________________
फविकारत्नमञ्जूषायाम्ननु राजपुरुष इत्यत्र यथा प्रत्ययलक्षणेन पूर्वपदस्य पदत्वावलोपादिकाय्यं भवति तद्वद्विमलदिवीत्यत्रापि प्रत्ययलक्षणेनाऽन्ततिनीम्बिभक्तिमाश्रित्योत्तरपदस्य दिव इत्यस्य पदत्वेन 'दिव उदि' त्युत्त्वं स्यादित्याशङ्कायामाह-उत्तरपदत्वे चेति । ( उत्तरप. दत्वे चाऽपदोदिविधौ प्रतिषेधः ) इति वात्तिकस्वरूपम् । तत्रोत्तरेति लुप्तषष्ठ्यन्तं पृथ.
पदम् । तच्च लक्षणयोत्तरपदपरम् । प्रकृतिजन्यबोधे प्रकारीभूतो भाव इति नियमेन पद. त्व इत्यस्य पदसंज्ञायामित्यर्थः प्राचीनमते, नव्यमते तु पदत्वप्रयुक्त कार्य इत्यर्थः । तथा च, उत्तरपदस्य पदत्वप्रयुक्त कार्ये कर्तव्ये लुमता लुप्ते प्रत्ययलक्षणन्नेति प्रथमखण्डा. र्थः । तेन विमलदिवीत्यादावुत्वं, परमवाचेत्यादौ कुत्वं, सधियावित्यादौ शाकलहस्वत्वञ्च न । किमविशेषेणाऽयं निषेधो नेत्याह-अपदादिविधाविति । न पदादिविधिरपदादि. विधिः, पदादिविधिश्चाऽत्र प्रतिपदोक्तत्वात्सात्पदाद्योरित्येव, पदादिविधौ त्वयं निषेधो न प्रवर्तत इति द्वितीयखण्डाऽर्थः । एतत्फलं पृच्छति-अपदादिविधौ किमिति । एतदंशाऽसत्वे दधिसेचावित्यादौ सेचरूपोत्तरपदस्य पदत्वप्रयुक्तकाय्यस्य कुत्वस्य कर्त. व्यत्वान्निषेधप्रवृत्त्या प्रत्ययलक्षणप्रतिषेधेन पदत्वाऽभावात्सात्पदाद्योरिति निषेधाऽप्राप्त्या षत्वाऽऽपत्तिस्तदंशसत्त्वे तु षत्वरूपपदादिविधेः कर्त्तव्यत्वादुक्तनिषेधाऽप्रवृत्या प्रत्ययलक्षणेन पदत्वस्य सुलभत्वात्सात्पदाद्योरित्यस्य प्रवृत्या न तदापत्तिरिति तत्फलमिति भावः । पदादिविधिश्च सात्पदाद्योरित्येवेत्युक्तन्तत्फलं परमवुधावित्यादौ भष्भावो नेति । अयं निषेध उत्तरपदस्य कायित्व एव प्रवर्तत इति । (१)अत एव माषकुम्भवापेनेत्यत्र 'पद. व्यवायेऽपी ति षत्वनिषेधः सिद्धयति । (२) अन्यथा पष्ठीतत्पुरुषीयकुम्भेत्युत्तरपदस्य पद. वे कर्त्तव्ये प्रत्ययलक्षणप्रतिषेधात्तस्य पदत्वाऽभावादुक्तनिषेधो दुर्लभः स्यात् । कार्यित्वनि. वेशे तु तादृशकुम्भरूपोत्तरपदस्य पदत्वप्रयुक्तकार्य्यस्याऽकर्त्तव्यत्वानिषेधाप्राप्त्या प्रत्यय. लक्षणेन तस्य पदत्वेन निषेधः मुलभ एव । न च काय्यित्वनिवेशे पूर्वदण्डिप्रिय इति त्रि. पदबहुव्रीहाववाऽन्तरतत्पुरूषीयोत्तरपदस्य दण्डिनः पदत्वप्रयुक्तनलोपाऽऽदिकार्य्यस्य कर्त. व्यत्वान्निषेधप्रवृत्त्या प्रत्ययलक्षणप्रतिषेधेन पदत्वाभावाचलोपाऽऽदिकायं न स्यादिति वाच्यम् । उत्तरपदशब्देन मध्यमपदत्वाऽनाक्रान्तोत्तरपदस्य ग्रहणेन दण्डिनो मध्यमपदत्वाऽऽक्रान्तत्वानिषेधाऽयोगेन पदत्वात्तत्प्रयुक्तकार्य्यस्य मुलभत्वादिति दिक ॥
ननु अहः, अहोभ्यामित्यादौ रोऽपि' 'अहन' इत्यनयोरचारितायेंनाऽपवादरूपत्वान्नलोपसूत्रस्य वाध एवेति चेन्न । नलोपोत्तरमुक्तसूत्रद्वयस्य चारितायेंनाऽपवादत्वा. ऽसम्भवात् । असम्भवे सत्येवाऽपवादत्वम् सम्भवतीत्युक्तत्वात् । एवञ्च नलोपदृष्टया स्त्व-रुत्वयोरसिद्धत्वान्नलोपो दुर्वार एवेत्याशयेनाह-रत्व-रुत्वयोरसिद्धत्वान्नलोपे प्राप्त इति । न च नलोपे जाते हकारोत्तराऽऽकारस्य रत्वे रत्वे वा कृते विशेषाऽभावाद. न्यतरविधानेनैवोपपत्ताबुभयोरत्व-रुत्वयोविधानसामर्थ्यान्नकारस्य लोपो न स्यादिति वाच्यम् । सम्बुद्धौ ‘नङि सम्बुद्धयोरिति नलोपप्रतिषेधेनाऽऽहर्गच्छेत्यादावुत्वाऽभावेन दीर्घाहो निदाघेत्यादात्वसम्पादनेन चोभयोश्चारिताथ्येन सामर्थ्यविरहावलोपवाने माना
(१) *अत एवेति । उत्तरपदस्य कायित्व एव निषेधप्रवृत्तेरेवेत्यर्थः । (२) *अन्यथेति* । कायित्वनिवेशाऽभावे इत्यर्थः ।
Aho ! Shrutgyanam