________________
८४
फक्किकारत्नमञ्जूषा। लः कर्मणि च भावे--ननु लाघवात् लकाराणां कृतावेव (१)शक्तिरभ्युपेया न तु कर्तरि तत्र तदभ्युपगमे गौरवस्य प्रतिभासमानत्वात् प्रथमान्तपदेनैव कर्तुर्लाभाच्च । प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्यादाख्यातार्थे धात्वर्थस्य विशेषणत्वम् । आख्यातार्थे च प्रथमान्तार्थस्य विशेषणत्वम् । अनुकूलत्वमाश्रयत्वच्च सम्बन्धः । तथा च चैत्रः पचतीत्यादौ विक्लित्यनुकूलव्यापाराऽनुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छती. त्यादौ रथस्याचेतनत्वेन यत्नशून्यत्वादाख्यातस्य व्यापारे आश्रये वा (२)लक्षणेत्याहुस्तार्किकाः ।
तत्तुच्छम् । युष्मदस्मदोलकारेण सति सामानाधिकरण्ये एव पुरुषव्यवस्थोपपत्त्या लकाराणां कृतौ शक्त्यभ्युपगमे कृत्याश्रयस्य कर्तृत्वेन लकारेण युष्मदस्मदोरसामानाधिक रण्येन तदनुपपत्तेः । लस्थानिकादेशभूततिबादिभ्यः कृतिमात्रबोधवत्तत्स्थानिकादेशभूततृशानजादीनामपि लादेशाऽविशेषेण तेभ्यः कृतिमात्रबोधापत्तेश्च । नचाऽऽश्रयाश्रयिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयात्तेभ्यः कृतिमानबोध इष्ट एवेति वाच्यम् । (३)(नामार्थयोरभेदातिरिक्तः सम्बन्धोऽव्युत्पन्न:)इति व्युत्पत्तेर्जागरूकत्वेनाऽऽश्रयाऽऽश्रयिभावेनान्वयाऽनुपपत्तेः । नच (फलमुखगौरवं न दोषोत्पादकमि)ति न्यायसद्भावाच्छत्रादीनां कर्तरि शक्तिस्तिबादीनां कृतावेव सेति वाच्यम् । लाघवात्स्थानिन एव वाचकत्वं नत्वादेशानां तेषां बहत्वेन गौरवमिति तव पक्षः । तथा च तिबादीनां शत्रादीनां च स्थानिस्मारकत्वेन लिपिस्थानीयत्वं बोधकत्वं तु लकारस्यैव तस्य च लकारस्य शत्राद्यन्ते कर्तरि शक्तत्वेन ति. बादीनां कृतिमात्रबोकत्वाऽनुपपत्तेः । नच लकाराणामनेकार्थत्वेन न काचिदनुपपत्तिरिति वाच्यम् । (अन्यायश्चानेकार्थत्वमि)ति न्यायस्य जागरूकत्वात् ।। न च (लः कर्मणि)इति सूने कर्तृकर्मपदयोर्भावप्रधानत्वेन कर्तृत्वं कृतिः कर्मत्वं फलं तयोः शक्तौ सूत्रस्वारस्यम् । कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेनेत्यादौ देवदत्तनिष्ठकृतिजन्य. व्यापारजन्यविक्लित्तिमानोदन इति बोधः । 'कर्तरि कृदि' तिसूत्रे कर्तरीतिपदस्य धर्मिप्रधानतया शत्रादीनां कृत्याश्रये शक्तिरिति वाच्यम् । कर्तरि कृदिति सूत्रस्थकर्तृग्रहणस्यैव लः कर्मणीत्यत्र चकारेणाऽनुवृत्तत्वाद् भावप्रधानेऽस्वारस्यात् । (स्थान्यर्थाभिधानसमर्थस्यैबादेशत्वमिति न्यायेन शत्रादीनां स्थान्यर्थेन निराकांक्षत्वेनाऽऽकांक्षितविधानस्यैव ज्या
( १ ) शक्तिरिति । ननु कस्तावच्छक्तिपदाथ इति जिज्ञासायामुच्यते--वैयाकरणनये वाच्यवाचकभावात्मकसम्बन्ध एव शक्तिपदार्थः । उक्तं च नागेशेन मञ्जूषायाम्-तस्मात्प. दपदार्थयोः सम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावाऽपरपर्यायेति । सम्बन्धान्तरमित्यस्य वाच्यवाचकभावरूपसम्बन्ध इत्यर्थः । गदाधरमते तु अर्थनिरूपितपदनिष्ठसंकेतलक्षणोभया. मकवृत्तिरेव शक्तिपदार्थः।
(२) लक्षणेति । तार्किकमते-स्वशक्यसम्बन्धरूपो लक्षणापदार्थः । वैयाकरणनये अप्रसिद्धायाः शक्तेरेवाभ्युपगमात् लक्षणा नास्त्येव तदुक्त नागेशेन मञ्जूषायाम्-शक्तिर्द्विवि घा प्रसिद्धाऽप्रसिद्धा चेति ।
(३) नामार्थद्वयस्याऽभेदसम्बन्धेनैवान्वयो भवति न तु तदतिरिक्तसम्बन्धेन यथा नीलो घट इत्यादौ नलिघटयोः । नलिाऽभिन्नो घट इति बोधः ।
Aho! Shrutgyanam