Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 228
________________ श्रीदुर्गामाधवगणेशाः । फकिकारत्नमञ्जूषा। उत्तरार्द्धम् । भव्यप्रदा निखिलभक्तजनस्य नित्यम् देवासुरप्रभृतिसेवितपादपद्मा । संग्रामशत्रुहतिपूरितदेवकृत्या दुर्गाम्बिकाऽशु विपुलं कुशलं विधत्ताम् ॥ १ ॥ अथ तिङन्ते भ्वादिप्रकरणम् । ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मंगलमाचरणीयमितिशिष्टोक्त्या ग्रन्थमध्येऽपि मंगलकरणस्यावश्यकत्वाद् ग्रन्थमध्ये कृतस्य मंगलस्य शिष्यजनानामानुषङ्गिकमंगलार्थमुपनिबन्धः-(१)श्रौत्रार्हन्तीति-श्रोत्रियस्य भाव इत्यर्थे श्रोत्रियशब्दात् (हायनान्तयुवा. दिभ्योऽणि)ति सूत्रे (श्रोत्रियस्य यलोपश्चे)ति वात्तिकेन अणि यकारस्य लोपे, (यस्येति चे) त्यनेनेकारलोपे श्रौत्रमिति सिद्धयति । श्रोत्रियत्वमिति तदर्थः । अर्हतो भाव इत्यथें (गुणवचनब्राह्मणादिभ्यः कर्मणिचे)ति सूत्रे अर्हतो नुम्चेत्युक्त्या व्यजि नुमि च पित्वान्डीषि (हलस्तद्धितस्ये)ति यलोपे आहेन्तीति सिद्धयति । योग्यतेति तदर्थः । श्रौत्रं च आर्हन्ती च श्रौत्रार्हन्ती ताभ्यां वित्तः श्रौत्रार्हन्तीचणैः। (तेन वित्त) इत्यनेन चणपि सिद्धिः । श्रोत्रियत्वयोग्यत्वाभ्यां प्रसिद्धैरित्यर्थः । किञ्च गुण्यैः प्रशस्तगुणयुक्तरित्यर्थः । [रूपादाहृतप्रशंसयोर्यबि]ति सूत्रेऽन्येभ्योऽपि दृश्यते इत्युक्त्या गुण्या ब्राह्मणा इत्यस्य भा. ज्यादावुदाहरणत्वेन तत्सिद्धिः । महान्तश्च ते ऋषयः महर्षयस्तैस्तथोक्तः । अहर्दिवमिति-प्रत्यहमित्यर्थः । [अचतुरविचतुर] इत्यादिना निपातनात्सिद्धिः । तोष्ट्रय्यमान इति-स्तोतेर्यङन्ताच्छानचि रूपम् । अगुणोऽपीत्यत्रापिशब्देनाऽऽ. पाततो(२)विरोधं द्योतयति । वस्तुतस्तु स्तुतिप्रयोजकीभूतानन्तकल्याणगुणानां श्रुति(१) श्रौत्रान्तिीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्ट्रय्यमानोऽप्यगुणो विभुर्विजयते तराम् ॥ १ ॥ इति श्लोकस्वरूपम् । यं गुणहीनं सगुणं च विभुं वेदाध्ययनकर्तृत्व-योग्यताविशिष्टाः सत्वादिगुणशालयश्च महर्षयः प्रतिक्षणमतिशयेन स्तुवन्ति स विभु ापकः परमेश्वरः सर्वोत्कृष्टत्वेन वर्तत इति तदर्थः। (२) एकस्मिन्नगुणत्वसगुणत्वयोः स्थित्यसम्भवेन स्तुतिविषयस्याऽगुणस्य विभोरपि शब्दबलात्सगुणात्वाऽऽपादनाद्विरोधः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280