________________
हलन्तपुंल्लिङ्गप्रकरणम् । तथा कल्पनीयं यथा फलभेदो न स्यात अत एव (१)अर्वणस्तृ-मघोनश्चेति श्लोकवार्तिकं सङ्गच्छते । अनेन च मधवनशब्दस्य लोकेऽनभिधानं बोध्यम् । बहुलग्रहणेन तथाकल्पा नायां प्रमाणान्तरं कबिप्रयोगं दर्शयितुमाह-हविर्य क्षितीत्यादि।
ननु 'हः सम्प्रसारणमित्यतः सम्प्रसारणपदाऽनुवृत्यैव सिद्धावेतत्सूत्रस्थसम्प्रसारणपदस्य सामर्थ्यात्सम्प्रसारणमात्रनिषेधकत्वेन दूरस्थस्याऽपि 'श्वयुवेत्यस्य 'व्यथो लिटी'. त्यस्य च निषेधः । न च 'न सम्प्रसारणे सम्प्रसारणमित्यतः सम्प्रसारणपदस्य व्यथो लिटीत्यत्राऽनुवृत्त्या व्यथि-व्यधिप्रभृतिधातौ चरितार्थत्वेन यून इत्यत्र प्राकृतस्य सवर्णदीर्घरूपैकादेशस्याऽचः परस्मिन्निति स्थानिवत्वादुकारेण व्यवधानात्सम्प्रसारणपरत्वाs. भावेन निषेधो न स्यादिति वाच्यम् । व्यथोऽभ्यासस्य सम्प्रसारणं स्यान्न तु यकारस्येत्यथकेन "व्यथो लिटि न य' इति न्यासेनैव सिद्धौ सम्प्रसारणग्रहणस्य यन इत्यत्र यकारस्य सम्प्रसारणनिषेधकत्वेनैव चारितार्थ्यस्य वक्तव्यत्वेन व्यवधानेऽप्येतन्निषेधप्रवृत्तरीका. रात् 'यनस्तिरिति निर्देशाचेत्याऽऽशयेनाह-इति यकारस्य नेत्वमिति । न च का. यंकालपक्षे श्वयुवेत्यत्रोपस्थितस्येग्यणः सम्प्रसारणमित्यस्य पदैकवाक्यतयाऽन्वये भसंज्ञानिमत्तिस्य यणान्वयन यकारा-धजादि-कप्रत्ययावधि-स्वाद्य-सर्वनामस्थानपरकाऽब्यव. हितपूर्वत्वविशिष्टस्य यणः सम्प्रसारणमित्यर्थे (२) (येन नाब्यवधान) न्यायेन पूर्वस्य स. म्प्रसारणाऽप्राप्त्या व्यर्थमेव सूत्रमिदमिति बाच्यम् । उक्तपक्षेऽपि संज्ञासूत्राणां वाक्यभेदेनैव सम्बन्धस्योक्तत्वेन सम्प्रसारणविधायकेषु यण इत्यस्याऽसत्वेन निमित्तस्य यणाऽन. न्वयेनाऽदोषात् । अत्रैतन्निषेधशास्त्रमपि ज्ञापकं बोध्यम् ।
ननु यून इत्यत्र सकृत्प्रवृत्त्यैवोभयोः सम्प्रसारणे जाते निषेधो व्यर्थः, किञ्चोकारस्य दीर्घ कृतेऽनल्विधाविति निषेधेन स्थानिवत्वाऽप्राप्त्या सम्प्रसारणपरत्वेन निषेधशास्त्र. प्राप्तिरेव न, किञ्च ( लक्ष्ये लक्षणं सकृदेव प्रवर्तते ) इति न्यायेन वकारस्य सम्प्रसारणवि. धानेन चरितार्थस्य श्वयुवेत्यस्य पुनरप्राप्तिबोधनेन निषेधशास्त्रं सर्वथा व्यर्थमेवेत्याशक्य समाधत्ते-अत एव शापकादन्त्यस्य यणः पूर्व सम्प्रसारणमिति । एतस्मादेव ज्ञापकादीर्घस्याऽपि स्थानिवत्त्वेन सम्प्रसारणपरत्वे निषेधः सुलभः, एतदारम्भसामर्थ्यादचः परस्मिन्निति स्थादिवत्त्वेन न व्यवधानशङ्कालेशोऽपि । न च (३)लक्ष्ये लक्षण) न्यायेन पूर्वस्याऽप्राप्तो व्यर्थमेवैतन्निषेधशास्त्रमिति वाच्यम् । कार्याश्रयवर्णभेदेन लक्ष्यभेदादुक्तन्यायस्याऽविषयत्वेनाऽप्रवृत्त्या तस्याऽऽबश्यकत्वात् । यमुद्दिश्य पूर्व प्रवृत्तिस्तमुद्दिश्यैव पुनः प्रवृत्तौ तन्न्यायविषयत्वादिति मावः ॥
ननु अनमः किमित्यस्य सूत्रेऽसावितिपय्युंदासेन सावप्राप्तावनति प्रत्युदाहरणमनु(१) अर्वणस्तृमघोनश्चेति ।
अर्वणस्तृमघोनश्च न शिष्यं छान्दसं हि तत् ।
मतुव्वन्योविधानाञ्च छन्दस्युभयदर्शनात् ॥ इति श्लोकवार्तिकस्वरूपम् । (२) येन नाव्यवधानेति । येन नाऽव्यवधान तेन व्यवहितेऽपि इति स्वरूपम् । (३) लक्ष्ये लक्षणन्यायेनेति । लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति न्यायाकारः। ७ फ०र०
Aho ! Shrutgyanam