभेदसम्बन्धेनैवान्वयो भवति न तु तदतिरिक्तसम्बन्धेन यथा नीलो घट इत्यादौ नलिघटयोः । नलिाऽभिन्नो घट इति बोधः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280