________________
८६
फक्किकारत्नमञ्जूषा |
चित्तन्न तथा सति करिष्यामीत्यत्रोदात्तस्य स्यशद्वस्याऽऽन्तरतम्यात्प्राप्तस्याऽप्युदात्तत्वस्य बाधापत्तेरित्यलम् ॥
परोक्षे लिट् । परोक्षत्वञ्च साक्षात्कृत मित्येतादृशविषयताशा लिज्ञानाविषयत्वम् । यद्विषयताशालिज्ञानानन्तरं साक्षात्कृतमित्याकारिका ज्ञाननिष्ठविषयताशालिनी विलक्षणा प्रतीतिर्भवति तादृशविषयतानिरूपकं यद् ज्ञानं तदविषयत्वमित्यर्थः । तच्च ज्ञानमिन्द्रि यत्वावच्छिन्नकरणताकं ज्ञानम् । तच्च सन्निकृष्टविषयकमेवेति सन्निकर्षाप्रयोज्यत्वं लब्धमिति परोक्षत्वं स्फुटमेवेति । ननु (क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूता न शक्या पिण्डीभूता निदर्शयितुमि ) ति भाष्यात्क्रियाया अतीन्द्रियत्वेन न परोक्षे इति व्यावर्तकमिति चेन्न । पिण्डीभूता (समुदायभूता) यास्तस्या निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्कृतमितिप्रतीतिविषयत्वसम्भवात् । अन्यथा पश्य मृगो धावतीत्यत्र धावनक्रियाया दर्शनकर्मता न स्यादिति । व्यापारा ऽऽविष्टानामपि साधनानामेवेह परोक्षत्वस्य विवक्षणान्नोक्तदोषः । अयं पपाचेत्यानुरोधेन व्यापारानाविष्टानामित्यपि वदन्ति केचित् । स्वक्रियायाः स्वप्रत्यक्षत्वात् (१) व्यातेने किरणावलीमुदयनः । (२) चक्रे सुबन्धुः इत्यादयः प्रयोगा असंगता एव । व्यासङ्गादिना स्वक्रियायाः प्रत्यक्षत्वोपपादनेऽप्यनद्यतनातीतत्वयोरभावेन तदर्थस्य लिटोsप्यसम्भवादिति दिक् ॥
नित्यत्वादुवुक गुणवृद्धी बाधत इति । गुणे वृद्धौ वा ( अचः परस्मिन्नि) ति स्थानिवद्भावाद्भूशब्दत्वेन बुकः प्रवृत्या कृताकृतप्रसंगित्वेन नित्यत्वमिति भावः । ननु [शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः ] इति परिभाषया वुग्विधायकस्यानित्यत्वसुचनान्नित्यत्वाद्वुगितिकथनं न सङ्गतिमाप्नोतीति चेन्न । लक्ष्यानुरोधेनाऽत्रोक्तपरिभाषाया अप्रवृत्तेः । नच गुणवृद्धयोः कृतयोरपि [द्विर्वचनेऽचि ] इत्यनेन स्थानिरूपातिदेशादूवुकः प्रवृत्तौ - बाधकाऽभावान्मूलोक्तमसमञ्जसमिति वाच्यम् । प्रक्षालनाद्धि पङ्कस्येति न्यायेन | स्थानिरूपातिदेशपक्षानभ्युपगमेन द्वितीयार्थे बुकः प्राग्गुणवृद्धयोरप्राप्त्या मूलोक्तस्य सामञ्जस्यात् ॥
भवतेरः । प्रयोगे दृष्टानाम्भुवामनुकरणाद्भूशब्दात् [ इश्तिपौ धातुनिर्देशे] इति शितपि रूपसिद्धिः । ननु शपः कर्त्र विधानेन श्तिपोऽकर्थत्पात्तदप्राप्त्या रूपन्नोपपद्येतेति चेन्न । (उपसर्गात्स्रुनोती) त्यादिनिद्देशात् (लोपः पिबतेरिच्चे ) ति निर्देशाच्च स्तिप्प्रत्ययस्य कर्त्रर्थत्वाऽभावेऽपि विकरण प्रवृत्तेः सुलभत्वात् । श्तिपः कर्तृवाचकत्वाऽभावेऽपि भावक
( १ ) वैशेषिकदर्शनस्य किरणावलीव्याख्यायामुदयनाचार्यस्यायं श्लोक :अर्थानां प्रविवेचनाय जगतामन्तस्तमः शान्तये
सन्मार्गस्य विलोकनाय गतये लोकस्य यात्रार्थिनः । तत्तत्तामसभूतभीतय इमां विद्यावतां प्रतिये व्यातेने किरणावलीमुदयनः सतर्कतेजोमयीम् ॥
( २ ) सुबन्धुकविकृतवासवदत्तानामगद्यकाव्ये कवेरिदं पद्यम्सरस्वतीदत्तवरप्रसादश्चके सुबन्धुः सुजनैकबन्धुः । प्रत्यक्षर श्लेषमयप्रबन्धविन्यास वैदग्ध्यनिधिर्निबन्धम् ॥
Aho! Shrutgyanam