________________
हलन्तपुल्लिङ्गप्रकरणम् ।
ढत्वमित्यर्थकस्य होढोग्दा देरितिन्यासस्याऽभ्युपगमे घुडित्यादौ दादित्वेन तद्भिन्नत्वाभा वाढत्वानापत्तिरिति वाच्यम् । 'वा गृहमुद्देति सूत्रे वाग्रहणस्य समुच्चयार्थकत्वेन ढस्याऽनुवृत्तौ तद्विधानेनाsदोषात् । नचैवमपि दादित्वेन दामलिडित्यत्र ढत्वन्न स्याहादिभिन्नधातुह स्यैव तद्विधानादिति वाच्यम् । उत्तरयोगे दादिपदस्योपदेशिकदादित्ववत एव ग्रहणेन पूयोगेऽप्यर्थाऽधिकारानुरोधात्तादृशस्यैवाऽदा दिघटकदादिपदस्य ग्रहणेन तदुपपत्तेः । उक्त. व्याख्यानलब्धोपदेशपदग्रहणेन किम्फलमित्याह -- उपदेशे किमिति । (१) अव्याप्त्यतिव्या सिदोषव्यावृत्त्यर्थमावश्यकमुपदेशपदसू । तथा हि, अधोगित्यत्राsडागमे दादित्वाऽ भावाद्वत्वं नेत्यव्याप्तिः, दामलिडित्यत्र दादित्वेन घत्वं स्यादित्यतिव्याप्तिरिति भावः ॥
६७
ननु सम्भवति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमिति सिद्धान्तः, तथा च लाघ. बात्सामानाधिकरण्यान्वयस्याऽभ्युपगमे एकाजूपो यो धातुर्झपन्तस्तदवयवस्य वशो भषित्यर्थं गर्द्ध बित्यादौ भ भावो न स्यात्तस्याऽनेकाच्त्वादिति वैयधिकरण्यान्वय एव युक्त इत्याशयेनाह - एकाचो धातोरिति ॥
झलीतिनिवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यादिति ॥ न च धुग्भ्यां धुवित्यादौ भाभावार्थ झलीत्यस्यावश्यकत्वेन मूलोक्तमसमीचीनमिति वाच्यम् । पदान्ते इत्येव तत्र तदुपपत्तेः । न च बुबुद्धिध्ये इत्यत्र भष्भावनिवृत्त्यर्थं ध्वमो झलीति विशेषणस्याssवश्यकत्वेन निवृत्तमित्युक्तिरसंगतेति वाच्यम् । इदो ध्वमवयवस्वाऽभावेऽपि भष्भावनिमित्त - वशब्दानवयवत्त्वादेकाच्-ध्वशब्दयोरिटा व्यवधानेन स्वत एव भष्भावाऽप्राप्त्या दोषाsभावेन झलीतिविशेषणस्यानावश्यकत्वेन मूलोक्तस्य सुसंगतेरिति भावः ।
हेर्घत्वे धात्ववयवमेकाजूपं द्रु इति उघिति च तत्राऽऽद्यो न झषन्तोऽन्त्ये नवश् घिति तु नाऽवयव इति भष्भावो न स्यादित्यत आह - (२) व्यपदेशिवद्भावेनेति । एकस्मिन्नसहाये व्यपदेशिना मुख्यव्यवहारवता तुल्यो मुख्यो व्यपदेशो व्यवहारो भवतीति तदर्थः ।
ननु धुरित्यादेः प्रातिपदिकत्वाद्धातुत्वाऽभावेन तत्कार्य भष्मावो न स्यादिति चेन्न । 'अत्वसन्तस्य चाधातोरिति सूत्रेऽधातोरिति निषेधसामर्थ्येनाऽप्रधानक्रियावाचकस्यापि धातुत्वबोधनेन तदुपपत्तेः । न च ( ३ ) ( धातोरुच्यमानं कार्य्यं तत्प्रत्यये ) इति परिभा या धातुशब्दमुच्चार्य विहितप्रत्यये एव तत्कार्य्यविधानादिहाऽतथात्वेन धातुकान स्यादिति वाच्यम् | भष्भावस्य धातुकार्य्यस्य पदान्तनिमित्तत्वेन प्रत्ययनिमित्तत्वाऽमा. वादुक्तपरिभाषाऽप्रवृत्तेः । प्रत्यये परे धातोरुच्यमानं काय्यं धातुशब्दमुच्चार्य विहितप्रत्यये एव भवतीति परिभाषाऽर्थ इति भावः । अत एव 'नछन्य प्रशानिति सुत्रेऽप्रशा. नूग्रहणं चरितार्थम्, अन्यथा 'मो नो धातोरि' त्यत्राप्युक्त परिभाषाप्रवृत्तौ नत्वाप्राप्त्या रुत्वासम्भवेन तद्ध्यावृत्यर्थन्तद्ग्रहणं व्यर्थमेव स्यात् । न चोक्तपरिभाषाप्रवृत्तौ सुधियावि
1
( १ ) *अव्याप्तीति । लक्ष्ये लक्षणाऽगमनमव्याप्तिः । अलक्ष्ये लक्षणगमनमतिव्याप्तिः । ( २ ) *व्यपदे शिवदिति । व्यपदेशिवद्भावोऽप्रातिपदिकेनेति परिभाषास्वरूपम् । पूवदिनिरत्येकयोग एव कर्तव्ये पृथग्योगकरणमस्या ज्ञापकम् ।
1
( ३ ) धातोरिति । धातोरुच्यमानं यत्कार्यं तत् धातुविहिते प्रत्यये भवतीत्यर्थः । अत्र भ्रौणहत्ये तत्वविधानमस्या ज्ञापकम् ।
Aho! Shrutgyanam