________________
हलन्तनपुंसकलिङ्गप्रकरणम् ।
अथ हलन्तस्त्रीलिङ्गप्रकरणम् । निपातनोद्दलीपषत्व इति । पूर्वपदान्तस्य लोपो धातोः सस्य षत्वमित्यर्थः । न च 'आदेश-प्रत्यययारित्यनेनैव षत्वे सिद्धे निपातनात्पत्वविधानमनावश्यकमिति वाच्यम् । पदादादिः पदादिरिति पञ्चमीसमासपक्षे 'सात्पदाद्योरित्यनेन तन्निषेधादिति भावः ॥
क्विनन्तत्वात्कुत्वेन हस्य घ इति । कैपटादिमते षत्वस्येव ढत्वस्यापि कुत्वेन बाधादिति तदाशयः । उष्णिगब्च्चितिनिर्देशात्कुत्वस्य जश्त्वेनाऽसिद्धत्वं स्वरीत्या तु -द-ग-का इति बोध्यम् ॥
द्यौरिति । 'दिव औत' इत्यौत्वे यणि रूपम् । नचाऽन्तरङ्ग परिभाषयाऽन्तरंगे यणि कर्तव्ये बहिरङ्गस्यौत्वस्याऽसिद्धत्वादपरत्वाऽऽभावाद्यगादेशा न स्यादिति वाच्यम् । मनिष्ठाऽऽनन्तय्यंनिमित्तके काय्य कर्तव्ये न बहिरङ्गत्वप्रयुक्ताऽसिद्धत्वस्य प्राप्तिरि. त्यर्थिकया (१)नाऽजानन्तय्ये बहिष्ट्वप्रक्लप्तिः ) इति परिभाषयोक्तारिभाषाबावेना. ऽप्रवृत्तः । एवञ्च यणदृष्ट्यौत्वस्याऽसिद्धत्वाभाबानोक्तरूपोपपत्तौ किमपि प्रतिबन्धकमिति भावः ॥
चतस्त्र इति । ननु 'चतुरनदुहोरामुदातः' इत्यनेन कुतो नाऽऽमिति चेन्न । 'विप्र. तिषेध' सूत्रेणाऽऽमोऽपेक्षया चतस्राऽऽदेशस्य परत्वबोधनेन परत्वादामं बाधित्वा चत. स्नाऽऽदेशस्यैव ग्रवृत्तः । न च कृते चतस्त्राऽऽदेशे कुतो नाऽऽमिति वाच्यम् । (सद्ग तौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ) इत्यनया परिभाषया पुनरामोऽप्राप्तेरिति भावः ।
सर्वावदिति । नन्वत्र पुंवद्भावः कुतो नेति चेन्न । सर्वाशब्दत्ववदिति तदर्थात् । शब्दपरस्य कदापि सर्वनामत्वाऽभावात्मर्वनाम्नो वृत्तिमा वगाव इत्यस्य न प्रवृ. त्तिरिति भावः ॥
अमूभिरिति । अदन्तत्वाऽभावादेत्वाऽभावेन 'एत ईदित्यस्याऽप्रवृत्तौ मुत्वमे. वेति भावः ॥
इति हलन्ताः स्त्रीलिङ्गाः ॥
अथ हलन्तनपुंसकलिङ्गप्रकरणम् । दत्वमिति । ननु 'वसुत्रं स्थिति सूत्रेऽनडुशब्दस्यैवोपादानात्स्वनदुहशब्दस्य दत्वं न स्यादिति चेन्न । तस्याऽङ्गाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्तेः । एवमाङ्गत्वादामोऽपि तदन्ते प्रवृत्तिरिति बोध्यमिति भावः ॥
(१) *नाजानन्तर्य इति । तत्र षत्व-तुकोरसिद्ध इति सूत्रस्थं तुरग्रहणं ज्ञापकम् , तथा हि परिभाषासत्वे अधीत्य प्रेत्येत्यादौ समासोत्तरं ल्यप्रवृत्या पूर्व समासे जाते तत्र संहिताया नित्यत्वादल्यवुत्पत्तिपर्यन्तमप्यसंहितयाऽवस्थानासम्भवादेकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बधिवर्णद्वयापेक्षेकादेशस्य वहिरङ्गत्वेनासिद्धत्वात्तुक्सिद्धौ सूत्रस्थं तुग्धहणे व्यर्थं सत्परिभाषां ज्ञापयतीति ।
Aho ! Shrutgyanam