________________
तद्धितप्रकरणम् । र्थस्यैव गोत्रसंज्ञा स्यान्नत्वण इति । नचाऽपत्याऽधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यस्य लाभात्तेनैवोक्तप्रयोजनसिद्धौ प्रयोजनाऽभावाद्वयर्थमपत्यग्रहणमिति वाच्यम् । 'ते तद्राजाः' इत्येतत्सूत्रघटकतत्पदेन 'जनपदात् क्षत्रियादम्' इत्येतत्सूत्रविहिताऽजादीनामेव ग्रहणेन गोत्रयुवर्सज्ञाप्रकरणेन व्यवधानादजादेः पूर्वप्रत्ययानामग्रहणेनाऽपत्याधिकारपाठ. सामर्थ्यस्योपक्षीणतयाऽपत्यस्याऽसम्बन्धशडाव्यावृत्यर्थ पुनरपत्यग्रहणस्याऽऽवश्यकत्वा. दिति भावः ॥ ___ननु 'एकस्मिन् गोत्रे' इदं सूत्रम्व्यर्थम् । नच तत्राऽनेकप्रत्ययव्यावृत्त्यर्थमावश्यक सूत्रमिति वाच्यम् । युगपदेकस्मिन् गोत्रेऽनेकप्रत्ययानामप्रसक्तरित्याशङ्कय सूत्रारम्भफलं प्रदर्शयति-गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परेति । स्वयं गोत्रन्तदपेक्षया एकोनसंख्यानां प्रत्ययानां तृतीये द्वयोः चतुर्थे त्रयाणां, पञ्चमे चतुर्णाम्परम्परा प्रसज्यत इतितदर्थः । तथा हि, उपगुशब्दात्तृतीये वाच्ये वयोरणिोः प्रत्यययोरापत्तिः । तस्मा. देवोक्तशब्दात्पञ्चमे वाच्ये चतुर्णामणिजफगिजां प्रत्ययानाम्परम्परेति । नच 'यस्येति चे'ति सूत्रेणाऽणाऽदेर्लोपेनाऽविद्यमानत्वादणिमादीनाम्प्रत्ययानां परम्परेत्युक्तेः कथं सङ्गतिरिति वाच्यम् । अणन्तादिभुत्पत्तिः । इमन्तात्फक उत्पत्तिरित्युत्पत्तिमात्राऽभिप्रायेण प्रत्ययपरम्परेत्युक्तेः सुसंगतेः ।
यद्वास्वद्वयनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते । स्वं गोत्रन्तदपेक्षया द्वयूनसंख्येभ्यः प्रकृतिभूतेभ्यः प्रातिपदिकेभ्योऽनिष्टप्रत्ययोत्पत्तिरित्यर्थः। अत्र पक्षे उपगोस्तृतीये वाच्ये एकस्मादौपग वादिअनिष्टः प्राप्नोति चतुर्थे वाभ्यां, पञ्चमे त्रिभ्य इत्या. दीतिभावः । अत्राऽनिष्टोत्पत्तिमात्रं न त्विष्टाऽसिद्धिरित्यर्थः । अत्र पक्षे उपगुशब्दादणेष्टसिद्धावपि औपगवादिनिवृत्त्यर्थं नियमार्थमिदं सूत्रम् । ननु नियमार्थकस्य सूत्रस्यारम्भपि गोत्रे एकस्यैव प्रत्ययस्य करणान्नियमेनाऽबाधादनन्तराऽपत्यप्रत्ययान्तागोत्रे प्रत्ययो दुर्वारः । नच गोत्रपदेन लक्षणयाऽपत्यसमुदायः सच परमप्रकृतेरेवेति वाच्यम् । अपत्यमित्यनुवृत्यैव सिद्धौ गोत्रग्रहणवैयापत्तेरिति चेन्न । गोत्रग्रहणस्य भाष्यकृता प्रत्याख्यात. त्वेनोक्तप्रत्यस्येष्टापत्तेः।
यद्वा गोत्रे बोध्ये एक एव शब्दः प्रत्ययः प्रकृतिर्नत्वनेकशब्द इत्यर्थः। यदि प्रत्ययान्तात्प्रत्ययः स्यात्तहि नैकशब्दः प्रत्ययप्रकृतिः स्यादिति, -
यद्वा एकशब्दः प्रथमवाची प्रथमः शब्दो गोत्रे प्रत्ययमुत्पादयतीत्यर्थः। प्रथमत्वञ्च सर्वमूलत्वमित्येतत्सर्व स्पष्टम्भाष्ये । अपत्यं पितुरेव स्यादिति-तथाच
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी ।
आहुर्दुहितरं सर्वेऽपत्य तोकं तयोः समे ॥ इत्यमरः । मुख्यपक्षमाह-ततः प्राचामपीतिचेति-पित्रपेक्षया प्राचां पितामहप्रपितामहादीनामपीति तदर्थः । 'पंक्तिविंशति' इत्यत्र भाष्ये न पतन्त्यनेनेत्यपत्यमिति व्युत्पत्तेः प्रदर्शनाद्वाहुलात्करणे यता निष्पन्नस्याऽपत्यशब्दस्य क्रियानिमित्तत्त्वन्नतु पुत्रपर्यायत्वम् । यस्य यन्निमित्तमपतनं तस्य तदपत्यमितिफलितम् । पितामहादीनामपतने पौत्रादेरपि हेतुत्वेन तेषामपत्यत्वम्भवति ॥ मतभेदेन तद्धान्यै इति-प्रथमपक्षे प्रत्ययमालाव्या.
Aho ! Shrutgyanam