________________
८२
फक्किकारत्नमञ्जूषायाम्-- न्यवायशब्दस्य प्रत्येक परिसमाप्तत्वात्प्रत्येकव्यवधान एव षत्वं नत्वनेकव्यवधान इति भाष्यकृतोक्तत्वात्रोक्तस्थले षत्वाऽऽपत्तिरूपदोष इत्येतदेवाह-प्रत्येकमिति व्याख्यानादनेकव्यवधाने न षत्वं निस्स्वेति ।।
ननु सपषोत्यादौ षत्वप्राप्तिकाले नुमोऽसत्वात्पत्वाऽर्थ नुम्ग्रहणस्याऽनुस्वारोपल. क्षणाऽर्थत्वमित्यवश्याऽश्रयणादनुस्वारस्य शत्वेनैव गतार्थत्वान्नुम्ग्रहणं निष्फलमेवेति चेन्न । अनुस्वारब्यवधाने षत्वं चेन्नुम्स्थानिकाऽनुस्वारेणैव व्यबधान इति नियमार्थत्वेन साफल्यात् । अत एव मस्थानिकाऽनुस्वारव्यवधाने पुंस्वित्यादौ न षत्वाऽऽपत्तिरित्याss. शयेनाह-नुम्ग्रहणं नुम्स्थानिकाऽनुस्वारोपलक्षणार्थमिति । __ तक्षि-रक्षिभ्यां एयन्ताभ्यामिति । णिजन्तात् तक्षधातो-रक्षधातोश्च विप्प्रत्ययः क्विपः सर्वापहारः प्रत्ययलक्षणेन तस्मिन् णिलोपे कृदन्तत्वात्प्रातिपदिकत्वे तक्ष छ र म इति स्थितौ स्कोः संयोगाद्योरन्ते चेति न संयोगादिलोपप्राप्तिः, अचः परस्मि. न्पूर्वविधावित्यनेन क्विपि लुप्तस्य णिचः स्थानिवद्भावेन णिचा व्यवधानेन झलपरकत्वा. भावात् । न च पूर्वत्रासिद्धे न स्थानिवदित्यनेन णिलोपस्य स्थानिवद्भावनिषेधान्न संयो. गादिलोपानुपपत्तिरिति वाच्यम् । संयोगादिलोप लत्व णत्वेषु पूर्वत्रासिद्धे न स्थानिवदित्यस्याप्रवृत्त्योक्तलोपानुपपनेस्तादवस्थ्यादेवञ्च संयोगान्तलोप एव भवतीति भावः ।
ननु पदसंस्कारपक्षे सेद्वम् असिति स्थितौ पूर्वोपस्थितनिमित्तकत्वेनाऽन्तरङ्गत्वादिटि न संप्रसारणप्राप्तिरित्यत आह-अन्तरङ्गोऽपीडागमः सम्प्रसारणविषये न प्रव. र्तत इति । अयम्भावः, इटो निमित्तस्य बलादित्वस्य सम्प्रसारणेन विनाशमावित्वात ( अकृतव्यूह ) परिभाषया न पूर्वमिटः प्राप्तिरिति प्राञ्चः। नव्यास्त, पदावधिकेऽन्वाख्याने सेद्वस् असिति स्थिताविट् सम्प्रसारणयोः प्राप्तौ प्रतिपद्विधित्वेन शीघ्रोपस्थिति. कत्वात्पूर्व सम्प्रसारणे बलादित्वाऽभावादिटोऽप्राप्त्या सेदुष इत्यादिसिद्धावुक्तपरिभाषा निष्फलैव । लक्ष्यानुरोधात्पदाऽवधिकाऽन्वाख्यानपक्ष एवाऽत्रेत्याहुरिति दिक् ।।
सान्तमहत इत्या सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते न तु धातोः, महच्छब्दसाहचर्यादिति । न च महत्यतेः क्विपि महतोऽपि धातुत्वस्य सम्भवा. त्कथमेतत्साहचर्यात्तथा ग्रहणमिति वाच्यम् । क्विपि कृते महतो धातुत्वेऽपि तस्योपदे. शिकधातुत्वाऽसम्भवेन साहचर्यादौपदेशिकधातुभिन्नसान्तसंयोगस्य ग्रहणमित्याशयात् ।
ननु 'अनङ् सावित्यस्य स्थाने सोडेंतिन्यासेनैव सिद्धावनविधानसामर्थ्यात्क्व. चिदन्यतोऽप्यन भवतीति ज्ञापनादुशनशब्दस्य सम्बुद्धौ तत्सिद्धिरिति प्राञ्चस्तत्फलितमाह-अस्य सम्बुद्धावित्यादि । वस्तुतस्तूक्तन्यासाऽभ्युपगमे पुरुदसेत्यत्र सो देशेटिलोपे सान्तमहत इति दीर्घाऽऽपत्तिः । न च ( संज्ञापूर्वको विधिरनित्यः इति परिभापया ( अङ्गवृत्त ) परिभाषया वा नोक्तापत्तिरिति वाच्यम् । उभयोरेकस्या अपि भाष्ये. ऽनाऽऽश्रयणात् एवञ्च वार्तिकमिदमपूर्वमेवेति भावः ॥
इति हलन्ताः पुल्लिङ्गाः ॥
Aho! Shrutgyanam