Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 240
________________ ९४ फक्किकारत्नमञ्जूषा। [(१) लुग्विकरणालुग्विकरणयो रलुग्विकरणस्य (२) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषाभ्यामिति-(स्वरतिसुति) इत्यत्र सूङिति पठितेनापि रूपद्वयोपपत्तौ सूतिसूयत्योः पृथगग्रहणे व्यर्थ सत्पूर्वपरिभाषां ज्ञापयति । द्वितीया तु न्यायसिद्धा । यद्यप्युक्तपरिभाषाद्वयस्य परस्परविरोधादिहाप्रवृत्तावपोष्टसिद्धि. स्तथापीहोभयोरविशेषात्प्रवृत्तिरपि युक्तैवेति भावः ॥ __ननु निशामनशब्दस्य शम आलोचन इत्यस्मानिष्पन्नत्वेन विचारार्थकत्वाद्दर्शनार्थकत्वं न स्यादित्यत आह-निशानं चाक्षुषज्ञानमिति माधव हात-(अन्यमते ज्ञापनञ्च तदर्थः । ननूक्तशब्दस्यैतदर्थकत्वाभ्युपगन्तणाम्मते (श्लाघन्हुङ स्था) इत्यत्र जीप्स्य. मानो बोधयितुमभिप्रेत हात वृत्तिग्रन्थे सङ्गत्तेऽपि मारणादिकञ्च तस्यार्थः । एवञ्च माधव मतेऽप्युक्तग्रन्थस्य सङ्गतिः । ननु ज्ञाधातोपधातोश्च णौ मित्वाध्रस्वेन भाव्यमित्याशंकतेकथं विज्ञापना भर्तृष्विति-समाधत्ते-माधवमते चाक्षुषज्ञाने मित्वाऽभावदिति । एवञ्च ज्ञाधातोर्बोधनेऽर्थे ज्ञापयति, ज्ञपेस्तु ज्ञपयतीति माधवमते रूपद्वयं बोध्यम् ॥ ननु अनुपसर्गस्यैव ज्वलादेवैकल्पिकमित्वं सोपसर्गस्य तु नित्यमेव एवञ्च प्रज्वालयतीत्यनुपपन्नमित्याह-कथं तर्हि प्रज्वालयति उन्नामयतीति । उत्तरयति-घञन्तात्तत्करोतीति णाविति । ननु (नोदात्तोपदेश) इति प्रतिषेधात्क्रमेधजि क्रम इत्येवं नतु काम इति तथा च संक्रामयतीत्यनुपपन्नमित्याह-कथं संक्रामयतीति-समाधानमाह-'मितां हस्वाइतिसूत्रे'वाचित्तविराग इत्यतो वेत्यनुवयं व्यवस्थितविभाषाश्रयणादितिवृत्तिकृदिति । एवञ्च क्वचित णौ मितां ह्रस्व इत्यस्य न प्रवृत्तिरिति भावः । एतेन इति जित्वा दिशो जिष्णुर्व्यवर्तत रथोद्धतम् । रजोविश्रामयन राज्ञां धुर्यान् विश्रमयेति सः ॥ ___ इति व्याख्यातम् । धजन्तात्क्रमशब्दात्प्रज्ञाद्यणि कामशब्दं स्वीकृत्य ततस्तत्करोतीति णावुक्तप्रयोगसिद्धिरिति केचित । ननु (न कम्यमिचमामि) त्यनेन दर्शनार्थे शाम्यतेर्मित्वाभावविधानेन दर्शनातिरिक्ताथे मित्वाद्वक्ष्यमाणप्रयोगानुपपत्तिरित्याह-कथं तर्हि(३) निशामय तदुत्पत्तिमिति--चौरादिकस्य शम आलोचने इत्यस्योक्तरूपम् । नचैवं रीत्योक्तप्रयोगनिष्पत्तावपि (१) स्वरातिसूतीतिसूत्रे सूङिति वक्तव्ये सूतिसूयत्योः पृथनिर्देशो हि परिभाषायां केयटमते ज्ञापकः । अस्याः कार्य साहचर्यपरिभाषया सम्पाद्य भाष्ये नेयं पठिता। (२) लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकं लाक्षणिकम् । तत्तद्विभाक्तविशेषाद्यनुवादेन विहितः शीघ्रोपस्थितिकः प्रतिपदोक्तस्तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणम् । विलम्बोपस्थितिकत्वशीघ्रोपस्थितिकत्वयोरेव परिभाषायां बीजत्वम् । भुवश्च महाव्याहृतरित्यत्र महाव्याहृतिग्रहणादनित्या चेयम् । (३) सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तरात्गदतो मम ॥ अयं दुर्गासप्तशत्याः प्रथमश्लोकः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280