________________
भ्वादिप्रकरणम् । स्मृतिसिद्धत्वेऽपि वियदादिवद्व्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वेन न विरोधः । विजयते तरामिति-वीतिपृथक् पदम् । [तिङश्चेति तरप्याम् , ननु विजयते इत्यस्याऽतिङन्तत्वेनाऽप्रातिपदिकत्वेन च तरपन स्यात् नच [सह सुपे]त्यत्र सहेति योगविभागेन विशब्दस्य तिङन्तेन समासे प्रातिपदिकत्वस्य सुलभत्वेन तरपोऽपि सौलम्यमेवेतिवाच्यम् । तिङन्तोत्तरपदसमासस्यापि छन्दस्येव विधानाद् , किञ्च विजयत इत्यस्य प्रातिपदिकत्वाङ्गीकारे सोरुत्पत्तिः, लिंगसर्वनामताऽभ्युपगमे नपुंसकत्वात्सोलुक्यपि [हस्वो नपुंसके] इति हस्वापत्तः । नच जयत इत्यस्य तिङन्तत्वेऽपि तस्य विपदसापेक्षत्वेनाऽसामर्थ्यात्समासाsप्राप्त्या कथं तरबिति वाच्यम् । उपसर्गाणां (१)द्योतकत्वेनोक्तशंकानुदयेन तदुपपत्तेः । नियमेन स्वार्थसाकांक्षेतरार्थवाचकशब्दभिन्नार्थवाचकशब्दस्यापेक्षा हि सामर्थ्याऽभावप्रयोजिका सेह नास्ति उपसर्गाणां घोतकत्वात् । तरबन्तार्थं प्रति तिङन्तार्थस्य प्राधान्येन (प्रधान)न्यायेन प्रधानस्य सापेक्षत्वेऽपि वृत्तिर्भवत्येवेति भावः। (२)पूर्वाद्ध इति-ननु पूर्वाद्धेऽपि तृतीयाऽध्यायस्य क्विनः [स्पृशोऽनुदके क्विन् ] इत्यनेन व्युत्पादनात्तुर्य्यपञ्चमाध्यायवर्तिन इत्येतावन्मात्रप्रतिपादनमसंगतमिव प्रतिभातीति चेन्न । यन्त्र ते प्राधान्येन कथिता इति तदभिप्रायेण प्रसंगात्तृतीयाध्यायस्थप्रत्ययकथनेनाऽप्यक्षतेः । ननु उणादिप्र. त्ययानां तृतीयाध्यायगोचरत्वाऽभावेन तृतीयाध्यायगोचराः प्रत्ययाः कथ्यन्ते इति ग्रन्थकर्तः प्रतिज्ञा नानन्दोत्पादिनीति चेन्न । [उणादयो बहुलमि]ति सूत्रस्य बाधितत्वेन तेषा. मपि तृतीयाध्यायगोचरत्वाक्षतेरिति संक्षेपः ॥
वर्तमाने लट्--ननु वर्तमानत्वस्य शब्दप्रयोगाधिकरणक्षणवृत्तित्वरूपत्वेन क्रियायाश्च पूर्वापरीभूताऽवयवसमुदायरूपत्वेनावयवानाञ्चाशुविनाशित्वात्तादृशसमुदायस्य निरुक्तवर्त्तमानत्वस्य स्थिरसम्बन्धिनोऽनुपपन्नाद्वर्तमानक्रियावृत्तेर्धातोरित्यर्थः सर्वथाऽसम्भवीति चेन्न । वर्तमानकालक्रियावृत्तेर्धातोरित्यर्थे तात्पर्यात् । नव प्रारब्धापरिसमाप्तत्वघटितस्यैव कालगतस्यापि वर्तमानत्वस्य विवक्षायामपि पूर्वोक्तानुपपत्तेस्तादवस्थ्यमेवेति वाच्यम् । बौद्धपूर्वापरीभूताऽवयवकसमुदायाधिकरणस्य जन्यकालस्य सम्भवात् । वर्तमाने लडित्या. दिसूत्रविहितलकाराणां वाचकत्वद्योतकत्वयोर्बहुविवादाध्यसितत्वम् । तत्र तेषाम्बहुत्वेन तत्र शक्तौ गौरवात्प्रकृतावेव शक्तिकल्पना ज्यायसी, ते च द्योतका एवेति तत्वम् । वर्तमानकालत्वञ्च प्रयोगोचारणाधिकरणत्वे सति प्रारब्धाऽऽपरिसमाप्तक्रियोपलक्षितत्वम् । ह्यस्तनीम्प्रारब्धाऽऽपरिसमाप्तिक्रियामादायाऽतिव्याप्तिव्यावृत्यर्थमुक्तविशेषणम् , भूतभविव्यदृभिन्नत्वं वा तत्त्वम् ॥
(१) द्योतकत्वेनेति । द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठवृत्त्युबोधकत्वम् । समन्वयो यथा, अनुभूयते सुखं साक्षात्क्रियते गुरुरित्यादौ स्वम् अनु साक्षादिति च तत्समभिव्याहृतपदं भूकृपदं तनिष्ठवृत्तेरुद्बोधकत्वं द्योतकत्वमनुसाक्षादित्यनयोरस्तीति तयोस्त. त्वम् । एवं प्रकृते विजयते इत्यत्रापि वीत्युपसर्गस्य द्योतकत्वं बोध्यमिति भावः। (२) पूर्वार्द्ध कथितास्तुर्यपञ्चमाध्यायवर्तिनः।।
प्रत्यया अथ कथ्यन्ते तृतीयाऽध्यायगोचराः ॥ इति श्लोकाकारः । चतुर्थपञ्चमाध्यायस्थप्रत्ययाभिधानोत्तरतृतीयाध्यायस्थप्रत्ययाभिधानं करोमीत्यर्थः।
Aho ! Shrutgyanam