________________
हलन्तपुंल्लिङ्गप्रकरणम्। पपक्षे-अन्त्यलोपपक्षे च साधुन तु कश्चिद्दोषः । नचाऽन्त्यलोपपक्षेऽकारोचारणसामर्थ्यात्पररूपं बाधित्वा सवर्णदीर्घाऽऽपत्तिरिति वाच्यम् । अकारोच्चारणस्यैत्वनिवृत्त्या चारितार्थेन सामर्थ्य विरहात्पररूपाऽबाधेन परत्वादस्यैव प्रवृत्त । नचाऽङ्गवृत्तपरिभाषयैव दीर्घव्यावृत्ता. वभ्यमित्यत्राऽकारोच्चारणं व्यर्थमिति वाच्यम् । तस्योक्तपरिभाषाऽनित्यत्वज्ञापनार्थत्वेन साफल्यात् । नचाऽन्त्यलोपपक्षे 'एकाऽदेश उदात्तेनोदात्त' इत्यनेन युष्मभ्यमित्यत्र युष्मोत्तराऽकारस्योदात्तत्वं टिलोपपक्षे तु, अभ्यमोऽनुदात्तत्वेन युष्मोत्तराऽकारस्याऽनुदात्तत्वमिति फलभेद इति वाच्यम् । यत्रानुदात्ते बणे परे उदात्तो लुप्यते स बर्ण उदात्त इत्यर्थकेन 'अनुदात्तस्य च यत्रोदात्तलोप' इत्यनेन तस्योदात्तत्वस्यैव विधानेन फलभेदाऽभावादिति दिक् ॥
ननु आकमाऽऽदेशात्पूर्वमनादेशत्वेन यत्वस्य प्राप्त्या शेषे लोप' इत्यस्य यत्वनि. मित्तेतरनिमित्ताऽपेक्षितत्वेनाऽन्त्यलोपाऽप्राप्ताववर्णान्तत्वाऽभावात्सडागमाऽप्रसक्तया साम इति समटकनिर्देशो व्यर्थः सुत्राऽसंगतिश्चेत्याऽऽशंक्य समाधत्ते-भाविनः सुटो निवृ. त्यर्थ ससुटकनिर्देश इति । आकमि शेषे लोपे कृतेऽकारान्तत्वात्प्राप्तस्येत्यर्थः । अयम्भावः, यथाऽऽर्द्धधातुकविषये 'अस्तेभूरि त्यनेन भूप्रयोगोऽस्तेरप्रयोगो वोध्यते, एवं सामः प्रसङ्गे आकमित्यनेन सुडामोरत्यन्तमप्रयोगो बोध्यते, यद्यपि आम् दशायां साम इति स्थानिनोऽसत्त्वेन प्रकृताऽदेशाऽप्राप्त्या यत्वेऽन्त्यलोपाऽप्राप्तौ सुटोऽसम्भवेन सर्वथा साम इति स्थानिस्वरूयाऽसिद्धिरेव तथापि भाविनं सुट निवर्तयितुं समुटकनिदेशसाम
ादाम्येव साम्त्वाऽऽरोपेणोक्तस्थानिस्वरूपस्य सिद्धत्वादादेशप्रवृत्तौ स्थानिवत्वेन साम्त्व. स्यैवाऽऽनयनान्नत्वाऽऽम्त्वस्येति न सुडागमाऽऽपत्तिरिति । यत्तु साम इत्यत्र तन्त्रेणाss. मोऽपि सत्वात्तस्य पूर्वमाकमि ततोऽन्त्यलोपेऽकारान्तत्वात्सटि तस्याऽप्याकमि न काऽव्य. नुपपत्तिरिति केचित्तन्न । तन्त्राऽऽनाश्रयणे गौरवात् । केचिच्च 'आम आकमित्येव सिद्धे सकारोच्चारणं व्यर्थमिति सन्देहे पङ्क्तिमिमामवतारयन्ति-भाविनः सुटो निवृत्त्यर्थमिति । आकमः स्थानिवद्भावादाम्बुद्धौ प्राप्तम्टो व्यावृत्यर्थमुक्तनिशः, साम आकमादेशे तु स्थानिवावेन साम्त्वमेव नाऽऽम्त्वमिति न कश्चिदोषः । वस्तुतः, 'आमो डाक. मिति न्यासे आमः स्थाने डाकम्विधानाड्डित्वाहिलोपेनेष्टसिद्धावलमेतदाऽऽयासेनेति । नन्वाऽऽकमि दीर्घोच्चारणम्यर्थमकारोच्चारणसामर्थ्येन पररूपस्य बाधादिति चेन्न । अका. रोच्चारणस्यैत्वनिवृत्या चरितार्थत्वादित्यलम् ॥
'युवावौ द्विवचने 'त्वमावेकवचने' इति सूत्रद्वयेऽपि द्विवचनैकवचनशब्दयोरर्थपरत्वं न तु प्रत्ययपरत्वमिति तत्फलं प्रदर्शयति-समस्यमान इत्यादिना । द्वय कत्ववाचिनीति । द्वित्वैकत्वविशिष्टवाचिनीत्यर्थः समासार्थ इति । मुख्यविशेष्यमित्यर्थः । अन्यसंख्यश्चेति । युष्मदाद्यर्थगतसंख्वेतरसंख्यायुक्तश्चेदित्यर्थः ॥
ननु 'युष्मदस्मदोः षष्ठी-चतुर्थी ति सूत्रेऽपदादावित्यधिकारो व्यर्थः पदात्परयोर्युष्मद. स्मदोः षष्ट्यादिविशिष्टयोर्वानावित्याऽऽदेशौ स्त इत्यर्थेनैव सिद्धरित्याशयेन शङ्कतेअपदादा किमिति । समाधत्ते-वेदेरशेषैरिति । उक्तसूत्रेऽपदादावित्यस्याऽभावेऽत्र पूर्वाऽन्तवद्भावेनैकाऽऽदेशस्य पूर्वपदत्वादेकदेशविकृतन्यायेन स्मानित्यस्य द्वितीयाऽन्ताऽस्म.
Aho! Shrutgyanam