Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 208
________________ ६२ फक्किकारलमञ्जूषा | इति । उक्तयुक्त्या गत्युपपदयोर्लाभः कारकांशस्य तु 'कर्तृकरणे कृता बहुलमिति सूत्रस्थबहुलग्रहणाल्लाभः । परिभाषाफलं प्रदर्शयन् गतिमुदाहरति - व्याघ्रीति । अत्र व्याङो प्रशब्देन गतिसमासः । अस्य समासस्य सुबन्तस्याऽपेक्षणे तु सुनुत्पत्यथं संख्याऽपेक्षणात्ततः पूर्वमेव लिङ्गयोगात्तन्निमित्तकप्रत्ययष्टावेव स्यान्नडीप् । अविभक्त्यन्तस्य शब्दमात्रस्य जातिवाचकत्वाऽभावेन च ङीप् न स्यादिति भावः । नच परिभाषाघटकांशत्रयस्य मध्ये गत्यंशोदारणस्योपपदत्वेन सिद्धत्वाद्वयर्थ एव स इति वाच्यम् । आङ उपपदत्वेन तस्य घ्रश. ब्देन समासेऽपि पश्चाद्विशब्देन समासार्थ गत्यंशस्याऽवश्यकत्वात् । आङः 'घ्रः संज्ञायामित्यनेनाङपूर्व कात घ्राधातोः कप्रत्ययविधानादाङ उपपदत्वं न विशब्दस्येति भावः । कारकमुदाहरति- अश्व क्रीतीति । अत्राश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता बहुलमित्यनेन समासः । ' क्रीतात्करणपूर्वादिति ङीप् । सुबन्तेन सति समासे पूर्वोक्तयुक्त्या टाप्यदन्तत्वाभावान्नासाविति भावः । उपपदमुदाहरति - कच्छपीति । कच्छेन बिपतीति विग्रहे 'सुपीति योगविभागात्कः । अत्राऽपि सुबन्तेन समासे व्याघ्रीत्यत्रेव ङीष् न स्यादिति भावः । कच्छेन साधनेन पिबतीत्यर्थे कच्छस्य कारकत्वादस्यैवोदाहरणमिदं नोपपदस्य तथा च माषवापिणीत्यस्योदाहरणम् । अन माषोपपदाद्वपधातोः 'सुप्यजाताविति णिनिः । ततो माषोपपदस्य कृदन्तेन समासे 'प्रातिपदिकान्तनुविभक्तिg चे 'ति सूत्रेण पूर्वपदस्थनिमित्तात्परस्य समासप्रातिपदिकान्तनकारस्य णत्वसिद्धि:, सुबन्तेन समासे तु अन्तरं गत्वान्नान्तलक्षणडीपो दुर्वारतया ततो वापिनीशब्देन समासे गर्ग भगिनीत्यत्रेव णत्वानापत्तिरित्येके । कच्छेत्यस्य कारकत्वाऽभावाद्युक्तमेवोदाहरणमुपपदस्येत्यन्ये इति दिक् ॥ श्रष्टखोरेव । द्र्यहीन इति । द्वे अहनी मृतः क्रतुरिति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे चे’त्यनेन तद्धितार्थं द्विगौ तमधीष्ट इत्यधिकारे द्विगोर्वेत्यनुवर्त्तने 'रात्र्यहः सम्वत्सराच्चेत्यनेन खे तस्मिन् 'अक्षष्टखोरेवेत्यनेन टिलोपे खस्येनादेशे चोक्तरूपसिद्धिः । ननु खस्य टिलोपमात्र फलकत्वाऽभ्युपगमे तत्र तद्धितार्थे द्विगौ विहितेन टचैव टिलोपसद्वौ ग्रहणं व्यर्थमिति चेन्न । समासान्तविधेरनित्यत्वेन टचोऽप्रवृत्त्या खग्रहणस्य सार्थक्यात् । समासान्तविधेरनित्यत्वादेव द्विगोर्वेत्यनुवर्त्तमाने रात्र्यहः सम्वत्सराच्चेत्यस्य चारितार्थ्यम् । नच 'अह्नष्टखो:' इत्यनेन खे परे टिलोपविधानसामर्थ्यादेव समासान्तविवेष्टचोऽप्रवृत्तौ तस्याऽनित्यत्वपर्यन्तानुधावनं खपुष्पग्रहणवन्निष्फलमिति वाच्यम् । अहीन इत्यत्र खे टिलोपविधानेन अह्नष्टखोरित्यस्य सार्थक्यात्सामर्थ्याऽभावेन समासान्ताऽभावाऽसाधकत्वेनोक्तविधेरनित्यत्वमन्तरा टचो दुर्वारतयोक्तविधेरनित्वपर्यन्ताऽनुधावनस्य साफल्यात् । नच टचि को दोष इति वाच्यम् । 'अहोऽह्न एतेभ्यः' इत्यनेन द्वयहीन इत्यस्याऽङ्कादेशेनाऽसिद्धयापत्तेः । नच प्रमाणाऽभावात्समासान्तविधेरनित्यत्वं न स्यादिति वाच्यम् । अश्वादिगणे राजञ्छब्दपाठस्यैव तत्र प्रमाणत्वात् । तथाहि, प्रतेरंश्वादयस्तत्पुरुषे' इत्यनेनाऽन्तोदात्तार्थमश्वादिगणे राजञ्छब्दपाठः सचायं समासान्तविधेरनित्यत्वे सत्येव सफलः, अन्यथा टचैवान्तोदात्तत्वसिद्धौ तदर्थं कृतस्याश्वादिगणे राजञ्छब्दपाटस्य वैयर्थ्यापुज्ञेरित्यलम् । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280