________________
चातुरर्थिकप्रकरणम् । ननु सूत्रेऽपूर्ववचन इत्यस्य भावप्रधाननिर्देशत्वादित्याह-अपूर्वत्वे निपातनमिति । स्त्रिया एवापूर्वत्वमिष्यते न पुरुषस्य, पुरुषस्तु अपूर्वभार्यो भवतु मा वेति नाग्रहः ॥
- इसुसुक्तान्तात्कः। ननु इसुसुक्तात्क इत्येव सूत्रकरणेऽप्यधिकृताङ्गविशेषणत्वादेव तदन्तविधिना तान्तादित्यर्थलाभः स्यादेवेत्यन्तग्रहणं व्यर्थं सज्ज्ञापयति प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो यथा स्यादिति । ज्ञापनफलं तु माथितिक इत्यत्र ठस्न्येकादेशे यस्येति लोपे च तान्तत्वेऽपि कादेशाऽभावरूपम् । स्पष्टञ्चेदं ठस्येक इति सूत्रे कैयटे । केचित्तु इकस्थाने कादेशस्य सन्निपातपरिभाषयैव वारणसम्भवादन्तग्रहणं हेयमेवेत्याहुः ॥ ___ननु इसुसुगिति सूत्रे सामान्यत इससोर्ग्रहणे आशिष्घटकस्येसोऽपि ग्रहणात्ततः परस्यापि ठस्य कादेशापत्त्या आशिषिक इति प्रयोगो न सिद्धयेदत आह-इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेहेति । (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमि)ति परिभाषया प्रतिपदोक्तयोरेवेससोर्ग्रहणादाशिष्घटकस्येसोऽतथात्वान्नोक्तदोषावकाश इति भावः ।
मतोश्च बह्वजङ्गात्-ननु मतोर्बह्वच इत्येव सूत्रकरणेऽपि वैयधिकरण्यसम्बन्धेन बह्वचो विहितो यो मतुप् तदन्तादजित्यर्थेनैवेष्टसिद्धाविहानग्रहणं व्यर्थमित्याशङ्का समाधत्तेअङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्थान्मत्वन्तविशेषणं माभूदिति । सम्भवति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमित्यभियुक्तोक्क्या सत्यङ्गग्रहणे वह्नजित्यंगवि. शेषणमेव नतु मत्वन्तविशेषणम् । असत्यंगग्रहणे तु मत्वन्तविशेषणमेव स्यादेवञ्च आहि. मतमित्यादावजो दुर्वारत्वं स्यादिति भावः ।
ननु ठूलोपसूत्राल्लोपपदानुवर्तनाल्लोपसिद्धाविह लुग्ग्रहणं व्यर्थमिति शङ्का निराकरोति लुग्ग्रहणं सर्वलोपार्थमिति ।
इति चातुर्थिकप्रकरणम् ।
इति मैथिलवंशोद्भवस्य ठक्कुरोपनामकश्रीकनकलालशर्मणः कृतौ ___ फक्किकारत्नमञ्जूषायां तद्धितप्रकरणं सम्पूर्णम् ॥
C an2-----
Aho ! Shrutgyanam