________________
फकिकारत्नमञ्जूषायाम्--
नित्यत्वेऽचिग्रहणस्य ज्ञापकत्वं युक्तमेव । तथा च, अनित्यत्वपक्षे तदप्रवृत्या प्रत्ययलक्षणेन सम्बुद्धिपरत्वाद्गुणे हे वारे इत्यपि साधु सत्येवं प्रयासमन्तरेणैवोक्तभाष्यप्रयोगोपपत्तिरित्यलं पल्लवितेन ॥
ननु भाषितपुंस्केत्यस्य भाषितः पुमान्येन शब्देनेत्यर्थकरणेऽनादिशब्दे तत्सत्वेऽपि पीलुशब्देनाऽपि पुंसो भाषितत्वात्तत्र पुंवद्भावातिप्रसङ्गो दुर्वारस्तस्माद्भाषितः पुमान्यस्मि. न्प्रवृत्तिनिमित्तरूपेऽर्थे इति बहुब्रीहिः । प्रत्यासत्या भाषणक्रियया स्वकरणत्वेनाक्षिप्तशब्दश्च काबेन समानाऽनुपूर्वीकः समानार्थश्च गृह्यते, ततोऽादित्वादचि भाषितपुंस्क इति, त. स्फलितमाह-प्रवृत्तिनिमित्तैक्ये इति । तत्वञ्च वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितीयप्रकारताश्रयत्वम् एकस्मिन्प्रवृत्तिनिमित्ते भाषितपुंस्कस्य शब्दस्य पुंवद्भाव इति तदर्थः । यस्य शब्दस्य पुंनपुंसकयोरेकप्रवृत्तिनिमित्तं तस्य पुंवत्वमिति पर्य्यवसितोऽ. र्थः। तथा च, अनादिशब्दस्य पुंसि क्लीवे चाऽऽरोपिताऽऽदित्वं प्रवृत्तिनिमित्तिमेकमेवेति भवत्येव पुंवत्त्वम् । पीलुशब्दस्य तु बृक्षे वृक्षत्वव्याप्यजातिः प्रवृत्तिनिमित्तं फले फलत्व. व्याप्यजातिः प्रवृत्तिनिमित्तमित्युभयकजातेस्तत्त्वाऽभावेन न पुंवत्त्वमित्यभिप्रेत्याहपीलुने अत्र न पुंवत् प्रवृत्तिनिमित्तभेदादिति ॥
ननु परि आमिति स्थितावचपरत्वेन प्राप्तनुमं बाधित्वा (नुमचिरे)ति नुटि ततो हल्परत्वात ( एकदेशविकृत ) न्यायेन रायो हलोत्यात्वे प्रराणामिति माधवः । अस्यायम्भावः, नुण निमित्तीभूतहस्वीयसन्निपातो दीर्धणाऽवश्यं विनाश्य इति सन्निपातपरिभाषाया अविषयत्वेनाऽप्रवृत्याऽऽत्वे बाधकाऽभावाद्युक्तमेवोक्तरूपं सामान्यतो नुविषये उक्तपरिभाषाया अप्रवृत्तेरिति तद्भावः । नचैवं रामाणामित्यत्र नामीत्यनेन नुनिमित्तहस्वसन्निपातविघातस्यावश्यं जायमानत्वादुक्तपरिभाषाऽविषयत्वेन सपि चेति दीर्घ कथमुक्तपरिभापाप्रवृत्तिरिति वाच्यम् । नामीति दीघेण नित्यत्वात् सपि चेति दीर्घस्य बाधेनाऽप्रबृत्याऽऽवश्यकत्वेनोक्तपरिभाषयैव तदप्रवृत्तिकल्पनादिति । परमेतदाशयः 'भान्नलोपा इत्यत्र पाष्ठभाष्य कैयटविरोधादुपेक्ष्यः, तत्र हि नमः शकारोचारणाऽभावे नान्नलोप इति न्यासे यज्ञानामित्यत्र दीर्घ-नलोपयोः प्राप्तौ परत्वान्नलोप इत्युक्तम्भाष्ये। सामान्यापेक्षज्ञापने तु नलोपापेक्षया सपि चेति दीर्घस्य परत्वादस्यैव प्रवृत्तौ तदसङ्गतं स्यादिति नामिति दीघे कर्त्तव्य एवोक्तपरिभाषाऽनित्यत्वं नान्यत्रेत्यरुचेः, 'कष्टायेति निदेशेनाऽनित्यायाः सन्निपातपरिभाषायाः सुपि चेति दीर्घऽप्रवृत्तिकल्पनेऽपि सामान्यतो दीघेऽप्रवृत्तिकल्पनाया न किमपि विनिगमकमित्यरुचेश्चाह-वस्तुतस्तु, प्ररीणामिति । इत्यजन्ता नपुंसक. लिङ्गाः ।।
अथ हलन्तपुंल्लिङ्गप्रकरणम् । ननु 'दादेर्धातोर्घः' हत्यत्र भाष्ये धुगित्यत्र ढत्वमाशंक्याऽपवादत्वेन समाधाय, अथ. वा एवं वक्ष्यामि होढोऽदादेरिति ततो धातोर्घ इति दादेरिति वर्तते नेति निवृत्तिमित्यु.. क्तम् । एवञ्चाऽदादिधातुहकारस्य ढत्वविधानेनैव दादिधातुहकारस्य घत्वसिद्धौ भाष्यकृ. ताऽनुवृत्तस्य दादिपदस्योत्तरयोगे फलान्तराऽभावेन सामर्थ्याहादिपदमौपदेशिकदादित्ववदुपलक्षकमित्यभिप्रायेण फलिताऽर्थमाह-उपदेशे इति । न च दादिभिन्नधातुहकारस्य
Aho ! Shrutgyanam