Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 215
________________ द्वन्द्वसमासप्रकरणम् । ननु 'विभाषा वृक्षमृगे तिसूत्रेऽप्राणिनो ग्रहणं व्यर्थमिति चेन्न । तस्य 'जातिरप्रा. णिनामि ति सूत्रप्राप्तनित्यद्वन्द्वस्य विकल्पविधानेन सार्थक्यादित्याह-विभाषावृक्ष इति सूत्र इति । __ ननु विभाषा वृक्षमृगेति सूत्रे पशुग्रहणाऽभावे हस्त्यश्वादीनां सेनाङ्गत्वेन 'द्वन्द्वश्वप्रा. णितूर्यसेनाङ्गानामि'त्यनेन नित्यद्वन्द्वो दुर्वारः स्यादित्यत आह-हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते पशुग्रहणं विकल्पार्थमिति ॥ ननु उद्भतावयवभेदविवक्षाऽनुद्भूतावयवभेदविवक्षाभ्यां रुरुपृषतम् रुरुपृषताः शुकबकम् शुकबका इत्यत्र (चाथै द्वन्द्वः) इत्यनेनैव द्वन्द्वसिद्धौ विभाषावृक्षमृगेतिसूत्रे मृगशकुनिग्रहणं व्यर्थमिति चेन्न । तस्य नियमार्थत्वेन सार्थक्यात् सचेत्थं नियमः, मृगाणां मृगैरेव द्वन्द्वः, शकुनीनां रेवेति । अन्यैस्तु सहेतरेतरयोग एवेत्याह-मृगाणां मृगैरे. वेत्यादि । अश्ववडवग्रहणं तु पक्षे नपुसकत्वार्थमिति । अश्ववडवयोः पशुत्वाविकल्पसिद्धौ तयोर्ग्रहणं प्रतिपद्विधानार्थम् । तथा च, अश्ववडवमित्येकवद्भावपक्षे 'पूर्ववदश्ववडवौ' इत्येतत्सूत्रं बाधित्वा 'स नपुंसकमित्येव भवतीति भावः ॥ ___ ननु 'विप्रतिषिद्धं चानधिकरणवाची ति सूत्रं व्यर्थम् , उद्भूतावयवभेदविवक्षया इत. रेतरयोगद्वन्द्वे द्विवचनादेः, अनुभूतावयवभेदविवक्षया समाहारद्वन्द्वे एकवचनस्य च वचनमन्तराऽप्युपपत्तेरिति चेन्न । विरुद्धार्थानां द्वन्द्वस्यैकंवभावश्चेद्व्यवाचिनामेवेति नियमार्थत्वेन तस्य सार्थक्यादित्याह-वैकल्पिकः समाहार इत्यादि । नियमफलञ्च, शीतोष्णे उदके स्त इत्यत्र द्रव्यवाचित्वादितरेतरयोग एवेति भावः ॥ विप्रतिषिद्धं किमिति । एतदग्रहणे अद्रव्यवाचिनामेवद्वन्द्व एकवद्वेति सामान्यतो नियमेऽविरुद्धार्थयोर्द्रव्यवाचिनोरेकवद्भावाविधानान्नन्दकपाञ्चजन्यावित्येव स्यान्नतु नन्दकपाञ्चजन्यमित्यतस्तद्ग्रहणमित्याशयेनाह-इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति । अनधिकरणवाचीत्यस्याग्रहणे शीतोष्णे उदके स्त इत्यत्र पाक्षिकसमाहारद्वन्द्वस्याऽनिष्टस्यापत्तिरिति भावः । नन् 'आनङ ऋतो द्वन्द्वे' इत्यस्य लक्ष्याऽनुरोधेन ऋदन्तानां द्वन्द्वे ऋदन्तस्य पूर्वस्याऽऽनङ् स्यादृदन्त उत्तरपद इत्यर्थस्वीकारे पिता बावित्यत्राऽऽनङ् न स्याह. न्तानां द्वन्द्वाऽभावादृदन्तोत्तरपदपरत्वाऽभावाच्चेत्याशंक्य समाधत्ते-पुत्रेऽन्यतरस्यामित्यत इति । उक्तसूत्रात्पुत्र इत्यस्य मण्डूकप्लुत्याऽनुवर्त्तनेन वाक्यभेदाश्रयणेन ऋद. न्तानां द्वन्दवे ऋदन्तस्य पूर्वस्याऽऽनङ् ऋदन्ते उत्तरपदे अन्दन्तस्य पूर्वस्याऽऽनङ पुत्रशब्दे इति द्विधार्थकरणान्नोक्तस्थलीया काचिदनुपपत्तिरिति दिक । ननु 'आनङ् ऋतो द्वन्द्वे' इत्यतो द्वन्द्वपदानुवृत्यैव सिद्धौ पुनः ‘देवता द्वन्द्वेचे'त्यत्र द्वन्द्वग्रहणम्व्यर्थमित्यत आह-पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहर्चयस्य परिग्रहार्थमिति। येषां सहचरणं प्रसिद्धन्तेषामेव द्वन्द्वे आनकुन्तरपदे इत्येतदर्थन्द्वन्द्वग्रहणं तेन ब्रह्मा च प्रजापतिश्चेति विग्रहे ब्रह्मप्रजापतीत्यादावानङ् न । एतयोरेकहविर्भागित्वेन सहचरणं न दृष्टं श्रुतञ्चेति भावः ॥ इति द्वन्द्वः ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280