SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ हलन्तपुल्लिङ्गप्रकरणम् । ननु मुद्यौरित्यत्र स्थानिवत्वेन सोहेलः परत्वाद्धल्ड्याबिति लोपो दुर्वार इति सन्देई निवर्तयति-अल्विधित्वेन स्थानिवभावाद्धयाविति सुलोपो नेति । अ. विधावित्यत्र पखमीसमासस्याऽऽश्रयणादलः परस्य विधौ न स्थानिवदित्यर्थो स्थानिवत्व. निषेधान्न दोष इति भावः ।। ननु णत्वापेक्षया द्वित्वस्य परत्वेन पूर्व द्वित्वे ततो गत्वे णत्वं द्वित्वमिति मृलोक्तमयुक्तमिति चेन्न । 'पूर्वत्राऽसिद्धिमि' त्यनेन पूर्वत्र कर्तव्ये परस्याऽसिद्धत्वबोधनाण्णत्वहट्या द्वित्वस्याऽसिद्धत्वेन प्राक् गत्वस्यैव प्रवृत्तेः न च (१)पूर्वत्रासिद्धीयमद्वित्वे इति परिभाषया द्वित्वमिन्ने कार्ये कर्तव्ये उक्तशास्त्रप्रवृत्तेनिर्णीतत्वेन प्रकृते द्वित्वस्यैव कर्त्तव्यवात्तदप्रवृत्तौ परत्वाद्वित्वे प्राक् प्रदर्शितदोषस्य तादवस्थ्यमेवेति वाच्यम् । संय्यन्तेत्यत्र त्रियकारकरूपसिद्धयर्थमावश्यकेन (द्वित्वे परेसवर्णत्वं सिद्धं वक्तव्यम्) इति वार्तिकेनोक्तप. रिभाषाया वर्णद्वित्वे प्रवृत्तिकल्पनात् , अन्यथा द्वित्वं प्रत्युक्तपरिभाषया पूर्ववेत्यस्याऽ. प्रासौ परसवर्णस्य सिद्धत्वेन द्वित्वे कृते भाष्योक्तप्रयोगोपपत्तायुक्तवार्तिकं स्पष्टमेव व्यर्थ स्यादेवञ्च द्वित्वे कर्त्तव्येऽपि पूर्वत्राऽसिद्धमित्यस्य प्रवृत्तौ द्वित्वस्यासिद्धत्वेन णत्वस्यैव प्रवृत्तावुक्तदोषाऽभावात् । न च वाक् वाक्क् इति भाष्योदाहरणोपपत्तये वर्णद्वित्वेऽप्युक्त. परिभाषाप्रवृत्तिरावश्यकी अन्यथा पूर्ववेत्यनेन चत्वात्प्राग्गस्यैव द्वित्वेऽन्त्यस्य चत्वें पूर्वत्र गश्रवणापत्तिः । न च खरिचेत्यनेन पूर्बगस्य चत्वेन तत्सिद्धिरिति वाच्यम् । अवसान. चर्वस्यासिद्धत्वेन खर्परत्वाऽभावाचाऽप्राप्त्या गश्रवणाऽऽपत्तेदुर्वास्त्वात्। न च कस्य द्वित्वेऽप्यवसाने चर्वस्याऽसिद्धत्वाद्कारे झशि परे पूर्वस्य जश्त्वे उक्तरीत्यैव चाऽभावाद्गश्रवणं दुर्वारमिति वाच्यम् । 'न मुने' इतिवत्पूर्वत्राऽसिद्धीयमित्यस्य द्वित्वे कृतेऽपि प्रत्यासत्या द्वित्वाऽऽश्रयस्य कार्ये कर्तव्येऽसिद्धत्वन्नेत्यर्थेऽवसानचवस्याऽसिद्धत्वाऽभावेन झशपरत्वाऽभावात्पूर्वककारस्य जश्त्वाऽनापत्त्या गश्रवणाऽपत्तिरूपदोषस्य विलयापत्तेः । एवञ्च प्रकृतग्रन्थस्य कथं संगतिरिति चेन्न । द्वित्वे कर्तव्येऽन्यदसिद्धन्न द्वित्वन्त्वसिद्धमेवे. त्युक्तपरिभाषाऽर्थकरणेन द्वित्वात्प्राङ्गत्वे ततो द्वित्वे तत्सङ्गतेरिति भावः ।। ननु 'षट्-चतुर्व्यश्चेति सूत्रे (२) (गौणमुख्य ) न्यायेन मुख्यार्थवाचकचतुशब्द. स्यैव ग्रहणात्प्रियचतुर् शब्दस्य गौणत्वेनाऽग्रहणान्नुण न स्यादित्याशयेनाऽऽह-गौणत्वे तु नुट नेष्यत इति । केचित्तु सूत्रे बहुबचननिर्देशसामर्थ्याद्वहुत्वार्थकस्यैव चतुशब्दस्य ग्रहणादेकत्वाद्यर्थवाचकस्य तस्याऽग्रहणेन नुण नेति वदन्ति तन्न, बहुवचननिर्देशस्य लाघ. वार्थत्वेन तस्मादुक्तकल्पनायाः कर्त्तमशक्यत्वादित्यलम् ।। ननु कमलशब्दात्तत्करोति तदाऽऽचष्टे इति णिचि, इष्टवद्भावेन टिलोपे ततः कर्तरि विपि णे रनिटी ति णिलोपे ततः प्रातिपदिकत्वेन सोरुत्पत्तौ तस्य 'हल्ड्याविति लोपे कमलिति सिद्धयति, अत्र अचः परस्मिन्नित्यत्र पञ्चमीसमासाश्रयणादल्लोप-णिलोपयोः स्था (१)पूर्वत्रासिद्धीयमिति*-द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । पूर्वत्रासिद्धमित्यधिकारभवं शास्त्रमस्या लिङ्गम् । अत्र च सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैवास्याः प्रवृत्तिरिति बोध्यम्। (२) *गौणमुख्येति । गौणमुख्ययोर्मुख्य कार्यसंप्रत्यय इति तत्स्वरूपम् । Aho ! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy