Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 223
________________ तद्धितप्रकरणम् । अर्थप्रतिपादकत्वम् । तच्च परिनिष्ठितस्यैव सम्भवतीत्यत आह-कृतसन्धिकार्यमिति । नहि 'म उत्थित' इत्यस्य कल्पनयाऽप्यर्थवत्त्वम् । सूत्रे समर्थानामिति निर्धारणे पष्टी समर्थानाम्मध्ये प्रथमादित्यर्थः । प्रथमत्वञ्च तत्तत्सूत्रेषु प्रथमोच्चारितशब्दप्रतिपाद्यत्वमेव । एवञ्चानेकसमर्थसम्भव एवाऽस्य सम्बन्ध इति ॥ तस्यापत्यम् । तस्येति न स्वरूपग्रहणं किन्तु षष्ट्यन्तमात्रोपलक्षणमित्यत आहषष्ठ्यन्तादिति । पञ्चम्यर्थस्याऽध्याहारः । अथवा अनुकरणात्पञ्चम्याः सौत्रो लुगिति बोध्यम् ॥ ___ ननु उपगु अ इति स्थितौ गुणादेशस्य पितृव्यादौ साऽवकाशत्वात् 'ओर्गुणः' इत्येतं बधित्वा परत्वात् 'अचोणिति' इति वृद्धिप्रसङ्गः । गुणे च कृतेऽवादेशे च 'अत उपधायाः' इति वृद्धिप्रसङ्गश्च स्यादित्यत आह-आदिवृद्धिरन्त्योपधावृद्धी बाधत इति । 'तद्धितेष्वचामादेः' इदं सुत्रमुक्तसूत्राभ्यां परमिति परत्वात्तयोरनेन बाधः । अन्त्योपधावृद्धयोः, गौः, पाचकः, इत्यादाववकाशः । आदिवृद्धस्तु सौश्रुतः इत्यादाववकाशः । औपगवः; त्वाष्ट्रो जागत इत्यादावुभयप्राप्तौ परत्वादादिवृद्धिरेवेति भावः । नचादिवृद्धया परत्वादन्त्योपधावृद्धयोर्बाधेऽपि (पुनः प्रसङ्गविज्ञानात्सिद्धम्) इति न्यायेन पुनः कुतो न ते इति वाच्यम् । अत्र लक्ष्याऽनुरोधात् (सकृद्गतौ विप्रतिषेधेन यद्वाधितं तद्बाधितमेवे)त्यस्यैवाऽऽश्रयणात् । अनुशतिकादिगणे पुष्करसच्छब्दपाठस्योक्तार्थे ज्ञापकत्वं बोध्यम् । तथाहि, पुष्करसच्छब्दात्पौष्करसादिरित्यस्य सिद्धयर्थमनुशतिकादिपूक्तशब्दपाटः । आधुपधावृद्धिभ्यामुक्तप्रयोगसिद्धावुक्तगणे उक्तशब्दपाठो व्यर्थीभूतो ज्ञापयति, आदिवृद्धिरिति । तथा च, आदिवृद्धयोपधावृद्धेर्बाधादुक्तप्रयोगाऽसिद्धथा तदर्थमुक्तगणे तत्पाठस्याऽऽवश्यकत्वेन स्वांशे चारिताथ्यं जातम् । न च पुष्करसदा चरतीत्यर्थं ठकि पौष्करसादिक इत्येतत्प्रयोगसिद्धयर्थमनुशतिकादिषूक्तशब्दपाठस्याऽऽवश्यकत्वम् । न चोपधाद्धयैवोक्तप्रयोगसिद्धा तत्र पाठा व्यर्थ एवेति वाच्यम् । उपधावृद्धेनिणित्येव विधानादिति वाच्यम् । पुष्करसच्छब्दाठोऽनभिधानात् । उक्तज्ञापकेन सत्यपि सम्भवे बाधनं भवतीत्यवश्यमाश्रयणीयम्भवतीति बोध्यम् । ननूक्तज्ञापनेऽपि जागत इत्यादावुपधावृद्धेर्बाधोऽस्तु, औपगव इत्यत्रादिवृद्धिप्रवृत्त्यवसरे उपधावृद्धय प्राप्त्या कथन्तद्वाध इति चेन्न । जागत इत्यादावुपधावृद्धिबाधस्य निर्णये जाते कुत्र चित्कालान्तरप्राप्याया अप्युक्तवृद्धर्बाधस्य समुचितत्वादिति भावः । ननु इदमर्थेऽपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि तस्येदमिातिसूत्रेणाऽण: सिद्वौ किमर्थ 'तस्याऽपत्यमिति सूत्रम् । नचास्य 'अत इञ्' इत्याद्यर्थमावश्यकमिति वाच्यम् । तस्य तदर्थकत्वेनाऽऽवश्यकत्वेऽपि तत्रैव पाठस्य युक्ततया योगविभागस्य नैरर्थक्यादित्याशय समाधत्ते-तस्येदमित्यपत्येऽपि बाधनार्थं कृतम्भवेदिति । तस्येदमित्येतद्वाधकस्य 'वृद्धाच्छः' इति सूत्रस्य बाधनाथं तस्याऽपत्यमिति पृथक्कृतमिति तनावः । ननु अपत्यचतुर्थीपर्यन्तेभ्योऽन्योऽर्थः शेष इति स्वीकारेण तस्येदमित्येतत्सूत्रविहितस्याऽण: 'वृद्धाच्छः' इत्येतद्विहितस्य छस्य च शैषिकत्वादपत्यार्थे प्रवृत्त्यभावाकथन्तद्वाधनार्थत्वं योगविभागस्येत्यत आह-उत्सर्गः शेष एवाऽसौ वृद्धाऽन्यस्य Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280