Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 229
________________ भ्वादिप्रकरणम् । स्मृतिसिद्धत्वेऽपि वियदादिवद्व्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वेन न विरोधः । विजयते तरामिति-वीतिपृथक् पदम् । [तिङश्चेति तरप्याम् , ननु विजयते इत्यस्याऽतिङन्तत्वेनाऽप्रातिपदिकत्वेन च तरपन स्यात् नच [सह सुपे]त्यत्र सहेति योगविभागेन विशब्दस्य तिङन्तेन समासे प्रातिपदिकत्वस्य सुलभत्वेन तरपोऽपि सौलम्यमेवेतिवाच्यम् । तिङन्तोत्तरपदसमासस्यापि छन्दस्येव विधानाद् , किञ्च विजयत इत्यस्य प्रातिपदिकत्वाङ्गीकारे सोरुत्पत्तिः, लिंगसर्वनामताऽभ्युपगमे नपुंसकत्वात्सोलुक्यपि [हस्वो नपुंसके] इति हस्वापत्तः । नच जयत इत्यस्य तिङन्तत्वेऽपि तस्य विपदसापेक्षत्वेनाऽसामर्थ्यात्समासाsप्राप्त्या कथं तरबिति वाच्यम् । उपसर्गाणां (१)द्योतकत्वेनोक्तशंकानुदयेन तदुपपत्तेः । नियमेन स्वार्थसाकांक्षेतरार्थवाचकशब्दभिन्नार्थवाचकशब्दस्यापेक्षा हि सामर्थ्याऽभावप्रयोजिका सेह नास्ति उपसर्गाणां घोतकत्वात् । तरबन्तार्थं प्रति तिङन्तार्थस्य प्राधान्येन (प्रधान)न्यायेन प्रधानस्य सापेक्षत्वेऽपि वृत्तिर्भवत्येवेति भावः। (२)पूर्वाद्ध इति-ननु पूर्वाद्धेऽपि तृतीयाऽध्यायस्य क्विनः [स्पृशोऽनुदके क्विन् ] इत्यनेन व्युत्पादनात्तुर्य्यपञ्चमाध्यायवर्तिन इत्येतावन्मात्रप्रतिपादनमसंगतमिव प्रतिभातीति चेन्न । यन्त्र ते प्राधान्येन कथिता इति तदभिप्रायेण प्रसंगात्तृतीयाध्यायस्थप्रत्ययकथनेनाऽप्यक्षतेः । ननु उणादिप्र. त्ययानां तृतीयाध्यायगोचरत्वाऽभावेन तृतीयाध्यायगोचराः प्रत्ययाः कथ्यन्ते इति ग्रन्थकर्तः प्रतिज्ञा नानन्दोत्पादिनीति चेन्न । [उणादयो बहुलमि]ति सूत्रस्य बाधितत्वेन तेषा. मपि तृतीयाध्यायगोचरत्वाक्षतेरिति संक्षेपः ॥ वर्तमाने लट्--ननु वर्तमानत्वस्य शब्दप्रयोगाधिकरणक्षणवृत्तित्वरूपत्वेन क्रियायाश्च पूर्वापरीभूताऽवयवसमुदायरूपत्वेनावयवानाञ्चाशुविनाशित्वात्तादृशसमुदायस्य निरुक्तवर्त्तमानत्वस्य स्थिरसम्बन्धिनोऽनुपपन्नाद्वर्तमानक्रियावृत्तेर्धातोरित्यर्थः सर्वथाऽसम्भवीति चेन्न । वर्तमानकालक्रियावृत्तेर्धातोरित्यर्थे तात्पर्यात् । नव प्रारब्धापरिसमाप्तत्वघटितस्यैव कालगतस्यापि वर्तमानत्वस्य विवक्षायामपि पूर्वोक्तानुपपत्तेस्तादवस्थ्यमेवेति वाच्यम् । बौद्धपूर्वापरीभूताऽवयवकसमुदायाधिकरणस्य जन्यकालस्य सम्भवात् । वर्तमाने लडित्या. दिसूत्रविहितलकाराणां वाचकत्वद्योतकत्वयोर्बहुविवादाध्यसितत्वम् । तत्र तेषाम्बहुत्वेन तत्र शक्तौ गौरवात्प्रकृतावेव शक्तिकल्पना ज्यायसी, ते च द्योतका एवेति तत्वम् । वर्तमानकालत्वञ्च प्रयोगोचारणाधिकरणत्वे सति प्रारब्धाऽऽपरिसमाप्तक्रियोपलक्षितत्वम् । ह्यस्तनीम्प्रारब्धाऽऽपरिसमाप्तिक्रियामादायाऽतिव्याप्तिव्यावृत्यर्थमुक्तविशेषणम् , भूतभविव्यदृभिन्नत्वं वा तत्त्वम् ॥ (१) द्योतकत्वेनेति । द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठवृत्त्युबोधकत्वम् । समन्वयो यथा, अनुभूयते सुखं साक्षात्क्रियते गुरुरित्यादौ स्वम् अनु साक्षादिति च तत्समभिव्याहृतपदं भूकृपदं तनिष्ठवृत्तेरुद्बोधकत्वं द्योतकत्वमनुसाक्षादित्यनयोरस्तीति तयोस्त. त्वम् । एवं प्रकृते विजयते इत्यत्रापि वीत्युपसर्गस्य द्योतकत्वं बोध्यमिति भावः। (२) पूर्वार्द्ध कथितास्तुर्यपञ्चमाध्यायवर्तिनः।। प्रत्यया अथ कथ्यन्ते तृतीयाऽध्यायगोचराः ॥ इति श्लोकाकारः । चतुर्थपञ्चमाध्यायस्थप्रत्ययाभिधानोत्तरतृतीयाध्यायस्थप्रत्ययाभिधानं करोमीत्यर्थः। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280