________________
हलन्तपुंल्लिङ्गप्रकरणम् ।
७५ णत्वेषु विधिषु कर्त्तव्येषूक्तवचनस्य ने प्रवृत्तिरित्यर्थकेन ( तस्य दोषः संयोगादिलोपलत्व-गत्वेषु ) इति वात्तिकेन णत्वे कर्तव्ये तदप्रवृत्तिधोधनेनादोषात् । न च तस्य दोष इति वात्तिके प्रतिपदोक्तणकारस्यैव ग्रहणं न तु लाक्षणिकस्य ष्टुत्वनिष्पन्नस्येति वाच्यम् । तत्र ताशणकारग्रहणे प्रमाणाऽभावात् । मूर्द्धन्यपदानुवर्त्तनेनैव सिद्धौ रषाभ्यामित्यत्र. त्यणकारस्य भाष्यकृता प्रत्याख्यातत्वेन प्रतिपदोक्तत्वाऽलाभाच्चेति भावः । ननु रेषाभ्यामित्येतदारम्भसामर्थ्यात्पञ्चमीसमासस्याऽनित्यत्वेन स्थानिवत्वाऽभावात्ष्टुत्वापत्तिदुरैवे. त्यत आह-कार्यकालपक्ष इति । कार्येण हेतुना काल्यते स्वसन्निधिं प्राप्यते इति कार्यकालपक्षशब्दार्थः । अत्र पक्षे स्वप्रदेशे विधिशास्त्रेण कार्यहेतोरपकृष्टायाः पृथगेव वाक्यार्थबोधो भवति न तु विधिशास्त्रेण सहेति विवेकः । एवञ्च प्रकृते ष्टुत्वविधायकशा. स्त्रेणाऽन्तरङ्गपरिभाषाऽपकर्षणात्तया तस्याऽन्तरङ्गत्वबोधनेन तत्र कर्तव्ये तदपेक्षया बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वान ष्टत्वमिति दिक् ॥ - ननु 'युजेरसमासे' इत्यनेनाऽसमास एव नुमो विधानेन सोपपदे 'चोः कुरिति कुत्वे. नैव सिद्धत्वात्विनि क्विपि च न कोऽपि विशेष इत्यत आह-निरुपपदाधुजेः कि. निति ॥
ननु सृजिशोझल्यमकिती ति सूत्रे "रज्जुसडभ्यामिति भाष्यप्रयोगात्काम्य सूत्रे "उपयरकाम्यती"ति प्रयोगाच्च 'किन्प्रत्ययस्य कुः' इति कुत्वन्नेत्याशयेनाऽऽहइह सृजि-यज्योः कुस्वन्नेति क्लीवे वक्ष्यत इति । __परिमृडिति । नन्वत्र 'मृजेर्वृद्धिरिति कुतो न वृद्धिरिति चेन्न । उक्तसूत्रेण धातु विहितप्रत्यये परे वृद्धविधानेन (धातोरुच्यमानं कायं तत्प्रत्यये ) इति परिभाषयाऽत्र मुग्निमित्तकवृद्धेरप्राप्तेः । न च क्विनो धातोविहितत्वेन तन्निमित्तिका बृद्धिदुरैवेति वाच्यम् । डिति चेति निषेधात्तन्निमित्तिकाया अपि वृद्धरप्राप्तेरिति दिक् ॥ ___ ननु 'विश्वस्य व राटोः' इत्यनेन वसशब्दे राट्शब्दे च परे दीर्घविधानादेतदृष्ट्या षत्वादीनामसिद्धत्वादाशब्दपरत्वाऽभावेन दी? न स्यादित्यत आह-राडिति पदा. न्तोपलक्षणमिति । राडित्यस्य पदान्तोपलक्षकत्वेन पदान्तराजशब्दे परे दीर्घ इत्यस्य फलितत्वान्न काऽप्यनुपपत्तिरिति भावः । न चोक्तसूत्रेण वमशब्दे दीर्घविधानादादित्यवि. श्ववसव इत्यमरवलोके कुतो न दीर्घ इति वाच्यम्। तत्र सूत्रे 'नरेः संज्ञायामित्यतः संज्ञा. पदाऽकर्षणेन संज्ञायामेव तद्विधानादित्यम् ॥
ननु त्वं स्त्री अहं स्त्री इत्यत्र मपर्यन्तस्य त्वाहादेशयोः कृतयोर्लोपेन दकारनिवृत्ती त्व अम् , अह अमित्यवस्थायां परमपि पूर्वरूपं बाधित्वाऽपरनिमित्तकत्वेनाऽन्तरङ्गत्वाट्टाप स्यात् । न च युष्मदस्मदोरलिङ्गत्वास्त्रियां विहितस्य टापोऽप्राप्तिरेवेति वाच्यम् (शिशी-लुग-नुम्विधिभ्यो युष्मदस्मदोविभक्तयाऽऽदेशाः पूर्वविप्रतिषेधेने ) तिवातिकप्रामाण्येन तयोल्लिङ्गवत्वप्रतीतेरिति चेन्न । शेष इति षष्ठयर्थे सप्तमी तथा च मर्यन्ताच्छेष. स्याऽदशब्दस्य लोप इत्यर्थेऽद इत्यस्य लोपेनाऽदन्तत्वाऽभावादुक्ताऽऽपत्तेरयोगात् । अ. न्यथा, आत्व-यत्वयोरपवादत्वेन तन्निमित्तेतरविभक्तावेव लोपप्रसको शेषग्रहणस्य वैया. ऽऽपत्तरित भावः । वस्तुतस्तु अन्त्यलोपपक्ष एव सिद्धान्तः, अत एव नचाऽऽदेशो हला.
Aho ! Shrutgyanam