________________
फक्किकारत्नमञ्जूषा। णत्वार्थमेवेत्यर्थः । अयम्भावः, नुम उदाहरणे व्रीहिवापाणीत्पादावङ्गस्य नुम्विधानात्त. स्याङ्ग-भागत्वेन प्रातिपदिकान्तेतिणत्वप्राप्तिसम्भवः, प्रहिण्वन्नित्यत्रत्यप्रहिणु इत्यस्याऽप्रातिपदिकत्वेन तेन तदप्राप्त्या तदर्थ नुम्ग्रहणं कर्त्तव्यमेवेति ॥
पदव्यवायेऽपि । माषकुम्भवापेन । चतुरङ्गायोगेनेति । ननु माषकुम्भस्य वापः, चत्वार्यङ्गानि यस्य तेन योग इति विग्रहे उत्तरपदत्वे चाऽपदादिविधाविति प्रत्ययलक्षण - निषेधात्कुम्भाऽङ्गन्योः पदत्वस्य दुर्लभत्वेन पदव्यवायेऽपीति निषेधाऽप्रवृत्या णत्वापत्ति१रिति चेन्न । प्रत्यासत्त्या उत्तरपदस्य कार्यित्व एवोक्तनिषेधवार्तिकप्रवृत्तेः । अपदा. दिविधाविति पर्युदासेन पदान्तविधावेव तत्प्रवृत्तेश्च । नचैवमपि माषकुम्भस्येत्यादेर्वापादिनिरूपितकारकत्वाद्गतिकारकोपपदानामित्यनेन वापादिभ्यः सुबुत्पत्तेः प्राक् समासे तेषां पदत्वं दुर्लभमितिसप्तमीसमासेन व्याख्याने णत्वनिषेधाऽसिद्धिरिति वाच्यम् । तस्या अनित्यत्वेनात्र सुबुत्पत्त्यनन्तरमेव समासेनादोषात् ।
यत्तु 'कुमति चेति सूत्रे भाष्ये माषकुम्भवापेनेत्यत्र षष्ठीतत्पुरुषोत्तरपदकषष्ठीतत्पुरुषे कुमति चेत्यनेन नित्यणत्वेन भवितव्यम् । पष्ठीतत्पुरुषे प्रातिपदिकान्तेति विभाषयेत्युक्तं तत् णत्वप्राप्तिनिरूपणमिति बोध्यम् ।।
यत्तूक्तसूत्रस्थभाष्यादयं पदव्यवायेऽपीति निषेधः 'उपसर्गादसमासेऽपी'त्यादेरेव तेन प्रावनद्धमित्यायेवास्योदाहरणमिति तन्न, पदव्यवायेऽपीत्येतच्छेषभूतस्य (अतद्धित) इति वार्तिकस्याऽऽगोमयेणेत्यादिभाष्योक्तोदाहरणाऽसङ्गत्यापत्तेरित्यलम् ।।
विष्किरः शकुनौ वा । वृत्तिकारमते विकिरः शकुनौ विकिरोवेति सूत्रपाठ इति स्वमतेनाशते-वावचनेनैव सुविकल्प सिद्ध इति । तस्याऽपीति । विकिरशब्दस्याऽपीत्यर्थः । भाष्यविरोधादिति । इत्थंहि भाष्यम् , विष्किरः शकुनौ विकिरोवेति वक्तव्यम् , न वक्तव्यम् , शकुनिवाच्ये वैकल्पिकः सुट् तदतिरिक्त नित्यम् , तत्तर्हिवक्तव्यम्, न वक्तव्यम् , न वावचनेन शकुनिरभिसम्बध्यते किन्तर्हि निपातनमभिसम्बध्यते शकुनिवाच्ये विष्किर इति वा निपातः, एतद्भाष्येण वृत्तिकारमताऽभिप्रेतसूत्रपाठस्य तच्छासमाधानयोश्च स्पष्ट एव विरोध इति भावः ॥
इतिसमासाश्रयविधिप्रकरणम् ।
अथ तद्धितप्रकरणम् । अवसरसङ्गत्या तद्धितप्रकरणमारभते । समर्थानां प्रथमाद्वा । अत्र सुत्रे पदत्रयम् । प्रत्येकं पदानां स्वस्तित्वात्प्राग दिश इत्येतदवधि यावदधिकारः । पदत्रये स्वरितत्वप्रतिज्ञाप्रयोजनं तु कस्मिश्विनिवर्तमानेऽपि अपरस्य निवृत्यभावः । यथा प्राग्दिश इत्यत्र समर्थानां प्रथमादित्यनयोनिवृत्तिः, वेत्यस्याऽनुवृत्तिः । ननु समर्थानामिति व्यर्थम् ,समर्थः पदविधिरित्यनेनैव गतार्थत्वात् । नच पदविधित्वाऽभावान्न तेन गतार्थतेति वाच्यम् । 'घकालतनेष्विात्यलुग्विधानसामर्थ्यात्सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तितत्वात्तस्य पदविधि. त्वस्य सुलभत्वादित्यत आह-सामर्थ्यमिति । समर्थशब्दः शक्तपर्यायः शक्तत्वञ्च,
Aho ! Shrutgyanam