Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 224
________________ फक्किकारलमञ्जूषा । प्रयोजनमिति । उक्ततत्तत्प्रकृत्यर्थान्विताऽपत्याद्यर्थस्यैवोक्तत्वादुपग्वादेस्तद्भिन्नत्वेन शेषत्वात्तत्रापवादप्रवृतिरस्त्येवेति । तस्यापत्यमिति योगविभागे तु उपग्वपत्यत्वस्याऽनेनोक्तत्वाच्छेषत्वाऽभावेनाऽपवादस्य प्रसङ्ग एव नास्तीति अपवादाऽप्रवृत्तिरूपोऽपवादः । ननु उपग्वादेरवृद्धत्वेन वृद्धाद्विहितस्य छस्य स्वत एव प्रसंगो नास्तीत्याशङ्कायामाह - वृद्धाऽन्यस्य प्रयोजनमिति । भान्वादिवृद्धप्रातिपदिकेभ्यः छाऽभावः प्रयोजनमिति भावः ॥ .७८ ननु अन्तरङ्गत्वात्सन्धौ कृतायामेव प्रत्ययोत्पत्तिरिति व्यथं समर्थानाम्प्रथमाद्वेति सूत्रस्थं समर्थग्रहणमित्याशयेनाऽशङ्कते - कृतसन्धेः किमिति । समाधत्ते - श्रकृतव्यूहपरिभाषाया सावुत्थितिर्माभूदिति । अयम्भावः, तदसत्वे कृतसन्धिकार्यात्तद्वितप्रत्यय इत्यर्थाऽभावादुक्तपरिभाषया वृद्धौ सत्यामन्तरङ्गदीर्घस्य निमित्तविनाशसद्भावात्पूर्वमेतदप्रवृत्त्याऽनिष्टाऽऽपत्तिरिति तदावश्यकं तस्मिन्सति कृतसन्धेस्तद्धितोत्पत्त्या सुतरामिष्टसिद्धिरिति । समर्थग्रहणेन ज्ञापितेयम्परिभाषेति हरदत्तप्रभृतयःः । लोकतः सिद्वेति केचित् ॥ ननु 'तस्यापत्यमित्यत्र निर्दिष्टस्य पदद्वयस्य मध्ये प्राथमिकस्यैव प्रकृतिसमर्थकत्वेनाऽपत्यस्याऽतत्त्वात्प्रकृत्याकाङ्क्षायाम्प्राथमिकस्यैव ग्रहणेन प्रथमादिति व्यर्थमित्याशयेनाऽऽशङ्कते - प्रथमात्किमिति । समाधत्ते - श्रपत्यवाचकादिति । अयम्भावः, प्रथमादित्यस्याsसत्त्वे यथा तस्याऽपत्यमित्यादिसूत्रविहितप्रत्ययस्य षष्ठ्यन्तादभ्युपगतिस्तथैवाऽपत्त्यवाचकदेवदत्तादिशब्दात्प्रत्ययः स्यादिति शंका स्यादिति तद्वयावृत्यर्थं प्रथमादित्यावश्यकमिति । ननु, यद्यपि उपगोरपत्यमिति विग्रहवाक्येऽपत्यवाचकस्य देवदतादेरप्राथम्यान्न ततः प्रत्ययापत्तिस्तथापि अपत्यमुपगोरिति वाक्ये तस्य प्राथम्येनोक्तापत्तिस्तदवस्थैवेति चेन्न । पूर्वसूत्रादनुवृत्तस्य समर्थादित्यस्य सामर्थ्यान्नियतत्वादत्र लक्षणाsपेक्षस्यैव प्राथम्यस्य ग्रहणाद्विग्रहवाक्यापेक्षस्य तस्याऽनियतत्वादग्रहणेनाऽदोपात् । षष्ठ्यर्थे माभदिति । इन्द्रो देवताऽस्य हविष इति विग्रहे ऐन्द्रं हविरिति प्रथमान्तात्प्रत्ययोत्पत्तिवत्, उपगुरपत्यमस्य देवदत्तस्येति विग्रहे औपगवो देवदत्त इति भवतु परं देवदत्तोऽपत्यमस्योपगोरिति विग्रहे दैवदत्तिरुपगुरिति माभूदित्यर्थः । ननु तद्धितस्याऽपवादत्वान्नित्यं समासबाधकत्वम् । नच तद्धितस्य विकल्पतया पक्षे समासस्याऽपि सम्भवाद्वाधकत्वकथनं न युक्तमिति वाच्यम् । 'पारे मध्ये षष्ट्या वा इत्यत्रत्यवाग्रहणज्ञापितस्य यत्रोत्सर्गापवादौ महाविभाषा विकल्पते तत्राऽऽपवादविनिमुक्तोत्सर्गस्याऽप्रवृत्तिरित्यस्य सच्चात्पक्षे समासाऽप्राप्तेरित्याह - दैवयज्ञि इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपीति ॥ श्रपत्यं पौत्रप्रभृतिगोत्रम् । ननु पौत्रादेरपत्यत्वाऽव्यभिचारादपत्यग्रहणमन्तरा - ऽप्यपत्यरूपपौत्रादेर्गोत्र संज्ञा स्यादेवेति व्यर्थमपत्यग्रहणमित्यत आह - श्रपत्यत्वेन वि वक्षितमिति । पौत्रादीनामपत्यत्वेन विवक्षायामेव गोत्रसंज्ञा स्यात्पौत्रत्वादिना विवक्षायां सा माभूदित्यर्थमपत्यग्रहणम् । तेन औपगव इत्यादावप्यणो गोत्रसंज्ञासिद्धिः । अणोऽपत्यत्वमेव शक्यतावच्छेदकन्नतु पौत्रत्वादिकम् । इतरथा गोत्राऽधिकारस्थायजाद्य. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280