________________
फक्किकार मञ्जूषा |
वृत्तये, द्वितीये स्वव्यूनसंख्येम्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । सूत्रमेतत्तथोत्तरमितिस्पष्टमित्यलम् ।
नियमार्थमिदं सूत्रमिति - अयम्भावः, अनन्तराऽपत्ये मुख्यः सम्बन्धेऽप्रवृत्या प्रथमपक्षे तत्तत्पितृवाचकादेव प्रत्ययस्स्यान्न तु मूलभूतात्, तथा च, औपगवाऽपत्येनोपगोर्मुख्यसम्बन्धाऽसद्भावादिहाऽप्राप्त्या तदर्थ सूत्रस्याssवश्यकत्वेन विध्यर्थत्वान्निमार्थत्वाऽभावेनौपगवशब्दात्प्रत्ययो दुर्वार इति चेन्न । गोत्रे बोध्ये क्रमतोऽनेकप्रत्ययो दुर्वार एवाऽपत्यप्रत्यय इति सुत्रस्यायें औपगवशब्दस्यापत्यप्रत्ययान्तत्वे पुनस्ततोऽपत्यप्रत्ययानुपपत्त्याऽगत्या परम्परासम्बन्धस्वीकारादुपगोरेव प्रत्ययोत्पत्न्यौपगवात्तदनुत्पत्तेरिति !
इत्यपत्याधिकारः ॥
८०
अथ चातुरर्थिकप्रकरणम् |
ननु (वामदेवाड्यड्यावित्येवमस्तु सूत्रम्, वामदेवशब्दादुक्तसूत्रेणोक्तप्रत्यय विधानेन (यस्येति चे) लोपेनैव वामदेव्यमिति सिद्धे सूत्रे ड्यड्ययोर्डिकरणम्व्यर्थमिति चेन्न । डित्करणाभावे 'ययतोश्चातदर्थे' इत्यत्रत्यययद्भ्यामुक्तसूत्रविहितयोर्थयतोर्ग्रहणापत्त्या ययतोश्चेति सूत्रेण नञःपरस्योत्तरपदस्यान्तोदात्तत्वमित्यर्थ के नोक्तस्वरस्य वामदेव्यशब्दे दुर्वारतया तद्वयावृत्ति पुरस्सरमव्ययपूर्वपदस्वरार्थं डित्करणस्यावश्यकत्वात् । नच सत्यपि sa कुतो नोक्तस्वरविधायक सूत्रप्रवृत्तिरिति वाच्यम् । एतडित्करणसामर्थ्याज्ज्ञापिताभ्यां (निरनुबन्धग्रहणे न सानुबन्धकस्य ) ( तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्ये ) ति परिभाषाभ्यातदप्रवृत्तेः इत्येवाह
सिद्धे यस्येति लोपेन किमर्थं पयतौ डितौ I
ग्रहणं मा तदर्थे भूद्रामदेव्यस्य नञ्स्वरे ॥ इति ।
(पूरणगुणरहितार्थ सदव्ययतव्यसमानाधिकरणेन ) इत्यत्र तव्यग्रहणेन तयतोऽग्रहणमिति पूर्वपरिभाषाफलम् । अङा चङोऽग्रहणमिति द्वितीयपरिभाषाया फलम्बोध्यम् । ननु वास्त्रो रथ इतिवत् छात्रो रथ इत्यपि स्यात् छत्रैः परिवृतो रथ इत्यर्थे प्रकृतसून्त्रेणाऽण्प्रत्ययविधानादित्याशङ्कां समाधत्ते - समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छत्रैः परिवृतो रथ इति--अयम्भावः, रथाच्छादनाय वस्त्रकम्बलादिभिरेव समन्तात् (सर्व) वेष्टनसम्भवान्नतु छत्रादिभिरिति न ततोऽण्प्रत्यय इति ॥
-
ननु पाण्डुकम्बलशब्दान्मत्वर्थीयेन्प्रत्ययविधानात्पाडुकम्बलीति सिद्धौ सूत्रमिदं व्यर्थमिति चेन्न । सूत्राभावे पाण्डुकम्बलेन परिवृत इत्यर्थेऽण्प्रत्ययस्याऽपि दुर्वारतया वृत्त्यर्थं सूत्रस्यावश्यकत्वादित्याह - मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थमिति । कौमाराsपूर्ववचने । ननु निर्देशोऽयमनुपपन्नः, अपूर्ववचने कौमारो निपात्यते इत्यर्थे कौमारोत्तरविभक्तिसकारस्य रुत्वयत्वयलोपेषु कौमार अपूर्ववचने इत्यस्यैव सिद्धिः, सन्धेरप्रसक्तेरत आह— कौमार इत्यविभक्तिको निर्देश इति - - तथा च सन्धौ बाधका
निर्देश उपपन्न इति भावः ॥
Aho! Shrutgyanam