________________
समासाश्रयविधिप्रकरणम् । कनकारस्य णत्वं नाऽन्येभ्य इति, नचैभ्यो वनस्यैव णत्वं नाऽन्यस्येति विपरीतनियमः कुतो नेति वाच्यम् । वनाऽतिरिक्तोत्तरपदे पुरगादीनां दीर्घान्तत्वाऽसम्भवेन विपरीतनियमाऽप्राप्तेरिति भावः ।।
ननु अग्रेशब्दस्याऽसंज्ञात्वात् 'पूर्वपदात्संज्ञायामग' इत्यस्य प्राप्त्या णत्वार्थमस्य ग्रहणमावश्यकमेवेत्यत आह-अग्रेशब्दस्य तु विध्यर्थ इति । निर्देश इति शेषः । नच गकारव्यवधानेन पूर्वपदात्संज्ञायामित्यस्याऽप्राप्त्या पुरगाशब्दग्रहणस्याऽपि विध्यर्थत्वसम्भवात्तस्य नियमार्थत्वोक्तिर्न युक्तेति वाच्यम् । अग इत्यस्य पञ्चम्यन्तत्वाऽभ्युपगमेन गान्तात्पूर्वपदात्परस्य नस्य णत्वं नेति व्याख्यानेन पुरगाशब्दस्याऽकारान्तत्वेनाऽग इति निषेधाऽप्राप्त्या पूर्वसूत्रेणैव सिद्धत्वसम्भवान्नियमार्थत्वोक्तेर्युक्तत्वात् । अत एव अग इत्यस्य ऋगयनमित्येकमेवोदाहरणं दत्तमित्यलम् ॥ __ननु बनस्याऽग्रे इति विग्रहेऽग्रेवणशब्दस्याऽधिकरणशक्तिप्रधानत्वात्प्रथमा न स्यादिति चेन्न । अभितः सोर्थोऽऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति भाष्येण प्रथमोपपत्ते. रित्याशयेनाह-प्रातिपदिकार्थमात्रे प्रथमेति ।
ननु पानशब्दस्य क्रियावाचकत्वात्क्षीरशब्देन तस्य समानाधिकरणत्वाऽभावेन क्षीरं पानं येषामित्युपपन्नमित्यत आह-कर्मणि ल्यडिति । 'कृत्यल्युटो बहुलमित्यत्र बहुलग्रहणादिति भावः । पीयते इति पानमिति विग्रहः । कर्मणि ल्युटा निष्पन्नस्य पान शब्दस्य द्रव्यवाचित्वेन क्षीरशब्देन सामानाधिकरण्यान्नानुपपत्तिरिति ।
ननु माषान्वपतस्तच्छीलौ पुरुषौ माषवापिणावित्यादौ (उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः) इति निषेधस्य जागरूकत्वाद्वापिन्नित्यस्योत्तरपदरूपप्रातिपदिकत्वाऽभावेन पूर्वपदेनोत्तरपदस्याक्षेपात्पूर्वपदस्थनिमित्तात्परस्योत्तरपदरूपप्रातिपदिकान्तस्थनकारस्य ण. त्वमिति, णत्वविधायकस्य 'प्रातिपदिकान्तनुम्विभक्तिषु चे त्यस्याऽर्थे णत्वं न स्यादिति चेन्न । उत्तरपदशब्दस्य समासचरेमाऽवयवे रूढत्वेन वापिन्नित्यस्य समासचरमाऽवयव. त्वेनोत्तरपदत्वाऽक्षततया णत्वसिद्धेरिति भावः ॥
ननु पूर्वपदस्थनिमित्तात्परस्य प्रातिपदिकान्तस्थनकारस्य णत्वमित्यर्थे गर्गभगिनी त्यत्र णत्वं दुर्वारं नकारस्य भगिन्निति प्रातिपदिकान्तस्थत्वादित्याशंक्य समाधानवाति - कमवतारयति-उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । उत्तरपदरूपप्रा. तिपदिकान्तनकारस्यैव णत्वम्भवतीत्यर्थः । तथा चोत्तरपदशब्दस्य समासचरमाऽवयवे रूढत्वेनेहोत्तरपदं भगिनीशब्दो न तु भगिन्निति तस्य प्रातिपदिकत्वेऽप्युत्तरपदत्वाऽभा. वान्न णत्वाऽऽपत्तिरिति भाव इत्येतदभिप्रायेणैव मूले गर्गाणां भगिनीति विग्रहो दर्शित इति । उक्तवात्तिके ज्ञापकं घटयति-अत एव नुम्ग्रहणं कृतमिति । पूर्वपदाक्षिप्तोत्तरपदेन प्रातिपदिकस्य विशेषणादेवेति हेत्वर्थः । अन्यथाऽङ्गस्य नुम्विधानादस्याङ्गस्यैव भागत्वादुत्तरपदस्य तत्त्वाऽभावान्नुम उदाहरणे व्रीहिवापाणीत्यादौ प्रातिपदिकान्तेत्येव णत्वोपपत्तौ प्रयोजनाऽन्यथोपपत्त्या नुम्ग्रहणं व्यथं सज्ज्ञापयति पूर्वोक्तवार्तिकमिति । वक्ष्यमाणप्रयोजनार्थन्नुम्ग्रहणस्यावश्यकत्वेन ज्ञापकत्वेन ज्ञापकत्वाऽसम्भवात्तद्विघटयतिकिञ्चेति । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपीति । एवाऽर्थकोऽत्राऽपिः ।
Aho! Shrutgyanam