________________
फक्किका रत्नमञ्जूषायाम्-
निवच्चेन सोईल्परत्वाऽभावाल्लोपो न स्यादिति चेन्न । पूर्वत्राऽसिद्धे तन्निषेधेनाsदोषादिति भावः । वस्तुतस्तु " न हि पदान्ताः परेऽणः सन्ति, ननु चायमस्ति कर्तृ हि लणसूत्रस्थभाष्यात् 'भो - भगो' इति सूत्रस्थभाव्यस्यैकदेश्युक्तित्वेन वृक्षव् कमलित्यादेरनभिधानमेवोचितमिति दिक् ।।
E૦
ननु कमलशब्दात्सप्तमीबहुबचने सपि पूर्वोक्तरीत्या अल्लोप - णिलोपयो: स्थानिवत्वेन व्यवधानात्पत्वाऽनाऽऽपत्तिरिति चेन्न । पूर्वत्राऽसिद्धे न स्थानिवदिति तन्निषेधेन तदुपपत्तेरित्याशयेनाऽऽह - षत्वं कमलिष्वति ॥
ननु 'त्यदादीनामः' इत्यस्माच्यदादेरित्यनुवर्त्य त्यदादीनामिमः अः स्यादित्यर्थेनैवे. gest 'किमः कः' इत्यत्र ककारोच्चारणं विफलम् । न च त्यदादिप्रयुक्तकार्य्यस्य द्विपन्तानामेवेष्टत्वेन किमस्तद्वहितत्वादिष्टप्रयोगो नोपपद्येतेति वाच्यम् । द्वेः प्राकू किमः पाठेनैवोपपत्तेः । न च इम इत्यस्य षष्ठीनिर्दिष्टत्वादलोऽन्त्यपरिभाषोपस्थितावन्त्यस्यादेशा पत्तिरिति वाच्यम् । नानर्थकेऽलोऽन्त्य विधिरित्यनेन तन्निषेधात् । न च द्वेः प्राकू किसः पाठाभ्युपगमे स च कश्चेत्येकशेषे किमः शेषापत्तिरिति वाच्यम् । साकच्कादेशविधानपरभाष्यप्रामाण्येनैकशेषे त्यदादीनां द्विपय्र्यन्तानामिति नियमस्य बाधात् तादृशप्रयोगान भिधानाच्च । न च 'कुतिहोरि त्याद्यर्थं किमः ककारोच्चारणमन्यथेमः कादेशे कद्वयश्र वापत्तिरिति वाच्यम् । तत्राप्युतिहोरिति न्यासेनैव निर्वाहात् । न च 'क्वाती' त्यर्थ' ककारोच्चारणमन्यथोक्तदोषाऽऽपत्तिरिति वाच्यम् । तत्र वातीतिन्यासेनैवादोषात् । एवञ्च व्यर्थमेव ककारोच्चारणमित्याशङ्कां समाधत्ते -- श्रकचसहितस्याऽप्ययमादेश इति । व्यर्थं ककारोच्चारणं ज्ञापयति साकच्कस्य किमः कादेश इति, अन्यथाsकवि शिष्टस्य तस्येम आदेशे कक इत्यापद्येत तथा न्यासे तु साकच्कस्याऽपि तस्य ( १ ) ( तन्ममध्यपतित ) न्यायेन किम्शब्दत्वात्सुलभ एवादेश इति भावः । न च भिन्धकीत्यत्राडकचि घित्वं न प्राप्नोति निर्दिश्यमानपरिभाषयेत्याशङ्क्याऽन्तरङ्गत्वाद्धित्वे ततोऽकजिति भाष्यात्साकच्कस्य निर्दिश्यमानत्वाऽभावाद्यथान्यासेऽपि कथमादेश इति वाच्यम् । किमः क इत्यस्याssवृत्या एकेनाऽकज्रहितस्य द्वितीयेन साकच्कस्यादेश इति कैयटोक्तस माधानेनाऽऽदेशस्य सौलभ्यादिति भावः | वस्तुतस्तु अकचि घित्वं न प्राप्नोतीति भाष्यस्य अऋचरक्षकं धित्वं न प्राप्नोति, निद्दिश्यमानपरिभाषया सम्पूर्णस्य स्यादित्याशयः, अत एव 'अनाऽव्यक' इत्यत्राsकोरिति चरितार्थम्, अन्यथा तन्मध्यपतितन्यायगृहीतस्या निर्दिश्यमानत्वेनैवादेशाऽप्राप्तौ तस्य स्पष्टमेव वैयर्थ्यमित्यलम् ॥
ननु इद ए इति स्थितौ स्मायाऽऽदेशात्परत्वादनादेशे (२) (सकृद्भुति) न्यायेन पुनः स्मायादेशो न स्यादित्याशङ्क्य समाधत्ते - नित्यत्वान्ङः स्मै इति । ( ३ ) कृताऽकृतप्रसङ्गिनो विधेर्नित्यत्वेन स्मायादेशस्यानाऽदेशे कृतेऽकृते च प्राप्त्या नित्यत्वादनादेशं बाधित्वा स्मायादेश एव जातः । न चानादेशस्याप्युक्तरूपनित्यत्वस्य सत्वादयमेव कुत्तो
(१) *तन्मध्यपतितेति । तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति तत्स्वरूपम् । (२) *कृतीति । सकृद्वतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवेति स्वरूपम् । (३) *कृताकृतेति । तदुक्तं कच्चित्कृताकृतप्रसङ्गमात्रेणापि निस्यतेति ।
Aho! Shrutgyanam