Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 211
________________ बहुव्रीहिसमासप्रकरणम् । तत्पुरुषसमासप्रकरणस्थवात्तिकेन प्रगत आचार्य इत्यादौ प्रथमान्तस्य तत्पुरुषसमासविधानादिति चेन्न । उक्तवात्तिकेन प्रथमान्तेन प्रादीनामुक्तसमासविधानेऽपि प्रथमान्तस्योक्तसमासाविधानादिति भावः । नच कण्ठे काल इत्यादौ व्यधिकरणपदस्यापि बहुव्रीहिदर्शनात्प्रथमान्तस्यैवोक्तसमास इत्ययुक्तमिति वाच्यम् । तत्र तत्र ज्ञापकसाध्यबहुव्रीहेर्दृष्टत्वात् । अनेकमन्यपदार्थे । अन्यस्य समस्यमानपदातिरिक्तस्य पदस्यार्थोऽन्यपदार्थस्तत्र विद्यमानस्याऽनेकप्रथमान्तस्य वा समासः स च बहुव्रीहिसंज्ञक इत्यर्थः । अन्यपदार्थ इत्यत्राऽन्यपदं भेदविशिष्टार्थकं ततश्च भेदस्य प्रतियोगिनि साकाङ्कत्वाच्छेषपदोपस्थितस्य प्रतियोगित्वेन तत्राऽन्वयादिद्वतीयान्ताद्यर्थ इति लब्धम् । तथा च, स्वनिष्टप्रतियोगितानिरूपितभेदविशिष्टार्थकपदाथें विद्यमानस्याऽनेकप्रथमान्तस्य समास इति फलितार्थः ॥ अप्रथाविभक्तयर्थे बहुव्रीहिरिति । 'अनेकमन्यपदाथे इत्यनेकप्रथमान्तस्य समासविधानात्तत्राऽन्यपदार्थपदेन प्रथमान्तार्थातिरिक्तस्यैव ग्रहणं युक्तमित्येतत्फलितन्तदिति भावः ॥ समानाधिकरणानामिति च फलितमिति। समानाधिकरणत्वञ्च, एकार्थबोधजन. कत्वम् । अनेकप्रथमान्तस्थले अभेदाऽन्वयप्रयोजकीभूतसमानविभक्त्यन्तविशेष्यविशेषणवाचकपदसत्वादर्थादेव समानाधिकरणत्वोपपत्तिरिति तदाशयः । अनेकप्रथमान्तस्य समासविधानादेकप्रथमान्तस्य तदभाव इत्याह-प्रथमार्थे तु नेति । सूत्रे प्रथमान्तमित्यस्य फलमाह-पञ्चभिभुक्तमस्येति । । प्रादिभ्यो धातुजस्येति । प्रादिभ्यः परं यद्धातुजं पदं तदन्तस्य पदान्तरेण समासः पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य वा लोप इत्यर्थः। प्रपर्ण इत्युदाहरणम् ॥ ___ नमोऽस्त्यर्थानामिति । ननः प्ररं यदस्त्यर्थवाचि पदं तदन्तस्य पदान्तरेण बहुबीहिः, अस्त्यर्थवाचिनाम्पदानाम्वा लोप इत्यर्थः । अविद्यमानः पुत्रोऽपुत्र इत्युदाहरणम् । तत्राऽस्त्यर्थानामित्यस्याऽसत्वे अनुपनीतपुत्र इत्यत्रापिसमासोत्तरपदलोपयोरापत्तिरतस्तत् । नजोऽसत्वे निविद्यमानपुत्र इत्यत्राप्युक्तापत्तिः । नन्विह सुपेत्यस्याऽसम्बन्धेऽपि सबि. त्यस्य सम्बन्धादस्तीत्यस्य तिन्तत्वेन समासो न स्यादत आह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । अत्र केचित्-चित्रा जरती गौर्यस्येति विग्रहे सूत्रेऽने केतिपदसत्त्वेन त्रिपदबहुव्रीहिः तत्र सूत्रेणोत्तरपदे पुंवत्त्वविधानादुत्तरपदशब्दस्य समासस्य चरमावयवे रूढत्वेनोत्तरपदस्य मध्यमपदेन व्यवधानात्प्रथमस्य न पुंवद्भावः । गोरूपोत्तरपदे जरतीत्यस्य द्वितीयस्यापि न सः । पूर्वपदशब्दस्य प्रथमावयवे रूढत्वेन तस्य पूर्वपदत्वाऽभावात तथा च चित्राजरतीगुः । जातीचित्रागुर्वा । दीर्घातन्वीजधः । तन्वीदीर्घाजंघ इत्ये. वेत्याहुः। वस्तुतस्तु-यथा द्वन्द्वसमासप्रकरणस्थे 'आनङ् ऋतो द्वन्द्वे' अत्र सूत्रे ( होतोतृनेष्टोद्गातार) इति समर्थसूत्रस्थभाष्यप्रयोगान्न पूर्वपदाक्षेपः । अत एव भाष्यकृदुदाहृ. तस्य तृतीयस्यानङः सङ्गतिः । अन्यथा पूर्वपदशब्दस्य प्रथमावयवे रूढत्वात्तत्र तृतीयस्य पूर्वपदत्वाऽभावात्तदसंगतिः । तथैवाऽत्रापि पूर्वपदाक्षेपाऽऽभावेनोपान्त्यस्य पुंवत्वं स्यादेवेति चित्राजरद्गुरित्येव प्रयोगः । अत्र सूत्रे पूर्वपदसम्बन्धाऽभावादेव, चित्राजरत्यौ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280