Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 216
________________ फक्किकारत्नमञ्जूषा। अथैकशेषसमासकप्रकरणम् । ननु एकशेषस्य द्वन्द्वापवाइसङ्गत्यर्थमेतदुत्त रमेक शेषारम्भं प्रदर्शपति-प्रथैक रोष इति । नचाऽपवादस्याऽपि सङ्गतित्वे, सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा । निर्वाहकैकार्य्यत्वे, पोढा सङ्गतिरिष्यते ॥ इत्यनेन पोढात्वकथनस्य विरुद्धत्वमिति वाच्यम् । अपवादेत्यनेनाऽपि अपवाद्याअपवादकभावरूपप्रसङ्गनिर्वाहकसम्बन्धस्य सूचनेनाऽविरोधात् ॥ वृद्धो यूना तल्लक्षणश्चेदिति । अत्र सूत्रे वृद्धपदेन अपत्यमन्तर्हितं वृद्धमिति पूर्वाचार्य्यपरिभाषितस्य पणिन्युक्तगोत्राऽपरपर्यायस्य ग्रहणम् । नच वृद्धपदेनेदृशस्य ग्रहणे किं प्रमाणमिति वाच्यम् । कृत्रिमेन यूना साहचर्य्यस्यैव चात्र प्रमाणत्वादित्यत एवाह मूले-गोत्रं शिष्यत इति । गोयुवप्रत्ययमात्रेति । अत्र प्रत्ययपदस्य प्रतीति. परत्वाद्गोत्रयुबत्वप्रतीतिमात्रेत्यर्थः । तेन गर्गाश्च गाायणाश्च गर्गा इत्यस्य सिद्धिः । एवशब्दार्थो मात्रं, तेन प्रत्ययार्थकृत्स्नादेः प्रकृत्यर्थस्य च प्रतीतेर्व्यवच्छेदादाह-कृत्स्नमिति । एतदेव विकारलभ्यन्तस्कृत एव विशेषश्चेन्नतु तत्कृतातिरिक्ति इत्यर्थः । सूत्रे तल्ल. क्षणः किमित्यस्य तल्लक्षण एव किमित्यर्थः । प्रत्युदाहरति-भागवित्तिभागवित्तिकाविति । भागवित्तस्य गोत्राऽपत्यं भागवित्तिः । अस्मादपल्येऽथें इज यनि अर्थे 'वृद्धादडक् सौवीरेषु बहुलमिति कुल्लाया टकि, तस्य कादेशे द्वितीयस्य सिद्धिः अत्र कुल्लासौ. वीरत्वयोरधिकयोरपेक्षणायुवत्वमात्रकृतवैरूप्याऽभावाच्चैकशेष इति बोध्यम् । कृत्स्नं कि. मिति । एवकारेण प्रकृत्यर्थस्यापि व्यावृत्तिः किमर्थेति प्रश्नः । उत्तरयति-गर्गवात्स्या. यनाविति । अत्र प्रकृत्यंशे वैरुप्यं न गोत्रादिकृतमिति नैकशेषः । तल्लक्षणविशेष इत्येव सामर्थ्यात्तल्लक्षण एवेति लाभे स्पष्टार्थमेवकारग्रहणिमति बोध्यम् ॥ नपुंसकमनपंसकेनैकवच्चेति । नन्वानन्तार्थकचशब्दबलाच्च सूत्रघटकस्याऽन्यरस्यामित्यस्यैकवच्चेत्यनेनैव सम्बन्धो नत्वेकशेषेणेत्यत आह-तच्चैकवद्वेति । श्रन. पंसकेनेति किमिति । एतद्ग्रहणाभावे नपुंसकेनापि द्वन्द्वे एक शेषापत्तिः । शुक्लञ्च, शुक्लञ्च, शुक्ले इति । ननु 'नपुंसकमनपंसकेनैकवच्वास्याऽन्यतरस्यामित्येवं सूत्र. करणेऽपि यत्राऽनेनैवशेषस्तत्रैकवद्भावो भविष्यतीति प्रकृतसूत्रेऽस्य ग्रहणं व्यर्थमिति चेन्न । अनसकेन सहोक्तो नपुंसकस्यैकशेषस्तस्यैवैकवद्भाव इति बोधनार्थ. न्तस्याऽऽवश्यकत्वेन सार्थक्यात् । तेन नाऽन्यसूत्राणां समाहारद्वन्द्वविषये प्रवृत्तिरिति बो. ध्यम् । ननु 'सरूपाणामि' ति सुत्रस्य तर्हि समाहारविवक्षायामप्राप्त्याऽपवादाऽभावाद् घटघटमिति समाहारविवक्षायान्द्वन्द्वः प्राप्नोतीति चेन्न । अनभिधानाद्वघटमिति द्व. न्द्वाऽप्राप्तेः । एकशेषविषये घट्वटमिति द्वन्द्वव्यावृत्त्यर्थमनभिधानस्याऽऽवश्यकत्वाद् द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्यैकशब्दस्याऽनेकार्थत्वाञ्चाश्रित्य प्रत्याख्यातमेकशेष. प्रकरणम्भाष्ये । एकशब्दस्यानेकार्थत्वाऽभावे एकशेषाऽऽरम्भेऽपि गाग्र्यावित्यतो गाग्र्या. यणस्य बोधो न स्यात्तस्य तदर्थकत्वाऽभावात् । शुक्लञ्च शुक्ला च शुक्लश्चेति विग्रह शु. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280