Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 214
________________ ६८ फक्किकारत्नमञ्जूषा। प्रत्येकं देवतात्वप्रतीतिः । अग्नीषोमाभ्यामित्यादौ समुदाये देवतात्वप्रतीतिरिति व्यवस्था सिद्धयति । वाक्यस्याऽपि समुदायसाधुत्वप्रयोजकत्वे तु समास इव वाक्येऽपि स. मुदाये देवतात्वप्रतीतिरेव स्यात् । अत एव (डिसम्बुद्धयोरनुत्तरपदे ) इति वात्तिके सम्बुद्धिग्रहणमिहाऽनावश्यकं राजवृन्दारकेत्यादौ सम्बुद्धयन्तानां समासः, इह तावत्समाससमानार्थकेन वाक्येन भवितव्यम् । यश्चेहार्थो वाक्येन गम्यते नासौ कदाचित्समासेन गम्यते अवयवसम्बोधनं वाक्येन गम्यते समुदायसम्बोधनं समासेनेति 'न डिसम्बुद्धयोरिशति सुत्रे भाष्ये उक्तम् । सम्बोधनविभक्त्यन्तस्य सम्मुखीभावफलकत्वात्प्रत्येकमेव सम्मुखीभावप्रतीत्या क्रियाऽन्वयेऽभावेन परस्परमसामर्थ्यमिति तदाशयः । यदा समानाऽधिकरणस्थलेऽपि न समासस्तदा व्यधिकरणानां सुतरां न द्वन्द्व इति परिनिष्ठतविभक्त्या समासेऽपि राजपुरोहिताविति द्वन्द्वोदाहरणम् । एवञ्च व्यधिकरणतृतीयाऽद्यन्तानामपि क्रियादावेवाऽन्वयेन क्रियाजनकत्वरूपकारकत्वस्य प्रत्येकमेव बोधान्न वाक्यसमासयोस्तुल्यार्थत्वमित्यलम् ॥ मिलितानामन्वय इतरेतरयोग इति । परस्पराऽपेक्षाणामुभूताऽवयभेदसमूहरूपाणामेकस्मिन्धर्मावच्छिन्नेनाऽन्वय इति तदर्थः । तेन नीधातोःसंयोगजनकव्यापारा. ऽनुकूलव्यापारवाचकत्वेन द्विकर्मकत्वेऽपि अजां ग्रामं नयतीत्यादौ नाऽपि चकारप्रयोगो नाऽपि समास एकधर्मावच्छिन्नेऽन्वयाऽभावात । (१)अत एवाऽत्राऽनेकवकारप्रयोगः । यत्र मिलितानामन्वयस्तत्रेतरेतरयोगस्तादृशसमूहश्चार्थ इत्यन्वयः । समूहे उद्भूताऽवयवभेदत्वञ्च, अवयवगतसंख्यारोपवत्त्वं प्रत्यवयवं समूहरूपत्वाऽऽरोपो वा । समूह इति । अनुभुताऽवयवभेदः समूह इत्यर्थः । तत्रेतरेतरयोगे उद्भूताऽवयभेदसमूहस्य प्रतीत्या प्रवृत्तिधर्मरूपमेव प्रवृत्तिनिमित्तम् । समाहारे तु अतिरिक्तत्वेनैव समूहत्वभानात्समृहत्वं प्रवृत्तिनिमित्तमिति विशेषः । ईश्वरं गुरुञ्च भजस्वेत्यादौ न समास असा. मर्थ्यादिति । अनेक सुबन्तानां चार्थे वृत्यभावेनैकार्थीभावरूपसामर्थ्याऽभावादित्यर्थः । समुच्चयस्थले च समभिव्याहृतस्यैकस्य सुबन्तस्य चार्थे वृत्तावपि अपरस्य चार्थे वृत्त्यभावः। अन्वाचये तु उभयोरपि चार्थे वृत्त्यभाव इति भावः ॥ ननु उद्भताऽवयवभेदविवक्षणे इतरेतरयोगद्वन्द्वे द्विवचनबहुवचनस्य, अनुभुताऽवय. वभेदविक्षणे समाहारद्वन्द्वे समुदायगतैकत्वादेकवचनस्य चोपपत्तावेकवद्भाव विधायकप्रकरणमन्तरापीति व्यर्थमेवैतत्प्रकरणम् । इतरेतरयोगद्वन्द्वे नेष्ट एकवद्भावो लक्ष्यानुरोधादिति चेन्न । प्राण्यङ्गादीनां समाहार एव नेतरेतरयोग इति नियमार्थत्वेन सार्थक्यात् । तथा च नैतेभ्यो बहुवचन द्विवचनापत्तिरुद्भुताऽवयवभेदविवक्षयेति बोध्यम् । (तिष्यपुनर्वस्वोनक्षत्रद्वन्द्वे ) इति विपरीतनियमो नाऽऽशनीयः । तथा हि एकवचनस्य द्विवचनाऽभावो बहुवचनग्रहणप्रयोजनम् । विपरीतनियमे तु प्राण्यङ्गाद्यतिरिक्तस्य समाहारत्वाऽभावादेकवचनाऽनुत्पत्या बहुवचनस्यैव द्विवचनसिद्धौ पुनर्बहुवचनग्रहणं व्यर्थमेव स्यादित्यभिप्रायेणाशंक्य समाधानमाह-समाहारस्यैकन्वादेकत्वे सिधे नियमार्थ प्रकरणमिति । नियमस्तूपरिष्टादुक्त एवेति बोध्यमित्यलम् ॥ ( १ ) अत एव परस्पराऽपेक्षासत्वादेवेत्यर्थः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280