________________
૭૮
फक्किकारत्नमञ्जूषायाम्-- च्छब्दत्वादादेशः स्यात् तत्सत्वे तु नोक्तदोषोऽपादादावविद्यमानत्वादिति भावः । आदेशे सति न कृष्णः सर्वदाऽवत्विति पादादित्वाऽपत्योपजीव्यविरोधानादेश इति केचित स्मानित्यस्याऽपादादौ विद्यमानत्वादादेशः, सत्यादेशेऽपादादित्वस्य विधातः पादादित्वस्य चाऽऽपत्तिरिति स्पष्ट एवोपजीव्यविरोध इति दिक् ॥ :: ननूक्तरीत्या षष्ठयाघन्तानामेवादेशा भविष्यन्ति स्थग्रहणं व्यर्थमिति सन्देहादाहस्थग्रहणाच्छयमाणविभक्तिकयोरेवेति। अत्र स्थशब्दोऽहानौ वर्तते यथा
समये तिष्ठ मुग्रीव ! मा वालिपथमन्वगाः ।
नायं सङ्कुचितः पन्था येन वाली हतो गतः ॥ इति रामायणश्लोके समयं मा हासीरित्यर्थक: स्थाधातुरिति ॥
स्थग्रहणस्य फलमाह-नेह युष्मपुत्रो ब्रवीतीति । अत्र विभक्तरश्रवणान्नाऽऽदेशः प्रत्ययलक्षणेनाऽपि नादेशापत्तिः । अनेन विभक्तिबुद्धावपि वस्तुतस्तदभावात् । स्थग्रहणसामर्थ्याद्वस्तुतस्तत्सत्वे एवाऽऽदेशविधानादिति भावः । एकतिङ वाक्यमिति । तिपदेन तिङन्तं गृह्यते । एक तिहन्तं यस्येति बहुव्रीहिः । एकतिङन्तघटितं वाक्यमित्यर्थः । तेन पचतीत्येतन्मात्रस्य न वाक्यत्वम् । इदं स्वशास्त्रे कार्योपयोग्येकवाक्यत्व. लक्षणं, तेन न पश्य मृगो धावतीत्यादावव्याप्तिः वस्ततस्तु एकतिङन्तार्थनिष्ठमुख्यविशेध्यताकबोधजनकं वाक्यमिति तल्लक्षणम् । अत एव पश्य मृगो धावति पचति भवतीत्यादेश्चैकवाक्यत्वसिद्धिः । अत एव 'तिङतिङः' इत्यत्रातिडिति पर्युदासस्य सार्थक्यम् । लौकिकवाक्यत्वञ्च-मुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्वितेत्यमरेणोक्तम् । तत्र वा शब्दश्चेदर्थे, कारकाऽन्वितक्रिया चेद्वोध्येति शेषः, तथा च कारकाऽन्वितक्रियाबोधकसुबन्तचयस्तथा तिङन्तचयस्तथा सप्तिङन्तचयश्च वाक्यमित्यर्थ इत्यलम् ॥
ननु 'तुल्याथै रतुलोपमाभ्यामि' त्यादिवत् 'नच बाहाहैवैः' इति तृतीयानिर्देशेनैव सिद्धौ युक्तग्रहणं व्यर्थमित्यत आह-युक्तग्रहणमिति । साक्षाद्योग इति । युष्मद. स्मदर्थगतसमुच्चयादिद्योतकत्वे इत्यर्थः । परम्परासम्बन्धेति । स्वार्थाश्रयान्वय्यन्व. यित्वादिरूपे इत्यर्थः । यत्र युष्मदस्मदर्थगतान् समुच्चयादीन् चादयो द्योतयन्ति तदा चादिभिः सहार्थद्वारा युष्मदस्मदोः साक्षाद्योगस्तत्राऽयं निषेधः यत्रैतादृशो योगो न तत्र नायं निषेध इति भावः ॥
परम्परासम्बन्धेऽप्ययं निषेध इति । न च वाहाहैव युक्त इति सूत्रस्थयुक्तग्रहगसामर्थ्याज्ज्ञाप्यते साक्षाद्योग एवाऽयं निषेधो न तु परम्परासम्बन्धेऽपीति, पश्याथै रित्यत्र तु युक्तग्रहणाऽभावेनोक्तज्ञापऽनासम्भवात्परम्परासम्बन्धेऽप्येतन्निषेधप्रवृत्तिरिति भावः ॥
इह युप्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च नेति । अग्ने । तव देवास्मान्पाहीत्यादौ सम्बोधनपदस्याऽऽमन्त्रितसंज्ञा विधानेनाऽविद्यमानवद्भावात्पदा. त्परत्वाऽभावेन न युष्मदस्मदोरादेशः । एवमग्ने ! नयेत्यादौ ‘तिङतिङः' इति तिङन्तनिघातो न । अग्ने ! इन्द्र, अग्ने ! वरुणेत्यादौ च 'आमन्त्रितस्य च' इत्यामन्त्रित निघातो नेति विवेकः ।। : ननु सर्वदा रक्ष देव ! न इत्यत्र देवेति सम्बोधनस्याऽऽमन्त्रितसंज्ञाविधानादविद्यमान.
Aho ! Shrutgyanam