________________
फक्तिकारस्नमञ्जूषायाम्
दिरस्तीति 'युष्मदस्मदोरनादेशे' हति सूत्रस्थभाष्योक्तिः सङ्गच्छते । एतेनाऽभ्यमादेशस्यैव न्याय्यत्वमुक्तम् । तथा च प्रकृते टावापत्तिस्तदवस्थैवेति चेदुच्यते, अन्तरङ्ग परिभाषया टापः प्रागन्तरङ्गत्वादतो गुणे इत्यस्यैव प्रवृत्तिरिति न तदापत्तिरिति दिक् ॥
ननु युष्मच्छब्दादस्मच्छब्दाच्च प्रथमा-द्वितीययोद्विवचने औ तस्य के प्रथमयोरम्। इत्यमि 'युवाऽऽवौ द्विवचने' इति क्रमेण युवाऽऽवाऽऽदेशे युवाम् आवामित्यनयोर्मपर्य. न्ताऽधिकारं विनाऽपि सिद्धौ व्यर्थमेवाऽधिकारसूत्रमित्याऽऽशयेनाऽऽशकूते-मपर्यन्तस्य किमिति । समाधत्ते-साकचकस्य मा भूदिति । अधिकारसूत्राऽभा. वेऽकविशिष्टस्यापि युष्मदोऽस्मदश्वाऽऽदेशे युवकामाऽऽवकामित्यनयोर्न सिद्धिरित्याss. वश्यकं तदिति भावः । ननु ओकार-प्रकार-भकारादौ मपि सर्वनाम्नष्टेः प्रागकज. न्यत्र तु भुबन्तस्य टेः प्रागित्यस्य त्वयकेत्यादिसिद्धये बक्ष्यमाणत्वादिहाकिचः प्रागादेशे ततः सुबन्तस्य टेः पूर्वकमचि कृते प्रयोगद्वयपिद्धिः सुलभैवेति नेदमधिकारसूत्रस्य प्रयोजनमित्यरुचेराह-व्या, म्येति । अत्रोक्ताऽधिकारसूत्राऽभावे समुदायस्याऽऽदेशे 'योऽची त्यनेनाऽकारस्य यत्वे नेष्टप्रयोगसिद्धिरित्याऽऽवश्यकन्तदिति भावः । नन्वत्राऽप्यजादौ विभक्तावकारस्यैत्वमित्यर्थ केन 'अच्ये' इति न्यासेनैवोक्तप्रयोगोपपत्तौ व्यर्थ मेव तदि. त्यरुचेराह-युवकाभ्याम्। प्रावकाभ्यामिति । अत्रोक्तनियमबलेनाऽन्तरङ्गत्वात्सर्वनाम्नष्टेः प्रागकचि ततश्चाऽऽदेशे नोक्तप्रयोगसिद्धिरिति तदाऽऽवश्यकमिति दिक् ।।
ननु अन्त्यलोपपक्षे जसोऽमादेशेऽपि तस्य स्थानिवद्भावेन जमवुद्धया 'जसः शीति श्यादेशो दुर्वार इत्याऽऽशकते-इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शो प्राप्त इति । समाधत्ते-अङ्गकायें कृते पुर्नाङ्गकार्यमिति न भवतीति । अयम्भावः, (अङ्गवृत्ते पुनर्बत्तावविधिः ) इति परिभाषास्वरूपम् । अङ्गेऽङ्गाधिकारे वृत्तं निष्पन्नं य. कायं तस्मिन्सति पुनरन्यस्याङ्गकार्य्यस्य बृत्तौ प्रवृत्तावविधानं भवतीत्यर्थः, तथा च, अङ्गाऽधिकारवृत्ते काव्येऽमि सति पुनरन्यस्याङ्गाधिकारवृत्तकार्य्यस्य श्यादेशस्य न विधा. नमिति न दोषः । इयं परिभाषा 'ज्यादादीयसा इत्याद्विधानेन ज्ञापिता, अन्यथेकारलोपेन 'अकृत्सार्वधातुकयोरिति दीघेण च ज्यायानिति सिद्धावाद्विधानं स्पष्टमेव व्यर्थ स्यात् । ननु 'द्वयोरिश्त्यादिनिर्देशेनोक्तपरिभाषाया अनित्यत्वात्किञ्चाऽङ्गोद्देश्यक कार्यन्नेत्यर्थकरणादुक्तपरिभाषाऽप्रवृत्तेः । किञ्चाऽस्या लक्ष्यसिद्धयर्थम्भाष्ये काप्यनाश्रयणाच श्याऽऽदेशाऽऽपत्तिस्तदवस्थैवेत्यत आह- उ-प्रथमयोरिति। -प्रथमयोरम् शसो नेति संहितापाठ इति भावः, नातस्संयोगान्तलोपे झल्ग्रहणाऽनुवृत्त्याऽपि दोषः । वस्तुतस्तु, न प्रश्लेषेणाऽपि निर्वाहस्तस्य भाष्येऽदर्शनादेवञ्च ( सन्निपात ) परिभाषयैवोक्ताऽऽपत्तिवारणमिति न कश्चिदोष इति दिक् ॥
ननु 'भ्यसो भ्यमिति सूत्रे भाष्ये भ्यम् अभ्यम्बाऽऽदेश इति सन्देहे यदि भ्यमाssदेशस्तदा 'शेषे लोप' इत्यन्तलोपे एत्वं प्राप्नोति, अथाऽभ्यमाऽऽदेशः शेषे लोपष्टिलोप ह. त्यन्तस्योदात्तनिवृत्तिस्वरः प्राप्नोतीत्युक्त्वा यथेच्छसि तथास्त्वित्युक्तन्तदाह-प्राधः शेषे लोपस्याऽन्त्यलोपत्व एबेति । अत्र पक्षे नैत्वमाशङ्कनोयम्, अङ्गवृत्तपरिभाषयैव तद्वारणात् । अस्या अनित्यत्वे तु सन्निपातपरिभाषयैवत्वं वारणीयम् । अभ्यमाऽऽदेशस्तु टिलो.
Aho ! Shrutgyanam