________________
७२
फविकारत्नमञ्जूषायाम्र्धाऽप्राप्तौ प्रतिदीन इतीष्टरूपस्य सिद्धिर्न स्यादिति सन्देहे जाते समाधानमाह-नचाऽ. ल्लोपस्य स्थानिवत्त्वमिति । 'न पदान्त' सूत्रेण दीर्घविधौ कर्तव्ये स्थानिवत्त्वनिषेधाद्दीघे इष्टप्रयोगसिद्धिः।न चाऽन्तरङ्गपरिभाषयाऽन्तरङ्ग दीर्घ कर्तव्ये वहिरङ्गाऽल्लोपस्याऽसिद्धत्वेन पूर्वोक्तदोषल्य तादवस्थ्यमिति वाच्यम् । यथोद्देशपक्षे पाष्ठीमुक्तपरिभाषाम्प्रति दीर्घस्याऽ. सिद्धत्वादन्तरङ्गाऽभावेन प्रतिपाद्यस्याऽसत्वात्परिभाषाया अप्राप्तेरिति भावः ॥
ननु वृत्रघ्न इत्यत्र (१)(अनन्तरस्ये)ति न्यायेन 'अत्पूर्वस्ये' तस्य 'हन्तेरि त्येतद्वाधकत्बेन निर्णीतत्वात् 'एकाजुत्तरपदे' इत्यनेन प्राप्तणत्ववारणाऽसम्भवाण्णत्वं दुर्वारमेवेत्याशङ्कायामाह-योगविभागसमादिति । हन्तेरत्पूर्वस्येत्येकेनैव योगेन णत्वसिद्धौ पृथ. ग्योगकरणसामर्थ्यादुक्तन्यायं बाधित्वाऽत्पूर्वस्येत्यनेनाऽत्र प्रवृत्तियोग्यणत्वविधायकशास्त्रमात्रस्य बाधान्न गत्वम् । नचाऽकारस्य लोपेऽत्पूर्वत्वाऽभावात्कथं निषेध इति वाच्यम् । पूर्वस्माद्विधिरिति पञ्चमीसमासाऽऽश्रयणात्स्थानिवत्वेन निषेधाप्राप्तः सुलभत्वात् । नचाऽल्लो. पस्य स्थानिवत्वेन कुत्वं कथमिति वाच्यम् । नकारे परे कुत्वविधानसामर्थ्यादल्लोपस्य स्थानिवत्त्वाऽभावबोधनादिति भावः ॥
यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तमिति । अस्याऽयमभिप्रायः, भसंज्ञायामल्लोपेल्विधित्वेन स्थानिवत्वाऽभावादुत्तरपदस्याऽनच्त्वात् 'एकाजुत्तरपदे इत्यस्याऽप्राप्त्या 'प्रातिपदिकान्तनुम्बिभक्तिषु चे' त्यस्य प्रवृत्तौ रूपद्वयमिति-तद्भाप्यविरुद्धमिति। (कुव्यबाये हादेशे णत्वप्रतिषेधो वक्तव्यः ) किम्प्रयोजनं वृत्रहना, स्रुघ्नः, प्राधानि, हन्तेरत्पूर्वस्येत्यत्पूर्वग्रहणं न कर्त्तव्यम्भवतीति भाष्य उक्तम् भाष्यवार्ति. कयोर्णत्वाऽभावे तात्पर्येण णत्वे तु स्पष्ट एव विरोध इति भावः । न च सूत्रसत्वे प्रधना. घन इत्यत्र णत्वं तदसत्त्वे तन्न स्यादिति वाच्यम् । अत्पूर्वग्रहणस्य हस्थानिककवर्गाऽभा. वबद्धन्तेरुपलक्षणत्वेनाऽदोषात् । अत एव योगविभागमूलकवात्तिके प्रत्याख्यातेऽपि फल. भेदो नेति दिक् ॥ ___ ननु मघवन्शब्दात्सौ 'मघवा बहुलमिति मकारस्य त्रादेशे 'उगिचामिति नमि 'हल्याबिति सलोपे 'संयोगान्तस्येति तकारलोपे मघवन्निति स्थितौ संयोगान्तलोपस्याऽसिद्धत्वेन नान्तत्वाऽभावादी? न स्यादित्याशंक्य समाधत्ते-इह दीर्घ कर्तव्ये इति । मघवा बहुलमेतत्सूत्रस्थबहुलग्रहणेन दीर्घे कर्तव्ये संयोगान्तलोपो नासिद्ध इति कल्पनादुक्तदोषाऽवकाशो नेति समाधातुरभिप्रायः । बहुलग्रहणस्याऽनेकार्थकत्वेन विपरीतनियमस्यापि सम्भवात्तेन मुलोक्तनियम एव कल्पनीय हत्यत्र प्रमाणं दर्शयितुमाहतथा च श्वन्नुक्षन्नित्यादि । अयम्भावः, उक्तसूत्रेण महधातोः कन्प्रत्ययाऽबुगाऽऽगम. घकारनिपातनेन मघवा मघवानावित्यादि, धनार्थकमधशब्दान्मतुपि मकारस्य वकाराऽऽ. देशे 'अत्वसन्तस्येति दीर्घा मघवान् मघवन्तावित्यादि च द्विविधरूपमित्थं संसाध्य 'मय. वा वहुलमिाति सूत्रं कैयटः प्रत्याख्यातवान् । एवञ्च बहुलग्रहणेनाऽसिद्धात्वाऽकल्पनादारम्भे मघवन् प्रत्याख्याने मघवानिति फलभेदस्य स्पष्टत्वेन प्रत्याख्यानासङ्गतिः स्यात, "फलैक्ये प्रत्याख्यानं सम्भवति न तु फलभेद" इति भाष्यात् । तथा च बहुलग्रहणेन (१) अनन्तरस्येति । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायस्वरूपम् ।
Aho ! Shrutgyanam