Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras
View full book text
________________
फक्किकारत्नमञ्जूषा।
स्यादिति वाच्यम् । तस्य ह्रस्वस्य वैकल्पिकत्वेन पक्षे सावकाशत्वात् । एवञ्च हस्वापत्तिस्तदवस्थैवेत्यत आह-व्यवस्थितविभाषया हस्वो नेति । इति प्राञ्चः ।
शेखरकृतस्तु-ग्रामणिकुलमित्यत्र ह्रस्वस्याऽवकाशः, हस्वस्य वैकल्पिकत्वादेतद. भावे कौमुदगन्धीपुत्र इत्यत्र सम्प्रसारणस्य सावकाशस्ततो हस्वप्रसंगे उभयप्राप्तौ परत्वा. सम्प्रसारणदीर्घत्वमेवेति भाष्ये स्पष्टमित्याहुः ।
ननु प्यडः प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषया तदादिपदोपस्थितौ पूर्वपदरूपविशेष्यान्तरसभावात्तदादिविशेष्यकतदन्तविध्यभावे पूर्वपदविशेष्यकतदन्तविधौ तदादेर्भेदसम्बन्धेन तदन्तेऽन्वये तदाधभिन्न यत्ष्यङन्तं पूर्वपदं तस्य सम्प्रसारणमिति सम्प्रसारणविधाकस्य व्यङः सम्प्रसारणं पुत्रपत्योरित्यस्याऽर्थे परमकारीषगन्ध्येत्यस्य व्यङन्तपूर्वपदत्वस्य सत्त्वे. ऽपि यस्मात् ष्यङ् विहितस्तदादित्वाऽभावात्सम्प्रसारणं न स्यादित्यत आह-स्त्रीप्रत्यये चानुपसर्जने नेति । कोऽअर्थस्तावदस्याः परिभाषाया इति पूर्वपक्षे प्रक्रान्तेऽत्र श्रीमदगुरवः । लक्ष्येऽनुपसर्जनस्त्रीप्रत्ययस्य सद्भावेऽपि तत्र तदादेरप्रसंगेन उत्सर्गापवादयोः समानदेशत्व गेन च अनुपसर्जने स्त्रीप्रत्यये न तदादिविधिरिति न तावदेतदर्थः । सम्प्रसारणविधायकशास्त्रघटकष्यपदस्याऽनुपसर्जनपरमकारीषगंध्याघटकष्यबोधकत्वात्तदादिनियमाऽभावे व्यङन्तपूर्वपदस्य सम्प्रसारणमित्यर्थेऽतिकारीषगन्ध्या पुत्र इत्यत्रापि सम्प्रसारणस्य दुर्वारत्वेन, उक्तसुत्रघटकस्य व्यङ्पदस्योपसर्जनस्याऽपि बोधकत्वानिषेधाऽप्रवृत्या तदादिनियमेन परमकारीषगन्धीपुत्र इत्यत्रापि सम्प्रसारणाऽप्रसंगेन च, प्रत्यय. ग्रहणपरिभाषाऽपवादत्वादत्राऽपि ग्रहणपदसम्बन्धेनाऽनुपसर्जनस्त्रीप्रत्ययबोधके तत्पदवटितशास्त्रे तदादिविधिनेत्यर्थोऽपि नेति चेदुच्यते-ज्यङः सम्प्रसारणमिति सूत्रे प्यपदे आवृत्तिः, एक प्यपदमनुपसर्जनबोधकमपरमुपसर्जनबोधकम् । तत्राऽनुपसर्जनबोधके त. दादिनियमोऽनया वार्यते, ततश्चाऽनुपसर्जनष्यङन्तपूर्वपदस्य ह्रस्व इत्यर्थे परमकारीषगन्धीपुत्र इत्यत्र भवति सम्प्रसारणम् । उपसर्जनष्यङन्ततात्पर्य्यके व्यपदे तदादिनियमादुपसर्जनष्यङन्ततदादिपूर्वपदस्य ह्रस्व इत्यर्थेऽतिकारीपगन्ध्या पुत्र इत्यत्र पूर्वपदस्य त. दादित्वाऽभावादुपसर्जनवाक्यस्य प्यङ उपसर्जनत्वादनुपसर्जनवाक्यस्याऽप्रसङ्गाच्च नाऽतिप्रसङ्ग इत्याहुरित्यलम् ॥
समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु -उत्तरपदे समानस्य स आदेशः छन्दसि मूर्धादिरूपोत्तरपदे परे नाऽसाविति तदर्थः । ननु उत्तरपदशब्दस्य समासचरमावयवे रूढत्वात्पक्षादिशब्दानां समासचरमाऽवयवत्वाऽभावेन तद्रूपोत्तरपदे चादेशाऽप्राप्त्या सपक्षः साधर्म्यमित्यादि न स्यादित्यत आह-समानस्येतियोगो विभज्यते इति । अत्र योगविभागो भाष्ये नोपलभ्यत इत्यरुचेराह-अथवा सहशब्दः सदशवचनोऽप्यस्तीति । तथा च सहशब्देन समासे 'घोपसर्जनस्ये ति सादेश इति भावः ।। __ननु 'पुरगामिश्रकासिध्रकेति दीर्घनिर्देशेनाऽसंज्ञायां दीर्घाऽभावात्संज्ञायामेव णत्वमित्यस्य फलितत्वात् 'पूर्वपदात्संज्ञायामि'त्यनेनैव णत्वसिद्धौ पुनः कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वार्थनिर्देशो व्यर्थ इत्यत आह-तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थ इति । तथाचार्य नियमः, कृतदीर्धेभ्यः पुरगादिभ्य एव परस्य वनशब्दघट
Aho! Shrutgyanam

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280