________________
फक्किकारत्नमञ्जूषायाम्-- वाऽन्त्यसदेशस्य यकारस्यैव कार्यप्राप्तौ वकारस्याऽप्राप्त्या तन्निषेधार्थ व्यर्थमेवोक्तसूत्र. मिति । न च नैतस्याः परिभाषायाः प्रयोजनानीति न सम्प्रसारण इति सूत्रस्थभाष्या देतत्परिभाषाया अभावबोधनात्तत्स्वीकारे तु भाष्यविरोधो दुर इति वाच्यम् । एत. त्सूत्रसाध्यानि विद्ध इत्यादीन्युदाहरणानि नैतत्परिभाषाप्रयोजनानीत्युक्तसूत्रस्थभाष्याs. भिप्रायवर्णनेन विरोधपरिहारादिति भावः ।।
ननु 'अदसोऽसे दुदोमः' इति सूत्रेऽसेरित्यस्य यस्य यकारस्य स्थाने अः सोऽसिस्त. स्यासेरिति व्याख्यानात्यदादीनामत्वविषय एव मुत्वप्रातिरित्याशयेनाऽऽह-इति पते तु अदद्रयङिति: अत्र तन्त्रेणाऽर्थद्वये सूत्रतात्पर्य तत्र लक्ष्याऽनुरोधाद्वयवस्था । अत्र प्रमाणमाह-उक्तश्च, अदसोऽद्रेरित्पादि । लत्ववदिति । यथा चलीक्लप्यते इत्यत्र 'कृपो रोल' इत्यनेन रीगृकारयोरुभयोर्लत्वं भवति तथैवेत्यर्थः । अत्रादमुयजिति रूपवादिमतं युक्तम् , उक्तरीत्या लत्वे (अन्त्यबाधेऽन्त्यसदेशस्ये) त्यस्याऽप्रवृत्तावपोह तदप्रवृत्ती विनिगमकाऽभावात् । अत एव, प्रकृतसूत्रे भाष्ये ( अदसो नोऽद्रेरि) तिवार्तिकप्रत्या. ख्यानायाऽथवाऽसेरिति पक्ष प्रतिपाद्य यद्येवममुमुडिति न सिद्ध्यति अदद्याडिति प्राप्नो. ति । अदमुयडिति भवितव्यम् , अनन्त्यविकारऽन्त्यसदेशस्येत्युक्तम् । अति प्राप्नोती त्युक्त्या च तत्र मुत्वाघटितरूपेऽसम्मतिः प्रदशिता । इति भवितव्यमित्यनेन पृथमुत्वमिति पक्षसम्मत्यभावो दर्शितः । इति भवितव्यमित्युक्त्या च तत्र शब्देऽप्रयुक्तत्वं सूचितमित्यलम् ॥
विष्वग्देवयोः किमिति । चकारस्याऽप्युपलक्षणमिदम्, चेन सर्वनाम्नः परामर्शात् । तथा च सूत्रे तयोरग्रहणेऽन्यशब्दस्यापि टेरछादेशाऽऽपत्तावश्वाचीति न स्यादित्याशयेन प्रत्युदाहरति-अश्वाचीति ॥
ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे विष्वग-देवशब्दयोप्टेरद्रयाऽऽदेश इत्यर्थे विष्व. गञ्चनमित्यादिव्यावृत्तौ ध्यर्थमेवाऽप्रत्ययग्रहणमित्याशयेनाऽऽशकते-अप्रत्ययग्रहणं कि. मिति । समाधत्ते-विष्वगञ्चनमिति । अयम्भावः, व्यर्थमप्रत्ययग्रहणं ज्ञापयति धातु. ग्रहणे तदादिविधिरिति । तेनाऽञ्चादावावुत्तरपदेऽद्रयादेश इत्यर्थे विष्वगञ्चनमित्यत्राss. देशाऽऽपत्तिरित्याऽऽवश्यकमप्रत्ययग्रहणं स्वांशे चरितार्थ जातम् । ज्ञापनफलञ्च 'अतः कृकमी ति सूत्रे तदादिविधौ करोत्यादावुत्तरपदे सत्त्वसिद्धित्यित आह-तेनाऽयस्कार इत्यादि । अन्यथा, अतः कृ इत्यत्र 'नित्यं समास' इत्यतोऽनुवृत्तेन समासग्रहणेनोत्तर. पदाऽऽक्षेपेऽपि कृधातुरूपे उत्तरपदे इत्यर्थाऽऽपत्तावयस्कृदित्यादावेव सत्वं स्यानत्वयस्कार इत्यादाविति दिक् ॥
तिरश्च इति । नन्वत्र श्चुत्वे कर्तव्येऽल्लोपस्य स्थानित्त्वेनाऽकारेण व्यवधानात् श्चुत्वं न स्यादिति चेन्न । पूर्वत्राऽसिद्धीये तन्निषेधादिति भावः ।
ननु विप्रतिषेधशास्त्रबलेन पूर्वस्मात्परं बलवत् , ततोऽपि नित्यं कृताऽकृतप्रसङ्गित्वात् , तथा च, धीमत्स इति स्थितौ नुम्-दीर्घयोः प्राप्तौ परत्वान्नित्यत्वाच्च दीर्घ बाधित्वा नुमि कृते दी? न स्यादुपधात्वाऽभावादित्याशङ्का समाधत्ते-परं नित्यं च नुमं बाधित्वा वचनसामयांदादौ दीर्घ इति । वाक्यार्थबोधकाले विरोधाऽभावादुपधापदसम्बन्धे
Aho! Shrutgyanam