________________
अजन्तनपुंसकलिङ्गप्रकरणम् । भूयोधर्मवत्त्वम् । तथा च, शसादिभिन्ने शसादिसदृशे प्रत्यये पदाचादेश इत्य. र्थः सम्पन्नः । शसादिसादृश्यं सुप्त्वेनैव ग्राह्यं न तु पदत्वेन तथा सति 'हृदयस्य हृल्लेषे' त्यादे बैयर्थ्यापत्तेः । शसादिपरत्वञ्च 'न लुमते'त्यस्याऽनित्यत्वाद्वोध्यम् । एवं व्याख्यानेन मांसपचन्या उखाया इति भाष्यप्रयोगे उसपरत्वेन मासशब्दस्य मांसित्यादेशोपपत्तिः मुलभैवेति।
न च लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि ।
समो वा हिततयोमीसस्य पचियुड्-घोः ॥ इत्यनेनैव सिद्धावलं प्रकारार्थप्रभृतिग्रहणेनेति वाच्यम् । ल्युडन्त उत्तरपदे तेन विधानादयस्मयादिगणे पाठेन 'अयस्मायादीनि छन्दसि' इति भसंज्ञया पदसंज्ञाबाधेन पचन. स्योत्तरपदत्वाऽभावात्तदप्रवृत्तेरिति दिक् ॥
ननु 'पदन्न' इति सूत्रे 'शीर्ष श्छन्दसी' त्यतश्छन्दोग्रहणाऽनुवृत्त्या छन्दस्येव पदाद्यादेशप्राप्तौ लोके पदाद्यादेशः कथमिति चेन्न । मादिश्शरद्भिर्दुरोदरन्तवेत्यस्य सिद्धयर्थ 'अ. पोभिरि'त्यत्र ( मासश्छन्दसी) ति वार्तिकेन छन्दोग्रहणाऽनुवृत्यावश्यकत्वादनत्यछन्दो. ग्रहणानुवर्त्तनेनैव पद्दन्न इत्यत्रापि छन्दसि विधानलाभे तत्र शीर्ष श्छन्दसीत्यऽतोनुवृत्तं छ. न्दो ग्रहणं व्यर्थ सज्ज्ञापयति लोकेऽपि क्वचित्पदाधादेशा भवन्तीति ज्ञापनेन सिद्धरित्याशयेन पंक्तिमिमामवतारयति-पदन्न इत्यत्र हि छन्दसीत्यनुवर्तितं तथापीत्यादि ।
ननु श्रियं पाति यत्कुलमिति विग्रहे श्रीपशब्दाच्चतुर्थे कवचने यि कारस्येत्वे लोपे च 'डेर' इति यादेशे 'सुपि चेति दीर्घ श्रीपायेति सिद्धयति । अत्र यकारे पूर्वस्य भत्वात् 'आतो धातोः' इत्याकारलोपः कुतो नेति चेन्न । सन्निपातपरिभाषाविरोधात् । तथा हि, अत्वजातीयमुपजीव्य जायमानस्य यादेशस्य भसंज्ञाद्वारा तजातीयाऽऽकारविघातनिमित्तत्वं न स्यादुपजीव्यविरोधात् । उपजीव्यविरोधो न न्याय्य इत्युक्तत्वात् । न च रामायेत्यत्र मुपि चेति दीर्घार्थमुक्तपरिभाषाऽनित्यत्वाऽभ्युपगमादिहाऽपि तदप्रबृत्तिरेव स्यादिति वा. च्यम् । कष्टायेति निर्देशेन दोघे तदप्रवृत्तावपि लोपे तदप्रवृत्तेर्वक्तुमशक्यत्वादित्यभिप्राये. णाह-अत्र सन्निपातपरिभाषया पातो धातोरित्याकारलोपो नेति ॥
ननु वारिशब्दात्सम्बुद्धयेकवचने सौ तस्य 'एङ्-हस्वादिति लोपे तस्य प्रत्यय लक्षगेन प्रकृतेः परत्वात् 'हस्वस्य गुणः' इति प्राप्तगुणस्य नलुमताङ्गस्येति निषेवे हेवारीत्येव न तु हे वारे इति तथा च, हे पो हे पु इति भाष्योदाहरणासङ्गत्यापत्तिर्दुरेति पूर्वपक्षप्रा. दुर्भावे समाधने -न लुमतेत्यस्याऽनित्यत्वादिति । अयम्भाव:, अस्याऽनित्यत्वे 'इ. कोऽचि विभक्ताविश्त्यत्राचिग्रहणमेव ज्ञापकम् तथा हि, हलादौ नुमभावायैव सूत्रे तद्ग्रहण सच नुमभावस्तग्रहणं विनाऽप्युपपन्नः, हलादो सत्यपि नुमि लोपेन तव्यावृत्तेः ।न च सम्बुद्धौ 'न डि.सम्बुद्धयोरिति निषेधेन नलोपाभावान्नकारश्रवणापत्तिवारणार्थमचीत्यस्या. वश्यकत्वेन ज्ञापकत्वन्न सम्भवतीति वाच्यम् । न लुमतेति निषेधस्य जागरूकत्वात्प्रत्यय. लक्षणाऽभावेन विभक्तिपरत्वाऽभावादेव तत्र नुमोऽप्राप्त्या तद्वयावृत्त्यर्थं कृतस्याऽचीत्यस्य वैययन ज्ञापकत्वस्य मुस्थत्वात् । न चोत्तराऽर्थत्वेन तस्य ज्ञापकत्वासम्भव एवेति वाच्यम् । लाघवात्तत्रैव कर्तुमुचितत्वेनेह करणे वैयर्थ्यस्य स्पष्टत्वात । एवञ्चोक्तनिषेधसूत्रस्याऽ.
Aho! Shrutgyanam