________________
श्रीदुर्गामाधवगणेशाः ।
फकिकारत्नमञ्जूषा।
उत्तरार्द्धम् ।
भव्यप्रदा निखिलभक्तजनस्य नित्यम् देवासुरप्रभृतिसेवितपादपद्मा । संग्रामशत्रुहतिपूरितदेवकृत्या दुर्गाम्बिकाऽशु विपुलं कुशलं विधत्ताम् ॥ १ ॥
अथ तिङन्ते भ्वादिप्रकरणम् । ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मंगलमाचरणीयमितिशिष्टोक्त्या ग्रन्थमध्येऽपि मंगलकरणस्यावश्यकत्वाद् ग्रन्थमध्ये कृतस्य मंगलस्य शिष्यजनानामानुषङ्गिकमंगलार्थमुपनिबन्धः-(१)श्रौत्रार्हन्तीति-श्रोत्रियस्य भाव इत्यर्थे श्रोत्रियशब्दात् (हायनान्तयुवा. दिभ्योऽणि)ति सूत्रे (श्रोत्रियस्य यलोपश्चे)ति वात्तिकेन अणि यकारस्य लोपे, (यस्येति चे) त्यनेनेकारलोपे श्रौत्रमिति सिद्धयति । श्रोत्रियत्वमिति तदर्थः । अर्हतो भाव इत्यथें (गुणवचनब्राह्मणादिभ्यः कर्मणिचे)ति सूत्रे अर्हतो नुम्चेत्युक्त्या व्यजि नुमि च पित्वान्डीषि (हलस्तद्धितस्ये)ति यलोपे आहेन्तीति सिद्धयति । योग्यतेति तदर्थः । श्रौत्रं च आर्हन्ती च श्रौत्रार्हन्ती ताभ्यां वित्तः श्रौत्रार्हन्तीचणैः। (तेन वित्त) इत्यनेन चणपि सिद्धिः । श्रोत्रियत्वयोग्यत्वाभ्यां प्रसिद्धैरित्यर्थः । किञ्च गुण्यैः प्रशस्तगुणयुक्तरित्यर्थः । [रूपादाहृतप्रशंसयोर्यबि]ति सूत्रेऽन्येभ्योऽपि दृश्यते इत्युक्त्या गुण्या ब्राह्मणा इत्यस्य भा. ज्यादावुदाहरणत्वेन तत्सिद्धिः । महान्तश्च ते ऋषयः महर्षयस्तैस्तथोक्तः ।
अहर्दिवमिति-प्रत्यहमित्यर्थः । [अचतुरविचतुर] इत्यादिना निपातनात्सिद्धिः ।
तोष्ट्रय्यमान इति-स्तोतेर्यङन्ताच्छानचि रूपम् । अगुणोऽपीत्यत्रापिशब्देनाऽऽ. पाततो(२)विरोधं द्योतयति । वस्तुतस्तु स्तुतिप्रयोजकीभूतानन्तकल्याणगुणानां श्रुति(१) श्रौत्रान्तिीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् ।
तोष्ट्रय्यमानोऽप्यगुणो विभुर्विजयते तराम् ॥ १ ॥ इति श्लोकस्वरूपम् । यं गुणहीनं सगुणं च विभुं वेदाध्ययनकर्तृत्व-योग्यताविशिष्टाः सत्वादिगुणशालयश्च महर्षयः प्रतिक्षणमतिशयेन स्तुवन्ति स विभु ापकः परमेश्वरः सर्वोत्कृष्टत्वेन वर्तत इति तदर्थः।
(२) एकस्मिन्नगुणत्वसगुणत्वयोः स्थित्यसम्भवेन स्तुतिविषयस्याऽगुणस्य विभोरपि शब्दबलात्सगुणात्वाऽऽपादनाद्विरोधः ।
Aho! Shrutgyanam