________________
हलन्तपुंल्लिङ्गप्रकरणम्। कृते सामर्थ्यात्पूर्व दीर्घप्रवृत्तिरेव कल्प्यत इति भावः । . ननु ( एकानुबन्धकग्रहणे न द्वयनुबन्धकग्रहणमि )ति परिभाषयाऽतुपदेन मतुपोऽग्रहगाद्धीमानित्यादौ 'अत्वसन्तस्येति दी? न स्यात् । न च सूत्राऽऽरम्भसामर्थ्यादीर्घः स्यादेवेति वाच्यम् । अनुनासिकोकारविशिष्टे भवतुशन्दे सूत्रस्य चारितार्थ्यादिति चेन्न । पकारस्य समुदायाऽनुबन्धत्वेऽप्यतुमात्रस्य द्वयनुबन्धाऽभावात । अतु इति लुप्तषष्ठयन्तं पृथक् पदं तथाचाऽधातोरित्यसन्तस्यैव विशेषणं नत्वत्वन्तस्य, तु शब्दादित्यभिप्रायेणाहधातोरप्यत्वन्तस्य दीर्घ इति ॥
ननु 'उगिदचामिति सूत्रेधातोरित्यस्य सत्त्वेन धातोर्नुमोऽप्राप्त्या क्यजन्तादिगो. मच्छब्दस्य धातुत्वाऽभावान्नुम्नस्यादित्यत आह-उगिदचामिति सूत्रेऽजाहणं नियमार्थमिति । अयमाशयः, अञ्चतेरुगित्वादेव नुमि सिद्धेऽग्रहणसामर्यादातोश्चे. दुगित्कार्य वञ्चतेरेवेति नियमादन्यधातोर्नुमोऽप्राप्त्या तव्यावृत्त्यर्थ कृतमधातुग्रहणं व्यर्थ सज्ज्ञापयति अधातुभूतपूर्वस्यापिनुम्भवतीति तेन गोमतः सम्प्रति धातुत्वाऽभावे. पि भूतपूर्वधातुत्वमादाय नुम्सिद्धिरिति । न च पूजाऽर्थकस्य नुम्नेति नियमसम्पादना. याऽञ्चतेश्चेनलोपिन एवेति नियमकरणादग्रहणस्य चारितायेंनोकाऽथे ज्ञापकत्वन्न सम्भवतीति वाच्यम् । अचामित्यत्र नलोपस्याऽविवक्षितत्वेन सामान्याऽपेक्षनियमस्यैवौचि. त्यात् । अग्रहणकृतस्य धातोश्चेदुगित्कार्यमिति नियमस्य फलं तु उखास्नत्, पर्णध्वदि. त्यादौ नुम्-डीपोरभावरूपमिति दिक ॥
ननु तादृश् इति स्थितौ निशादिशब्दे ऋत्विगादिशब्दे च चरितार्थयो 'र्घश्चेतिः किन्प्रत्ययस्येति सूत्रयोः परत्वातिवन्प्रत्ययस्येति कुत्वशास्त्रे प्राप्ते पूर्वत्राऽसिद्धमित्यनेन षत्वविधायकशास्त्रदृष्टया कुत्व विधायकशास्त्रस्याऽसिद्धत्वप्रतिपादनात्षत्वमेवेत्याऽऽशयेनाहकुत्वस्याऽसिद्धत्वाद्मश्चेति ष इति ।।
ननु किन्प्रत्ययस्य कुरित्यस्य स्थाने कुः क्विन्यत इति न्यासेन दृष्ट इत्यध्याहारेण च बहुव्रीहिफलोपपत्तौ तदर्थ कृतस्य प्रत्ययग्रहणस्यान्यपदार्थीशे वीप्सागर्भबहुब्रीहिलामा. र्थत्वेन प्रतिलक्ष्य लक्षणोपप्लवात्ताशादिकिनन्तविषयस्य लक्षणस्य कुत्वविधायकस्याऽ. चरितार्थत्वेन षत्वाऽपवादत्वात्कृत्वमेवेत्यभिप्रेत्याह-षत्वाऽपबादत्वात्कुत्बेनेति । खकार इति । अघोष-महाप्राणसाम्यादिति भावः । कैयट इति । क्विन्प्रत्ययस्य कुरित्येतत्सूत्रस्थकैयट इत्यर्थः । जश्त्वं प्रति कुत्वस्यासिद्धत्वादिति । न च कुत्व. स्य जश्त्वस्याऽव्यपवादत्वेन कथं मुलोक्तसङ्गतिरिति वाच्यम् । कुत्वस्य शस्थानिकजस्त्व. स्यैवाऽपवादत्वं न तु खकारस्थानिकस्याऽऽपीत्यदोषात् । वस्तुतस्तु प्रत्ययग्रहणस्य बहु. बीहिमात्रफलकत्वस्यैव भाष्यकृतोक्तत्वाच्चिन्त्यमिदम् । तस्माद् ऋत्विगित्याधंशे चरितार्थस्य कुत्वस्य न जश्त्वापवादत्वं युक्तमिति तन्मत इति वदता सूचितमित्यलम् ।।
ननु 'नुम्विसर्जनीय-शर्व्यवायेऽपीति सूत्रेण नुमादिव्यवहितसकारस्य षत्वविधाना. न्निस्वेत्यत्र नुम्-शभ्यां व्यवहितप्रत्ययभूतसकारस्थानिकषत्वस्य दुरत्वात्तनिवृत्त्यर्थ कृतस्य (निसेःप्रतिषेधो वक्तव्य ) इति वार्तिकस्य प्रत्याख्यानं विधाय, योगविभागासिद्धम् , तद्यथा नुम्व्यवाये शर्व्यवाये इति स हि योगविभागः कर्त्तव्यो न कर्त्तव्यो
Aho ! Shrutgyanam