Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 213
________________ बहुव्रीहिसमासप्रकरणम् । ल्यात् । तेन स्वायम्भुवमित्यादिसिद्धिः । [ओरोदि] तिन्यासे ओदित्यत्र तकारस्योचारणार्थत्वात्तपरत्वे फलाऽभावान्न 'तपरस्तत्कालस्ये' त्यस्य प्रवृत्तिः। किञ्च 'ओरो' इत्येवास्त्विति भावः ॥ पूर्वपदात्संज्ञायामगः-ननु सूत्रेऽग इत्यस्य सत्त्वाद्गकारव्यवधाने पूर्वापदस्थनिमित्तात्परस्य नस्य णत्वन्नेत्यर्थे ऋगयनमितिषष्ठीतत्पुरुषे णत्वन्न भवतीत्याशयेनोदाहरति-अगः किम् । ऋगयनमिति।। वस्तुतस्तु-नागग्रहणस्योक्तस्थलीयणत्वापत्तिनिवृत्तिः फलम् । तस्या 'अणगयनादिभ्यः' इति सूत्रे गयनशब्दपाठसामर्थ्यान्निपातनेनैव निवृतेरिति व्यर्थमेव तदिति भाष्ये स्पष्टमित्याह-श्रणगयनादिभ्य इत्यादि । उपसर्गाद्वहुलम्-नन्वस्य सूत्रस्याऽष्टाऽध्याय्यामपठितत्वात्कुत उपलब्धिरिति नाशडक्यम् । 'उपसर्गादनोत्परः' इत्यत्राऽनोत्पर इति परित्यज्य तत्स्थाने बहलग्रहणं संयोज्य भाष्यकृतैव पठितत्वात् । सत्यस्मिन् नसो नस्योपसर्गस्थनिमित्तात्परस्य बहुलं णत्वमित्यर्थे प्रणोनयेत्यत्राऽव्याप्तिबारणं प्रश्नः पूषेत्यादावतिव्याप्तिवारणञ्च फलमित्यलम् ॥ ननु उक्तसुत्रे [ वेग्रा वक्तव्यः ] [ख्यश्चेति वात्तिकद्वयस्य सत्त्वात्ताभ्यां ग्रख्य. योरन्य तरस्य विधानाद्विनसेत्यस्योपपत्त्यसम्भवादुक्तप्रयोगघटितस्य भट्टिरद्यस्य कथमुपपत्तिरित्याशयेनाशंकते-कथं तर्हि विनसा हतवान्धवेति भट्टिरिति । समाधतेविगतयेति । एवञ्च विनसेति पदन्नस्सूत्रेण नसादेशेन तृतीयान्तमिति न कश्चिद्दोष इति भावः ॥ इनः स्त्रियाम् । इनः प्रत्ययत्वेन ( प्रत्ययग्रहण ) परिभाषया तदन्तविधौ स्त्रियां विद्यमानादिन्नन्तबहुव्रीहेः कबित्यर्थः । तथाच उक्तपरिभाषया दण्डिन्नित्यस्यैवेन्नन्तत्वाद्वहुदण्डिन्नित्यस्य तत्त्वाऽभावात्कप न स्यादित्यत आह-अनिनस्मन्ग्रहणान्यर्थवताचाऽनर्थकन च तदन्तविधि प्रयोजयन्तीति ॥ इति बहुव्रीहिः ॥ अथ दन्दसमासप्रकरणम् । चार्थे द्वन्द्वः । 'अनेकमन्यपदार्थे' इत्यतोऽनेकमित्यस्यानुवृत्त्या चस्याऽर्थे विद्यमा. नानामनेकप्रथमान्तानां द्वन्द्वसमासो भवतीत्यर्थः । उक्तसूत्रादनुवृत्तस्थाऽनेकमित्यस्य स्रग वारपदं होतृपोत्नेष्टोद्गातार इत्यादौ यथायथं समासान्तस्याऽनङश्च मध्ये प्रवृत्तिरन्ते एव प्रवृत्तिश्च फलम्बोध्यम् । अत्र केचित् । चैत्रेण मैत्रेण च कृतमिति वाक्येऽवयवकर्तृत्वस्यैव प्रतीत्या चैत्रमैत्राभ्यां कृतमिति समासे समुदायकर्तृत्वस्यैव प्रतीत्या चैत्रेण मैत्रेण च कृतमिति वाक्यस्य समाससमानार्थकत्वाऽभावेन चैत्रेण मैत्रेणेत्यस्य चैत्रमैत्राश्यामिति समुदायसाधुत्वप्रयोजकवाक्यत्वाऽभावात्प्रथमान्तानामेव द्वन्द्वो नतु परिनिष्ठितविभक्त्यन्तानामिति । वाक्यस्य समुदायसाधुत्वप्रयोजकत्वाऽभावादेव (यदग्नये च प्रजापतये चे)त्यादौ व्यस्ते Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280