Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
स्वादिप्रकरणम् ।
यस्त्वमिति न्यायेन कर्तरि कृदित्यनेन शक्तिग्रहाऽभावात् । नच नामार्थयोरभेदान्वयाऽनुरोधेन शतृशानजादीनां कर्तरि शक्तौ न कोऽप्युक्तदोष इति वाच्यम् । पचति कल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुर्वाच्यत्वस्यैव समुचितत्वात् । किञ्च कृतेर्लकारवाच्यत्वे रथो गच्छतीत्यादावाऽऽश्रये लक्षणाऽभ्युपगतौ गोवापत्तिः । सिद्धान्ते कर्तरि प्रत्यये कर्त्तुरभिहितत्वं कर्मणि प्रत्यये तु तस्यैव तत्त्वम् । इदानीं कृतौ प्रत्यये तस्या एव - ऽभिहितत्वेन कर्त्तुरनभिहितत्वादभिहितत्वाऽनभिहितत्वव्यवस्थोच्छेदापत्तिश्च । नच, अनभिहितसंख्याके विभक्तिरिति (अनभिहिते) इत्यर्थकरणेन न दोष इति वाच्यम् । कृत्तद्धितसमासैः संख्याऽभिधानस्याऽप्रसिद्धत्वात् । किञ्च (स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति (कारके) इत्यधिकारसूत्रस्थभाप्यप्रयोगाद्व्यापारसामान्यस्य यत्नस्यापि धातोरेव लाभात् अनन्यलभ्यस्यैव शब्दार्थत्वेन कृतौ शक्तस्सर्वथाऽसम्भवादित्यलम् ॥
भू सत्तायाम् । धातुसूत्रमिदम् । सत्तायामर्थे भूशब्दः साधुरिति तदर्थः । ननु बहूनां सत्त्वात्तान्विहाय भूधातोरेव प्रथमोपादाने को हेतुरिति चेन्न । (१) (अशोकवाटिका) न्यायेन तस्यादावुपादानात् । वस्तुतस्तु भूशब्दस्य महाव्याहृतिरूपत्वेनाsनायासमङ्गलार्थमादौ तदुपादानमिति बोध्यम् ॥
८५.
श्रतो दीर्घो यत्र । (तुरुस्तुशम्यमः सार्वधातुके) इत्यतोऽनुवृत्तस्य सार्वधातुकस्याऽभात्रे केशवः, अङनेत्यादौ दीर्घापत्तिः । केशशब्दात (केशाद्वोऽन्यतरस्यामि ) ति वप्रत्ययः । अङ्शब्दात्पामादित्वान्नः । नच (शृवृन्दाभ्यामारकन् ) (हृदयाच्चालुरन्यतरस्यामि) त्युभयत्राडकारोच्चारणसामर्थ्यात्तद्विते दीर्घाऽप्रवृत्तिज्ञापनान्न दोष इति वाच्यम् । उक्तरीत्योक्तकल्पनापेक्षया क्लृप्तसार्वधातुकसम्बन्धस्यैव ज्यायस्त्वमेवेति ज्ञापने तयोर्ज्ञापकत्वमिति तदाशयात् । नच सुपि चेति सूत्रस्य सार्वधातुकसम्बन्धाऽभावेऽधातुप्रत्यये यदि दीर्घस्तर्हि सुप्येवेति नियमार्थत्वेनोक्तस्थलीयापत्त्यभावेन तदनुवृत्तिर्निष्फलैवेति वाच्यम् । सुपि चेत्यस्याऽभावे यज्वभ्यां युवभ्यामित्यादावतो दीर्घो यजीतिदीर्घापत्तेर्दुर्वारत्वात्तन्निवृत्यर्थन्तस्यावश्यकत्वेन नियमत्वायोगादुक्तस्थले दोपस्य तादवस्थ्यात् । नच ( नलोपः Bafa) सूत्रेण दीर्घे नलोपाऽसिद्ध्या न दोष इति वाच्यम् । यजादित्वमात्रस्य निमित्त - तावच्छेदकत्वेन तस्य सुप्त्वव्याप्यत्वाऽभावात्सृप्त्वतद्व्याप्यधर्मावच्छिन्ननिमित्तकार्याऽप्रात्या नलोपः सुबिति सूत्राऽप्रवृत्तेरितिसंक्षेपः ॥
I
ननु अत आदित्येव सिद्धे दीर्घग्रहणं व्यर्थमिति चेन्न । दीर्घ एव यथा स्यादित्येव नियमार्थत्वेन तस्य सार्धक्यात् । अत एव पचामीत्यादौ [ अनन्त्यस्यापि प्रश्नाख्यानयोरि]ति प्लुतो नेति । नचाऽनन्त्यस्य पदस्य टेरिति तत्सूत्रार्थे कथन्तत्र तत्प्राप्तिरिति वाच्यम् । दीर्घग्रहणसामर्थ्यादनन्त्यविषय एव तत्सम्बन्धेन वाक्ययोः क्लप्ससम्बन्धत्यागे बीजाभावात् । तेन वाक्यस्थानन्त्यस्य पदस्याचः प्लुतः स्यादनन्त्यपदस्य च टेरिति तदर्थः । यत्तु आदिति कृतेऽपि तपरकरणसामर्थ्यात्प्लुताऽभावस्य सिद्धत्वेन व्यर्थमेव दीर्घग्रहणमिति के -
( १ ) अशोकरोपणवाटिकानिर्माणयोर्मध्ये लाघवादशोकनिर्माणमेव प्राक् युक्तमिति तदभिप्रायः ।
८ फ० म०
Aho! Shrutgyanam

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280