________________
फक्किकारत्नमञ्जूषायाम्-- त्यादावियङ् न स्यादावित्यस्य धातुसंशब्दनेन विहितप्रत्ययत्वाभावादिति वाध्यम् । वस्तुत इयोऽङ्गस्यैवोच्यमानत्वेन धातोरभावेनोक्तपरिभाषाऽप्रवृत्तेरिति भावः ॥
ननु 'वहश्चेति सूत्रे 'छन्दसि सहः' इत्यतश्छन्दोग्रहणाऽनुवृत्त्या वहेरपि छन्दस्येव विविधानेन लोके विश्ववाहशब्दस्य कथं प्रयोग इत्यत आह-छन्दस्येव रिवरिति पक्षे तु णिजन्ताद्विजिति । णिजन्ताद्विश्वशब्दपूर्वका द्वाहेविचि णिलोपे लोकेऽपि विश्व. वाहशब्दप्रयोग उपपन्न इति भावः । नचाङ्ग-भसंज्ञाऽऽक्षिप्तप्रत्ययेन वाहो विशेषणादजादिप्रत्ययपरकाऽव्यवहितपूर्वस्य वाहःसम्प्रसारणमित्यर्थे णिलोपस्य स्थानिवत्वेन व्यवधाना
सम्प्रसारणं न स्यादिति वाच्यम् । विचः विपोपलक्षकत्वेन को लुप्तं न स्थानिवदिति स्थानिवत्त्वनिषेधेनाऽदोषात् । न चोक्तस्थानिवत्त्वनिषेधवचनस्य संकुचितविषयत्वेन को विधि प्रति न स्थानिवदित्यस्य' विपशब्देन विहितविधावेव प्रवृत्त्यभ्युपगमेन वच्यादि. भ्यो विहिते किति संप्रसारणमिति 'वचिठपीत्यस्य व्याख्यानेन गिजन्तात्विपोऽविहितत्वेन निषेधाऽप्राप्त्या स्थानिवत्त्वस्य दुर्वारत्वाद्वयवधानेन सम्प्रसारणं न स्यादिति वाच्यम् । 'विभाषा पूर्वाहेति सुत्रे भाष्ये प्रष्टौह आगतं प्रष्ठवाड्रूप्यमिति लौकिकविग्रहवाक्ये प्रष्टौह इति प्रयोगदर्शनेन लोकेऽपि क्वचिण्विरिति कल्पनेनोक्तापत्तेरयोगादिति दिक् ॥
ननु सामान्यविहितस्य व्यापकविषयताकस्याऽऽमोऽपेक्षया नुमोविशेषविहितत्वेन व्या. प्यविषयकत्वात्तक्रन्यायमुलकेन(१) (येन नाप्राप्ति) न्यायेन नुमाऽऽमो बाधे पुनरामोऽ प्राप्त्याऽनड्वानिति, एवं सम्बोधने नुमाऽमो बाधेन हे अनड्वन्निति च नोपपद्यतेत्याशय समाधत्ते-आदित्यधिकारादिति । 'आच्छीनद्यो मित्यतस्तदनुवर्तनादनदुहशब्दाs. न्त्यावर्णात्परो नुमित्यर्थेऽम उपजीव्यत्वान्न ततः प्रानुमः प्राप्तिरिति न कश्चिद्दोषः, उप. जीव्योपजीकयोवर्बाध्यबाधकभावो न भवति, यथा पितुरुत्पन्नः पुत्रः पितरं न हन्यात् एवं पिता पुत्रं न हन्यादिति भावः ॥ ___ ननु अनड्वानित्यत्र नकारस्य दत्वं कुतो नेत्याशंक्य समाधत्ते-नुम्विधिसाम
र्थ्याद्वसुत्रंस्विति दत्वं नेति । विधानसामर्थ्यादविकृतेनैव नुमा सर्वत्र भवितव्यन्न तु विकृतेन, अन्यथा विधानस्य नैरर्थक्यापत्तेः । नकारस्य दत्वेऽवश्यमेव नुमो विकृतत्वापत्तिरिति न दत्वमिति भावः । न च विधानसामर्थ्यानुमो रत्ववारणेऽनड्वांस्तत्रेत्यत्राs पि रुत्वानापत्तिरिति वाच्यम् । तत्रोपदेशवैयाऽभावात् । यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेनिमित्तं नासौ वाध्यते इति । दत्वं प्रति नुम्बिधेरनर्थकत्वेन नुमा दत्वबाधो जातः, रुत्वं प्रति नुमो निमित्तत्वेन न तेन रुत्वबाध इति भावः ॥
हे अनड़वन्निति । नन्वत्र सम्बुद्धिलोपेऽवश्य प्राप्तेऽम आरम्भादमोऽपवादत्वादनेन सम्बुद्धिलोपबाधेनैतद्विषये सम्बुद्धिलोपो न स्यात् । न च विषयभेदे बाध्य-वाधकभावाऽभावेन नोक्तदोष इति वाच्यम् । विषयभेदेऽप्यचिरादेशस्य नुडपवादत्वमिति सप्तमे भाष्ये शड़ितत्वादिति चेन्न । प्रत्ययलोपविधायकशास्त्रैः प्रत्ययाऽनुत्पत्तेरेवाऽन्वाख्यानेनाऽपवादत्वस्यैवासम्भवादिति भावः ।।
(१) *येन नेति । येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवतीति न्याय. स्वरूपम्।
Aho ! Shrutgyanam