________________
तद्धितप्रकरणम् । अर्थप्रतिपादकत्वम् । तच्च परिनिष्ठितस्यैव सम्भवतीत्यत आह-कृतसन्धिकार्यमिति । नहि 'म उत्थित' इत्यस्य कल्पनयाऽप्यर्थवत्त्वम् । सूत्रे समर्थानामिति निर्धारणे पष्टी समर्थानाम्मध्ये प्रथमादित्यर्थः । प्रथमत्वञ्च तत्तत्सूत्रेषु प्रथमोच्चारितशब्दप्रतिपाद्यत्वमेव । एवञ्चानेकसमर्थसम्भव एवाऽस्य सम्बन्ध इति ॥
तस्यापत्यम् । तस्येति न स्वरूपग्रहणं किन्तु षष्ट्यन्तमात्रोपलक्षणमित्यत आहषष्ठ्यन्तादिति । पञ्चम्यर्थस्याऽध्याहारः । अथवा अनुकरणात्पञ्चम्याः सौत्रो लुगिति बोध्यम् ॥ ___ ननु उपगु अ इति स्थितौ गुणादेशस्य पितृव्यादौ साऽवकाशत्वात् 'ओर्गुणः' इत्येतं बधित्वा परत्वात् 'अचोणिति' इति वृद्धिप्रसङ्गः । गुणे च कृतेऽवादेशे च 'अत उपधायाः' इति वृद्धिप्रसङ्गश्च स्यादित्यत आह-आदिवृद्धिरन्त्योपधावृद्धी बाधत इति । 'तद्धितेष्वचामादेः' इदं सुत्रमुक्तसूत्राभ्यां परमिति परत्वात्तयोरनेन बाधः । अन्त्योपधावृद्धयोः, गौः, पाचकः, इत्यादाववकाशः । आदिवृद्धस्तु सौश्रुतः इत्यादाववकाशः । औपगवः; त्वाष्ट्रो जागत इत्यादावुभयप्राप्तौ परत्वादादिवृद्धिरेवेति भावः । नचादिवृद्धया परत्वादन्त्योपधावृद्धयोर्बाधेऽपि (पुनः प्रसङ्गविज्ञानात्सिद्धम्) इति न्यायेन पुनः कुतो न ते इति वाच्यम् । अत्र लक्ष्याऽनुरोधात् (सकृद्गतौ विप्रतिषेधेन यद्वाधितं तद्बाधितमेवे)त्यस्यैवाऽऽश्रयणात् । अनुशतिकादिगणे पुष्करसच्छब्दपाठस्योक्तार्थे ज्ञापकत्वं बोध्यम् । तथाहि, पुष्करसच्छब्दात्पौष्करसादिरित्यस्य सिद्धयर्थमनुशतिकादिपूक्तशब्दपाटः । आधुपधावृद्धिभ्यामुक्तप्रयोगसिद्धावुक्तगणे उक्तशब्दपाठो व्यर्थीभूतो ज्ञापयति, आदिवृद्धिरिति । तथा च, आदिवृद्धयोपधावृद्धेर्बाधादुक्तप्रयोगाऽसिद्धथा तदर्थमुक्तगणे तत्पाठस्याऽऽवश्यकत्वेन स्वांशे चारिताथ्यं जातम् । न च पुष्करसदा चरतीत्यर्थं ठकि पौष्करसादिक इत्येतत्प्रयोगसिद्धयर्थमनुशतिकादिषूक्तशब्दपाठस्याऽऽवश्यकत्वम् । न चोपधाद्धयैवोक्तप्रयोगसिद्धा तत्र पाठा व्यर्थ एवेति वाच्यम् । उपधावृद्धेनिणित्येव विधानादिति वाच्यम् । पुष्करसच्छब्दाठोऽनभिधानात् । उक्तज्ञापकेन सत्यपि सम्भवे बाधनं भवतीत्यवश्यमाश्रयणीयम्भवतीति बोध्यम् । ननूक्तज्ञापनेऽपि जागत इत्यादावुपधावृद्धेर्बाधोऽस्तु, औपगव इत्यत्रादिवृद्धिप्रवृत्त्यवसरे उपधावृद्धय प्राप्त्या कथन्तद्वाध इति चेन्न । जागत इत्यादावुपधावृद्धिबाधस्य निर्णये जाते कुत्र चित्कालान्तरप्राप्याया अप्युक्तवृद्धर्बाधस्य समुचितत्वादिति भावः ।
ननु इदमर्थेऽपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि तस्येदमिातिसूत्रेणाऽण: सिद्वौ किमर्थ 'तस्याऽपत्यमिति सूत्रम् । नचास्य 'अत इञ्' इत्याद्यर्थमावश्यकमिति वाच्यम् । तस्य तदर्थकत्वेनाऽऽवश्यकत्वेऽपि तत्रैव पाठस्य युक्ततया योगविभागस्य नैरर्थक्यादित्याशय समाधत्ते-तस्येदमित्यपत्येऽपि बाधनार्थं कृतम्भवेदिति । तस्येदमित्येतद्वाधकस्य 'वृद्धाच्छः' इति सूत्रस्य बाधनाथं तस्याऽपत्यमिति पृथक्कृतमिति तनावः । ननु अपत्यचतुर्थीपर्यन्तेभ्योऽन्योऽर्थः शेष इति स्वीकारेण तस्येदमित्येतत्सूत्रविहितस्याऽण: 'वृद्धाच्छः' इत्येतद्विहितस्य छस्य च शैषिकत्वादपत्यार्थे प्रवृत्त्यभावाकथन्तद्वाधनार्थत्वं योगविभागस्येत्यत आह-उत्सर्गः शेष एवाऽसौ वृद्धाऽन्यस्य
Aho ! Shrutgyanam