________________
भ्वादिप्रकरणम् । मणोरपि प्रवृत्तिः । केचित्तु-श्तिपः शकारोच्चारणसामाझंदकर्बर्थेऽपि शपि रूपसिद्धिः । नच शकारोच्चारणाऽभावे तिप आर्द्धधातुकत्वेन प्रकृते ब्रवीतिरित्यत्र चेडापत्ते१रित्वात्तद्वयावृत्यर्थ शकारोच्चारणमावश्यकमिति वाच्यम् । शकाराऽभावे तिप आर्द्धधातुकत्वेऽपि (तितुत्रे) ति सूत्रेणेनिषेधाच्छकारोच्चारणस्यैतदव्यावर्त्तकत्वेन वैयर्थ्यस्य स्पष्टत्वात् एवञ्च शकारोच्चारणस्यैतदव्यातकत्वेन वैयर्थ्यस्य स्पष्टत्वात् । एवञ्च शकारोच्चारणसामर्थ्या. देवात्र शपः प्रवृत्त्या रूपमिति वदन्ति ॥
अनद्यतने लुट-अत्रानद्यतनत्वं नाम, अतीताया रात्रेः पश्चार्द्धनाऽऽगामिन्या रात्रेः पूर्वाद्धेन सहितो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतन इति ॥
ननु (पुगन्तलघूपधस्य चे)त्यत्र सार्वधातुकार्द्धधातुकयोरित्यस्याङ्गविशेषणत्वे सार्वधा. तुकार्द्धधातुकाऽव्यवहितस्याङ्गस्येको गुणो भवतीत्यर्थकरणे भिनत्तीत्यत्रापि गुणापत्तिः । तयोरिको विशेषणत्वे तु भेत्तेत्यत्राऽपि गुणो न स्यात्तकारूपस्यैकवर्णस्य व्यवधानेन सार्व. धातुकाव्यवहितत्वाऽभावादित्याशंक्य समाधत्ते-येन नाव्यवधानं तेन व्यवहितेऽपि भवतीति-यद्वर्णकर्तृकव्यवधानशून्यत्वं न सम्भवति तद्वर्णव्यवधानेऽपि भवतीति तदर्थः । तथाच सूत्रसार्थक्यायैकवर्णव्यवधाने प्रवृत्तावप्यनेकवर्णव्यवधानेऽप्रवृत्त्या भेत्तेत्यत्र गुण जातः, भिनत्तीत्यादौ तदभावश्च । (दीधीवेवीटामि)त्यत्रत्येड्ग्रहणस्यैवात्र ज्ञापकत्वम् । तथाहि अस्मिन्निषेधसूत्रे गुणाऽभावार्थमेवेटो ग्रहणम् । उक्तरीत्वा गुणाऽभावोपपादनेन व्यर्थमेवेटो ग्रहणम् , ज्ञापिते तूक्तार्थे सर्व समञ्जसमिति दिक् ॥
ननु भवतादित्यनुपपन्नम् , तुहिस्थानिकादेशभूतस्य तातडो डिवेन तस्याऽनेकाल्त्वे. ऽपि आनङादाविव बाधकस्य (डिच्चे)त्यस्य सद्भावात्तेनाऽन्त्यस्थाने तातप्रवृत्तेर्बोधनादिति चेन्न । अनन्यफलकडित्वे आनडादौ चरितार्थस्योक्तशास्त्रस्य गुणवृद्धिप्रतिषेधसम्प्रसारणादिफलकतातडित्वे मन्द इव प्रवृत्तो(अनेकालि)त्यनेन परेण बाधात् । अनङादौ डित्वस्याऽन्त्यादेशातिरिक्तफलन्नास्ति । नच सर्वादेशे गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थत्वम् , गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थत्वे सति स देशत्वमित्युभयोः परस्परापेक्षणादन्योन्याश्रय इति वाच्यम् ।(एरि)त्येतदनन्तरं (तियोस्तादाशिष्यन्यतरस्यामिति न्यासे इकारस्याऽनुवृत्त्यैव सिद्धौ डित्वस्य सर्वादेशत्वविधानार्थत्वकल्पनयोक्तदोषाऽयोगादित्याशयेनाहअनेकाल्वात्सर्वादेशः । यद्यपि उिच्चत्यादि ॥ प्रर्वतनायां लिङ् इत्येव सुवचम् । चतुणी ग्रहणं प्रपञ्चार्थमिति । अत एव,
अस्ति प्रवर्तनारूपमनुरूपं चतुर्ध्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनाथं वा प्रपञ्चार्थमथापि वा
विध्यादीनामुपादानं चतुर्णामादितः कृतम् इति भूषणग्रन्थः सङ्गच्छते । प्रवर्त्तनात्वञ्च, प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् , तच्चेष्टसाधनत्वस्यास्तीति तदेवार्थादिष्टसाधनत्वमेव विध्यर्थः ॥
ननु लिङो डित्वात्तत्स्थानिकादेशे च स्थानिवद्भावेन ङित्वस्यानयनादचारितायें (अवयवेऽचरितार्थो विधिः समुदायस्योपकारक)इतिन्यायेन समुदाये तत्वादिष्टसिद्धौ पुनर्या
Aho ! Shrutgyanam