________________
फक्किकारलमञ्जूषा ।
प्रयोजनमिति । उक्ततत्तत्प्रकृत्यर्थान्विताऽपत्याद्यर्थस्यैवोक्तत्वादुपग्वादेस्तद्भिन्नत्वेन शेषत्वात्तत्रापवादप्रवृतिरस्त्येवेति । तस्यापत्यमिति योगविभागे तु उपग्वपत्यत्वस्याऽनेनोक्तत्वाच्छेषत्वाऽभावेनाऽपवादस्य प्रसङ्ग एव नास्तीति अपवादाऽप्रवृत्तिरूपोऽपवादः । ननु उपग्वादेरवृद्धत्वेन वृद्धाद्विहितस्य छस्य स्वत एव प्रसंगो नास्तीत्याशङ्कायामाह - वृद्धाऽन्यस्य प्रयोजनमिति । भान्वादिवृद्धप्रातिपदिकेभ्यः छाऽभावः प्रयोजनमिति भावः ॥
.७८
ननु अन्तरङ्गत्वात्सन्धौ कृतायामेव प्रत्ययोत्पत्तिरिति व्यथं समर्थानाम्प्रथमाद्वेति सूत्रस्थं समर्थग्रहणमित्याशयेनाऽशङ्कते - कृतसन्धेः किमिति । समाधत्ते - श्रकृतव्यूहपरिभाषाया सावुत्थितिर्माभूदिति । अयम्भावः, तदसत्वे कृतसन्धिकार्यात्तद्वितप्रत्यय इत्यर्थाऽभावादुक्तपरिभाषया वृद्धौ सत्यामन्तरङ्गदीर्घस्य निमित्तविनाशसद्भावात्पूर्वमेतदप्रवृत्त्याऽनिष्टाऽऽपत्तिरिति तदावश्यकं तस्मिन्सति कृतसन्धेस्तद्धितोत्पत्त्या सुतरामिष्टसिद्धिरिति । समर्थग्रहणेन ज्ञापितेयम्परिभाषेति हरदत्तप्रभृतयःः । लोकतः सिद्वेति केचित् ॥
ननु 'तस्यापत्यमित्यत्र निर्दिष्टस्य पदद्वयस्य मध्ये प्राथमिकस्यैव प्रकृतिसमर्थकत्वेनाऽपत्यस्याऽतत्त्वात्प्रकृत्याकाङ्क्षायाम्प्राथमिकस्यैव ग्रहणेन प्रथमादिति व्यर्थमित्याशयेनाऽऽशङ्कते - प्रथमात्किमिति । समाधत्ते - श्रपत्यवाचकादिति । अयम्भावः, प्रथमादित्यस्याsसत्त्वे यथा तस्याऽपत्यमित्यादिसूत्रविहितप्रत्ययस्य षष्ठ्यन्तादभ्युपगतिस्तथैवाऽपत्त्यवाचकदेवदत्तादिशब्दात्प्रत्ययः स्यादिति शंका स्यादिति तद्वयावृत्यर्थं प्रथमादित्यावश्यकमिति । ननु, यद्यपि उपगोरपत्यमिति विग्रहवाक्येऽपत्यवाचकस्य देवदतादेरप्राथम्यान्न ततः प्रत्ययापत्तिस्तथापि अपत्यमुपगोरिति वाक्ये तस्य प्राथम्येनोक्तापत्तिस्तदवस्थैवेति चेन्न । पूर्वसूत्रादनुवृत्तस्य समर्थादित्यस्य सामर्थ्यान्नियतत्वादत्र लक्षणाsपेक्षस्यैव प्राथम्यस्य ग्रहणाद्विग्रहवाक्यापेक्षस्य तस्याऽनियतत्वादग्रहणेनाऽदोपात् । षष्ठ्यर्थे माभदिति । इन्द्रो देवताऽस्य हविष इति विग्रहे ऐन्द्रं हविरिति प्रथमान्तात्प्रत्ययोत्पत्तिवत्, उपगुरपत्यमस्य देवदत्तस्येति विग्रहे औपगवो देवदत्त इति भवतु परं देवदत्तोऽपत्यमस्योपगोरिति विग्रहे दैवदत्तिरुपगुरिति माभूदित्यर्थः ।
ननु तद्धितस्याऽपवादत्वान्नित्यं समासबाधकत्वम् । नच तद्धितस्य विकल्पतया पक्षे समासस्याऽपि सम्भवाद्वाधकत्वकथनं न युक्तमिति वाच्यम् । 'पारे मध्ये षष्ट्या वा इत्यत्रत्यवाग्रहणज्ञापितस्य यत्रोत्सर्गापवादौ महाविभाषा विकल्पते तत्राऽऽपवादविनिमुक्तोत्सर्गस्याऽप्रवृत्तिरित्यस्य सच्चात्पक्षे समासाऽप्राप्तेरित्याह - दैवयज्ञि इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपीति ॥
श्रपत्यं पौत्रप्रभृतिगोत्रम् । ननु पौत्रादेरपत्यत्वाऽव्यभिचारादपत्यग्रहणमन्तरा - ऽप्यपत्यरूपपौत्रादेर्गोत्र संज्ञा स्यादेवेति व्यर्थमपत्यग्रहणमित्यत आह - श्रपत्यत्वेन वि वक्षितमिति । पौत्रादीनामपत्यत्वेन विवक्षायामेव गोत्रसंज्ञा स्यात्पौत्रत्वादिना विवक्षायां सा माभूदित्यर्थमपत्यग्रहणम् । तेन औपगव इत्यादावप्यणो गोत्रसंज्ञासिद्धिः । अणोऽपत्यत्वमेव शक्यतावच्छेदकन्नतु पौत्रत्वादिकम् । इतरथा गोत्राऽधिकारस्थायजाद्य.
Aho! Shrutgyanam