________________
७१
हलन्तपुल्लिंङ्गप्रकरणम् । नेति वाच्यम् । लक्ष्याऽनुरोधेन बाधकाऽबाधितकृताकृतप्रसङ्गित्वरूपनित्यत्वस्याऽभ्युपग. मात् । 'अनाऽप्यक' इत्यस्य 'हलि लोप' इत्यनेन बाधेनाऽतथात्वादिति भावः ।।
ननु अनुदात्तत्वविधानेनैव त्यदाद्यत्वे हलि लोपेनाऽऽभ्यामित्यादि समीहितरूपोपपत्तावलमविधानेनेत्याशंक्य समाधत्ते-अशुवचनं साकच्काऽर्थमिति । शित्त्वादकविशिष्टस्याऽऽदेश इति भावः । न च 'त्यदादीनाम' इत्येतद्विहिताऽकारस्याऽकारवि. धानसामर्थ्यादेव सर्वादेशत्वसिद्धौ शित्करणं ब्यर्थमेवेति बाच्यम् । अकारविधानसामर्थ्यासर्वादेशवत्सपि चेति दीर्वाऽभावस्यापि ज्ञापनसम्भवात् । एवञ्च स्पष्टार्थमेवाऽशग्रहणमि. ति भावः । केचित्तु अनुदात्तत्वार्थमेवाऽकारविधानमिति सन्देहव्यावृत्यर्थमशग्रहणमिति वदन्ति । वस्तुतस्तु अन इति प्रश्लेषादकारद्वयविधानसामर्थ्यात्सर्वाऽऽदेशत्वसिद्धावश्न हुणं व्यर्थमेवेति बोध्यम् ।।
नलोपः, राजेति । ननु राजानित्यस्य प्रत्ययलक्षणेन सुबन्तत्वात्पदत्वेऽपि तेनैब प्रत्ययलक्षणेन प्रत्ययान्तत्वादप्रत्यय इति निषेधेन प्रातिपदिकत्वाऽभावान्नलोपो न स्याप्रातिपदिकर्सज्ञकं यत्पदं तदन्तनकारस्यैव लोपविधानादिति चेन्न । अप्रत्यय इत्यत्र पर्यु. दासात्प्रत्ययान्तभिन्नस्य प्रत्ययान्तसशस्य प्रातिपदिकत्वमित्यर्थे यथोदेशपक्षे प्राकृतां प्रातिपदिकसंज्ञामादाय नलोपोपपत्तेः । न च कार्यकालपक्षे तादवस्थ्यमेवोक्तदोषस्येति वाच्यम् । व्यवस्थितपक्षद्वयमध्ये एकतरपक्षेण लक्ष्यसिद्धावितरपक्षेण दोषदानस्य भाष्ये काऽप्यनुपन्यासात् । न चाऽप्रत्यय इत्यत्र प्रसज्यप्रतिषेधाऽऽश्रयणे प्रत्यायान्तस्य प्रातिप. दिकत्वाऽविधानादत्र पक्षे लोपेनैव जातनिवृत्तेरपि वक्तुं शस्यत्वेनोक्तदोषो दुर्वार एवेति वा. च्यम् । 'न डि सम्बुद्वयोरिति निषेधसामर्थ्यात्प्रत्ययलक्षणेन प्रत्ययान्तत्वमादाय न निषे. धप्रवृत्तिरिति ज्ञापनेनाऽदोषादिति भावः ।।
ननु राजञ्छब्दाच्छशि 'लशक्वेति शस्येत्त्वे 'यचिभमिति भत्वे 'अल्लोपोऽनः' इत्य. ल्लोपे राजन् असित्यवस्थायाम 'अचः परस्मिन्नित्यत्र पञ्चमीसमासाऽश्रयणादल्लोपस्य स्था. निवत्वेन व्यवधानाच्चुत्वाऽप्रातौ राज्ञ इति न सिद्धयोदित्यत आह-नचाल्लोपः स्था. निवदिति । पूर्वत्राऽसिद्धे न स्थानिवदिति स्थानिवत्त्वनिषेधान्न चुत्वाऽनाऽऽपत्तिरिति भावः । न च षष्ठाऽध्यायस्थ 'वाह अठिति सूत्रस्थोग्रहणेन ज्ञापितयाऽन्तरङ्ग परिभाष याऽन्तरङ्गे श्रुत्वे कर्तव्ये बहिरङ्गाऽलोपस्याऽसिद्धत्वबोधनात्पूर्वोक्तस्य श्रुत्वाऽनाऽऽपत्तिरू. पदोषस्य तादवास्थ्यमेवेति वाच्यम् । यथोद्देशपक्षे उक्तपरिभाषाम्प्रति श्रुत्व विधायकशा. खस्याऽसिद्धत्वादन्तरङ्गशास्त्राऽभावेन प्रतिपाद्याऽभावात्परिभाषाऽप्रवृत्तः, तथा च श्चुत्ने कस्याऽपि व्यवधानरूपप्रतिबन्धकस्याऽसत्त्वादुक्तप्रयोगोपपत्तिः सुलभैव । न च कार्यकालपक्षे विधिशास्त्रप्रदेशे कार्याथं परिभाषाऽपकर्षणादस्या उक्तशास्त्रदेशस्थत्वादिमाम्प्रत्यन्तरङ्गशास्त्रासिद्धत्वाऽभावेन परिभाषाप्रवृत्तौ बाधकाऽभावात्पूर्वोक्तदोषस्तदवस्थ एवेति वाच्यम् । एकतरपक्षेण लक्ष्यसिद्धौ पक्षाऽन्तरमवलम्व्य दोषदानस्य भाष्ये कायनाऽऽश्र. यणात् । वस्तुतस्तु कार्यकालपक्षेऽप्युक्तपरिभाषाऽप्रवृत्तेरुक्तत्वाचेति दिक् ॥
नुन प्रतिदिवन् शब्दाच्छसि शस्येत्वे भत्वे अल्लोपे प्रतिदिवन अस् इति स्थितौ पञ्च. मीसमासाऽश्रयणादचः परस्मिन्निति स्थानिवत्वादिकारस्योपधात्वाऽऽभावाद्धलि चेति दी.
Aho ! Shrutgyanam