________________
हलन्तपुंल्लिङ्गप्रकरणम् ।
७६
वद्भावेन पदात्परत्वाभावादस्मदो नसादेशो न स्यादित्याशंक्य समाधत्ते - सर्वदा रक्ष देव ! न इत्यत्र त्विति । उक्तरीत्या देवेत्यस्याऽविद्यमानवद्भावेऽपि रक्षः शब्दमाश्रित्याssदेशो बोध्य इति भावः । एवं इमं मे गङ्गे ! यमुने ! इति मन्त्रे सम्बोधनपदानामवि द्यमानवद्भावेनाऽऽदेशाऽप्राप्त्या मे शब्दाऽऽश्रयणादादेश इति दिक् ॥
ननु प्रति अच् अस् इति स्थितौ यण - लोपयोः प्राप्तौ बहिभूत निमित्तकत्वेन बहिरङ्ग लोपाsपेक्षयाऽन्तरङ्गत्वाद्यणाऽऽदेशः स्यादित्याशङ्क्य समाधत्ते - श्रच इति लोपविषयेऽन्तरङ्गोऽपीति । अयम्भावः, बहिरङ्गशास्त्रेणाऽन्तरङ्गशास्त्रनिमित्तविनाशे पश्चा सम्भाविते पूर्वमन्तरङ्गशास्त्रं न प्रवर्त्तते इत्यथिकया ( १ ) ( अकृतव्यूह ) परिभा पयाऽन्तरङ्गस्य यणोऽप्राप्त्या लोपे दीर्घे च कृते इष्टरूपसिद्धिः । नवोक्तपरिभाषाया भाष्ये.
सच्चादुक्तदोषस्तदवस्थ एवेति वाच्यम् । एतदभावे लुप्साङकार - नकारेऽञ्चतौ परेऽन्तरङ्गशास्त्रस्य न प्रवृत्तिरित्यर्थकेन ( चौ प्रत्यङ्गस्य प्रतिषेधो वक्तव्यः ) इति भाष्योक्तवार्तिकेनैवोक्तदोषायोगादिति दिक् ॥
अन्तरतम्यादिति । सूत्रे उपदे हस्व-दीर्घयोः समाहारद्वन्द्वे घ्यन्तत्वाद्धवस्य पूर्वनिपाते सबर्णदीर्घ नपुंसकहस्वत्वम् । तेनोभयोर्ग्रहणमिति प्राञ्चः । वस्तुतो नैतद्युक्तम् उस ऊस् इति द्वन्द्वे सलोपे ध्यन्तत्वाद्धस्वस्य पूर्वनिपाते नपुंसक हस्व - सवर्णदीर्घयोः प्राप्तौ दीर्घस्य शब्दाऽन्तरप्राप्त्याऽनित्यत्वेन नित्यत्वादपरनिमित्तकत्वेनान्तरङ्गत्वाच्च स्वत्वे ततः सवर्णदीर्घत्वे उ इति रूपाऽनुपपत्तेः । अत एव 'उकालोज्झस्वदोर्घप्लुतः ' इत्यत्र उकाल वृति न कृतम् । तस्मात 'दिव उत्' 'ऋत उदि'त्यत्र च तपरकरणेन ज्ञापितया ( भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति ) इति परिभाषया सिद्धिया ||
1
ननु 'यङः सम्प्रसारणमित्यत्र भाष्ये ( अनन्त्यविकारे ऽन्त्य सदेशस्ये ) ति परिभाषा पठिता । अन्त्यसदेशा-ऽनन्त्यसदेशयोरेकप्रयोगे युगपत्प्राप्तावन्त्यसदेशस्यैव भवतीति तदर्थः । अनन्त्यविकार इति तत्र लिङ्गम् । तामर्थतः पठति श्रन्ययवाध इति । अन्यथा 'जोन' इत्यादि शास्त्रं नेतेत्यादावेव प्रवर्त्तेत न तु नमतीत्यादाविति भावः । अन्त्यस्य बाधे कार्याप्राप्तावित्यर्थः - अन्त्यसदेशस्येति । अन्त्येन समानो देशो यस्येस्यर्यः । तत्त्वञ्च, अन्त्यवर्ण - तद्वर्णयारितराव्यवधानम् । तथा च चलीक्लृप्यते इत्यादा ऋकारान्तर्गतरे फस्योत्तराज्भागेन व्यवधानादन्त्यसदेशत्वाऽभावेन नैतत्परिभाषाप्रवृत्तिः । (२) अत एव न सम्प्रसारणे सम्प्रसारणमिति सूत्रोदाहरणस्य विद्ध इत्यादेरनया परिभा या न सिद्धिः (३) अत एवोक्तनिषेधसूत्रं सफलमन्यथा ( ४ ) विद्ध इत्यत्र तत्परिभाषयै
( १ ) * अकृतव्यूहेति । अकृतव्यूहाः पाणिनीयाः इति परिभाषास्वरूपम् । अत्र ज्ञापकं समर्थानां प्रथमाद्वेति सूत्रे समर्थानामिति, तथा हि कृतदीर्घेभ्यः सूत्थितादिभ्यः प्रत्यथोत्पत्त्यर्थमेव तदूग्रहणं परिभाषाऽसत्वे तु अन्तरङ्गत्वाद्दीर्घे : कृत एव प्रत्ययोत्पत्तिरिति व्यर्थं तद्ग्रहणं परिभाषां ज्ञापयतीति ।
( १ ) *चलीक्लृप्यत इति* । अन्त्यसदेशत्वलक्षणे इतराव्यवधाननिवेशस्य फलमिदम् । (२) *अत एवेति । इतराव्यवधाननिवेशादेवेत्यर्थः ।
(३) *अत एवेति । अनया तदुदाहरणाऽसिद्धे रेवेत्यर्थः ।
( ४ ) *विद्ध इति । व्यधू धातोः क्तप्रत्यये ग्रहिज्येति सम्प्रसारणे रूपम् । .
Aho! Shrutgyanam