________________
७४
फक्किकारत्नमञ्जूषायाम्पपन्नमिति चेन्न । तस्य यज्वन्शब्दसदृशोनर्वन् शब्दो व्यावर्त्य इत्यत्र तात्पर्यादित्या. शयेनाह-अनञः किम् । अनर्वेति ॥
ननु 'पथिमथ्यभुक्षामादिति सुने आदित्यत्र निरनुनासिकाऽऽकारोच्चारणेऽपि तपरसु. त्रस्थाऽनणीव विधीयमानेऽपि प्रवृत्त्यभ्युपगमेन सवर्णग्रहणानकारस्याऽऽन्तरतम्यादनुनासि. कः स्यात् । न चतपरस्तत्कालस्येत्यत्राणुदित्सूत्रादप्रत्ययपदाऽनुवृत्त्याविधीयमान एव तत्प्र. वृत्या न कश्चिद्घोष इति वाच्यम् । तत्राऽप्रत्ययपदाऽनुवृत्तौ विनिगमनाविरहेण दोषस्य तादवस्थ्यादित्याशक्य समाधत्ते-श्रा प्रादिति प्रश्लेषेति । अत्र प्रश्लेषेणाऽऽकारद्वयविधानात्सर्वाऽऽदेशत्वं नाऽऽशनीयम् , विशेष्य-विशेषणभावेनाऽन्वयादनेकाल्त्वाऽभावात् । प्रश्लेषेण शुद्धाया एवाऽऽव्यक्तविधानाऽनुनासिकः । न च ( भाव्यमानेन सव
नां ग्रहणं ने)ति परिभाषया सवर्णग्रहणनिषेधादोषाऽभावेन प्रश्लेषो नावश्यक इति वाच्यम् । भाव्यमानोऽण सवर्णान् न गृहातीत्येव पाठादतोऽण्त्वाऽभावा निषेधाऽप्राप्त्या सवर्णग्रहणस्य दुर्वारत्वेन तद्वयावृत्तये प्रश्लेषस्याऽऽवश्यकत्वादिति प्राश्वः । वस्तुतस्तु भाष्येऽणरहिताया एवोक्तपरिभाषयाः पाठेनाऽस्या गुणाऽभेदकत्वेन जातिपक्षेणाऽणुदित्सू. त्रेण तपरसूत्रेण च प्राप्तसवर्णग्रहणस्य निषेधकत्वेनाऽदोषात् । अनुनासिकाऽऽकारविधान. स्यैवेष्टत्वे प्रक्रियालाघवाय तथैवोच्चारणीये निरनुनासिकाऽऽकारविधानेन शुद्धाऽऽव्यक्तरेव विधानमित्युक्तत्वाच्चेति भावः ॥
शतानि सहस्राणीति । ननु शतानीत्यनुपपन्नं विंशत्याद्याः सदैकत्वे इत्यनुशास. नादिति चेन्न । एकशेषेणाऽनेकशतबोधतात्पर्य्यकत्वात् । न च कृते नुमि नान्तत्वेन षट. स्वाद्विभक्तलगिति वाच्यम् । सर्वनामसंस्थानसन्निपातेन कृतस्य नुमस्तत्सन्निपातविधातकलुगुपपादकत्वेन षट्स्संज्ञाया अपि सर्वनामस्थानसन्निपातबिघातकत्वेन ( सन्निपात ) परिभाषया तदनिमित्तत्वबोधनात् । कुम्भकारेभ्यो नगरकारेभ्य इत्यत्राऽव्ययसंज्ञावारण. परभाष्यप्रामाण्यात्परम्परासन्निपातविघातकेऽप्युक्तपरिभाषाप्रबृत्तिस्वीकारादिति भावः ॥
ननु 'रायो हली'त्यतो हलीत्यस्याऽपकर्षाद्धलादावात्वविधानेनाष्टावित्यत्राऽऽत्वन्न स्यादित्यत आह-अष्टभ्य इति वक्तव्य इति । आत्वस्य लक्षणवशसम्पन्नत्वे हि वैकल्पिकत्वेन लाघवाद्धस्वघटित एव निदृष्टव्ये कृताऽत्वाऽनुकरणं ज्ञापयति क्वचिदजादाव. प्यात्वमिति भावः । दीर्घान्तादष्टनः पराऽसर्वनामस्थानविभक्तिरुदात्तेत्यर्थके 'अष्टनो दीर्घादिति सूत्रे दीर्धग्रहणं ज्ञापयति वैकल्पिकमिदमात्वमिति, तथा हि, दीर्घाऽन्तादेवाऽष्टनः परस्या असर्वनामस्थानविभक्तेरुदात्तत्वाय दीर्घग्रहणम् तिष्ठति, आत्वस्य नित्यत्वे तु दीर्घग्रहणाऽभावेऽपि हस्वान्तादष्टनः परस्या उक्तबिभक्तेरुदात्तत्वाऽप्राप्त्या दीर्घग्रहणं स्पष्टमेव व्यर्थ स्यादिति दिक् ॥
ननु प्रियाष्टन् शब्दाच्छसि शस्येत्त्वे लोपे च कृते भत्वेऽल्लोपे प्रियाष्टन् अस् इति स्थितौ टकारयोगे नकारस्य टुत्वं कुतो नेत्यत आह-इह पूर्वस्मादपीति । 'अचः परस्मिन्निति सूत्रे पूर्वविधावित्यत्र पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासाऽऽश्रयणाद. ल्लोपस्य स्थानिवद्भावादकारेण व्यवधानात् ष्टुत्वन्नेति । न च ( पूर्वत्राऽसिद्धे न स्थानिव. दि) ति स्थानिवत्त्वनिषेधादुक्तदोषस्तदवस्थ एवेति वाच्यम् । संयोगादिलोप-लत्व
Aho! Shrutgyanam